________________
- १७, ६३ ]
सप्तदशः सर्गः
कमलप्रभा प्रभृतिदिव्य निजयुवतिवृन्दवेष्टितः । भोगसुखमिति यथाभिमतं चिरमन्वभूत्स जगदेकनायकः ॥ ६० ॥ अपरेद्युरुन्नमितबाहुरधिकजरया निपीडितः ।
तस्य सदसि समुपेत्य शनैः श्रितयष्टिरित्यकृत कोऽपि पूत्कृतिम् ॥ ६१ ॥ सुरवृन्दवन्द्य करुणार्द्रं शरणगतलोकवत्सल ।
त्रातरखिलजगतां कृपणं भयभीतमस्तभय रक्ष रक्ष माम् ||६२|| कथितो निमित्तिपुरुषेण रजनिसमये समेत्य माम् ।
मृत्युरविहतगतिप्रसरस्तव पश्यतोऽद्य जगदीश नेष्यति ||६३ ||
४१९
शक्रस्य देवेन्द्रस्य वचनेन आज्ञया । सुरपतिसहस्रमध्यगं सुराणामिन्द्राणां सहस्रस्य मध्यगं मध्यं गतम् । तं चन्द्रप्रभम् । विविधैः नानाविधैः । ललितगीतनर्तनैः ललितैर्मनो हरैर्गीतैर्नर्तनैर्नृत्यैश्च । प्रतिवासरं प्रतिदिनम् । भेजुः सिषेविरे | लिट् ॥ ५९॥ कमलेति । कमलप्रभा प्रभृतिनिजयुवतिवृन्दवेष्टितः कमलप्रभा कमल [ प्रभा ]देवी, सा प्रभृतिर्मुख्या यासां तासां कमलप्रभाप्रभृतीनां दिव्यानां मनोहराणां निजस्य स्वस्य युवतीनां वनितानां वृन्देन निवहेन वेष्टितः परिवृतः । जगदेकनायकः जगतां भुवनानामेको मुख्यो नायकः स्वामी । सः चन्द्रप्रभः क यथाभिमतम् अभिमतमनतिक्रम्य, वाञ्छामनतिक्रम्येत्यर्थः । भोगसुखं भोगानां विषयाणां सुखम् । इति एवम् । चिरं बहुकालपर्यन्तम् । अन्वभूत् अन्वभवत् । लुङ् । अतिशयः || ६० || अपरेद्युरिति । अपरेद्युः अन्यस्मिन् दिने । 'पूर्वापर - ' इत्यादिना एघुस - प्रत्ययः । उन्नमितबाहुः उन्नमितो उद्धृतौ बाहू भुजो यस्य सः । अधिकजरया अधिकया प्रवृद्धया जरया वार्धक्येन । निपीडितः बाधितः । श्रितयष्टिः आश्रिताधारयष्टिः । तस्य चन्द्रप्रभस्य । सदसि सभायाम् । शनैः मन्दम् । समुपेत्य आगत्य । कोऽपि पुरुषः । इति वक्ष्यमाणप्रका रेण । फूत्कृति फूत्कारम् । अकृत अकरोत् । लुङ् । जातिः || ६१ || सुरेति । सुरवृन्दवन्द्य सुराणाममराणां वृन्देन निकायेन वन्द्य वन्दनीय, भो सुरनिकायपूज्य । करुणार्द्र करुणया कृपया आर्द्र मृदुल । शरणगत लोकवत्सल शरणगतस्य शरणागतस्य लोकस्य जनस्य वत्सल पालक । अखिलजगतां निखिललोकानाम् । श्रातः रक्षक । अस्तभय अस्तं निरस्तं भयं यस्य तस्य संबोधनम् । कृपणं दीनम् । भयभीतं भयैः सप्तभयैर्भीतं विभीषितम् " । माम् । रक्ष रक्ष पालय पालय । रक्ष पालने लोट् । वीप्सायां द्विः । जातिः ॥ ६२॥ कथित इति । जगदीश भो जगतां लोकानाम् ईश स्वामिन् । अविहतगतिप्रसरः अविहतो बाधारहितो गत्या गमनस्य हजारों राजों - महाराजोंके बीच में बैठे हुए चन्द्रप्रभके पास जाकर नाना प्रकारके सुन्दर गीतों और नृत्योंसे प्रतिदिन उनकी सेवा किया करती थीं || ५९ || चन्द्रप्रभ सारे जगत् के एकमात्र नायक थे । कमलप्रभा आदि अपनी सुन्दर यौवनवती नायिकाओंके वर्गके बीच में रहकर उन्होंने इस प्रकार चिरकाल तक यथेच्छ भोग भोगे ||६० ॥ एक दिनकी बात है । एक पुरुष, जो अत्यधिक वृद्ध था, तथा वृद्धावस्था के कारण अत्यन्त पीडित था, लाठी टेकता हुआ धीरे-धीरे चन्द्रप्रभकी सभा में पहुँचा, और वहाँपर वह अपने दोनों बाहुओंको ऊपर उठाकर दुःखभरे शब्दों में यों चिल्लाने लगा - ॥ ६१ ॥ भगवन् ! आप देववृन्दके द्वारा वन्दनीय हैं, आपका हृदय दयासे आर्द्र है, आप शरणागतवत्सल हैं, आप जगत् के समस्त प्राणियोंके रक्षक हैं और हैं समस्त भयोंसे मुक्त, और मैं दोन और भयभीत हूँ, अतः मेरी रक्षा कीजिए, मुझे बचाइए ॥ ६२ ॥ हे जगदीश एक मिमित्त ज्ञानी पुरुषने समीपमें आकर मुझसे कहा है कि आज रात्रिके समय मृत्यु —
१. श आज्ञावचनेन । २. मूले नरपति" पदं वर्तते, अतो नरपतीनां नरेन्द्राणां सहस्रस्य मध्यं गच्छ - तीति मध्यगः तम् — इति तद्वयाख्या भवेत् । ३. श स्वस्तिकान्तर्गतः पाठो नोपलभ्यते । ४. रा 'अपरेद्युः' इति नास्ति । ५. श अपरस्मिन् । ६. श उद्धतौ । ७. = येन । ८. एष टोकाश्रयः पाठः, प्रतिषु तु 'पूत्कृतिम्' इति समवलोक्यते । ९ = येन । १०. = तत्संबुद्धी हे अस्तभय । ११. शनिभीषितम् । १२. स लेट् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org