________________
चन्द्रप्रभचरितम्
इति चिन्तनाकुलमुपेत्य सदसि जगदन्तिकामराः । चिन्तितमखिलहितं भवता जिन साधु साध्विति तमभ्यनन्दयन् ॥७२॥ विमलाभिधान शिबिकास्थममरपतिरेत्य सामरः । प्रापयदर्थ' सकलर्तुवनं तमुरुत्सवेन कृतदुन्दुभिध्वनिः ॥ ७३ ॥ | प्रवितीर्य राज्यमवदातचरितवरचन्द्रसूनवे । षष्ठयुगभिहितसिद्धनुतिः स तपोऽग्रही द्दशशतैर्महीभुजाम् ॥७४ || मणिभाजने समधिरोग्य विबुधपतिरात्मभक्तितः । क्षीरजलनिधिले निद्धे' दृढपञ्चमुष्टिभिरपाकृतान्कचान् ॥७५॥
४२२
नाशयामि । क्षप हिंसायां लट् ॥ ७१ ॥ इतीति । इति उक्तप्रकारेण | चिन्तनाकुलं चिन्तनया वैराग्ययुतचित्तव्यापारेणाकुलं युक्तम् । जगदन्तिकामरा: जगदन्तिका लौकान्तिका अमरा देवाः । सदसि सभायाम् । उपेत्य आगत्य । जिन भो जिननाथ । भवता स्वया । अखिलहितम् अखिलेभ्यो हितमुपकारम् (रः) । चिन्तितं विचारितम् । साधु साधु सम्यक् सम्यक् । 'वीप्सायाम्' इति द्विः । इति एवम् । तं जिनेशम् । अभ्यनन्दन् स्तुवन्ति स्म । टुनदु समृद्धो लङ् ||७२|| विमलेति । अथ लौकान्तिकप्रतिबोधनानन्तरम् । सामरः देवैः सहितः । अमरपतिः देवेन्द्रः । एत्य आगत्य । विमलाभिधानशिबिकास्थं 'विमला' इत्यभिधानं यस्यास्तस्यां शिविकायां तिष्ठतीति तथोक्तम् । तं चन्द्रप्रभम् । कृतदुन्दुभिध्वनि कृतो विहतो दुन्दुभीनां देवपटहानां ध्वनिर्यस्मिन् कर्मणि तत्० । उरूत्सवेन' महासंतोषेण । सकलर्तुवनं सकलर्तुकाख्योद्यानम् । प्रापयत् नयति स्म । ||७३ || प्रवितीर्येति । अवदातचरितवरचन्द्रसूनवे अवदातेन निर्मलेन चरितेन चारित्र ेण युताय वरचन्द्रसूनवे वरचन्द्राख्यसूनवे पुत्राय । राज्यं प्रभुत्वम् । प्रवितीर्य दत्वा । षष्ठयुक् षष्ठेन उपवासयेन युक् युतः । अभिहित सिद्धनुतिः अभिहितोच्चरिता सिद्धस्य नृतिः स्तोत्र ं यस्य सः । चन्द्रप्रभः । महीभुजां भूपतीनां दशशतैः सहस्रेण सह । तपः बाह्याभ्यन्तररूपम् । अग्रहीत् गृह्णाति स्म । ग्रहि उपादाने लुङ् ||७४ || मणीति । विबुधपतिः विबुधानां पतिरिन्द्रः । दृढपञ्चमुष्टिभि: दृढाभिः पञ्चभिर्मुष्टिभिः । अपाकृतान् उत्पाटितान् । कचान् केशान् । आत्मभक्तितः आत्मनः स्वस्य भक्तितो गुणानुरागात् । मणिभाजने रत्नमयपात्र े । समधिरोप्य निक्षिप्य । क्षीरजलनिधिजले क्षीरजलनिधेः पञ्चमाब्धेर्जले सलिले । निदधे स्थापयति स्म । लिट्
[ १७, ७२
चन्द्रप्रभ इस प्रकारसे चिन्तन करने में व्यग्र थे, इतनेमें ही लोकान्तिक देवोंने सभामें उनके निकट जाकर और यह कहकर कि 'हे जिन ! आपने सभी के हित के लिए जो विचार किया है वह सुन्दर है, अति सुन्दर है ( साधु, साधु ), उनका अभिनन्दन किया || ७२ || इसके उपरान्त देवोंके साथ इन्द्र आ पहुँचा। उसने चन्द्रप्रभ भगवान्को 'विमला' नामकी शिबिका (पालकी) में बिठाकर दुन्दुभि बाजोंकी ध्वनि के साथ बड़े उत्सवसे 'सकलतुं' नामक वन में पहुँचा दिया || ७३ ॥ वहाँपर अपने निर्मलचरित वरचन्द्र नामक पुत्रको राज्य देकर दो उपवासोंका नियम लेकर और सिद्धपरमेष्ठीको नमन करके उन्होंने एक हजार मुनियोंके साथ तप करना स्वीकार किया || ७४ ॥ इस अवसर पर भगवान् चन्द्रप्रभने पांच दृढ़ मुष्टियोंसे जिन केशोंका लुञ्चन किया, उन्हें इन्द्र अन्तरङ्गभक्ति मणिमय भाजन में रखकर क्षीर समुद्र में प्रवाहित कर दिया || ७५ || फिर इन्द्र आदि सभी देवोंने वहाँपर दीक्षा कल्याणकका महान् उत्सव मनाया, जिसकी सुन्दरता
१. म प्रापदथ । २. आ इ निधने । ३. = कस्याणम् । ४. = महोद्यावेन । उद्यावः उत्सवः । ५. आ लुङ् । ६. = येन । ७. आ उत्पूजितान् । ८. श गुणानुरागेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org