________________
चन्द्रप्रभचरितम्
क्षमसे ततो यदि न पातुर्मास जिन वृथान्तकान्तकः । वाचमिति समभिधाय पुरः सहसा तिरोहितवपुर्बभूव सः ॥ ६४ ॥ वद देव कोऽयमिति सभ्यजनवचनमारुतेरितः ।
४२०
निखिलभुवनोऽवधिना भगवान्हसन्निति जगाद कारणम् ॥६५॥ मम कर्तुमेष विषयेषु विरतिममराधिपाज्ञया । धर्मरुचिरिति सुरस्त्रिदिवात्समुपाययौ विकृतवृद्धविग्रहः ॥ ६६ ॥ विनिवेद्य सभ्यनिवहस्य कृतपरमविस्मयस्य तत् । भोगविरतहृदयः स भवस्थितिमित्यचिन्तयदचिन्त्य चेष्टितः ||६७ ||
प्रसरो विसरो यस्य सः । मृत्युः यमः । अद्य इदानीम् । रजनि समये रात्रिकाले । समेत्य आगत्य । पश्यतः वीक्षमाणस्य । तव भवतः । पश्यन्तं त्वामनादृत्येति यावत् । मां नेष्यति प्रापयिष्यति । णीञ प्रापणे लृट् । निमित्तपुरुषेण आदेशपुरुषेण । कथितः प्रोक्तोऽहम् । आक्षेप: ( ? ) ||६३ || क्षमस इति । जिन भो जिनेश । ततः तस्माद् यमात् । यदि पातुं मां रक्षितुम् । न क्षमसे न समर्थोऽसि । वृथा मुधा । अन्तकान्तकः अन्तकस्य यमस्यान्तको यमः । असि भवसि । अस भुवि लट् । सः सुरः देवः । इति एवम् । वाचं वचनम् । समभिधाय सम्यगुक्त्वा । सहसा शीघ्रम् । तिरोहितवपुः तिरोहितं व्यवहितं वपुः शरीरं यस्य सः । बभूव भवति स्म । आक्षेप: ( ? ) ||६४ || वदेति । भो देव । अयं कः किमभिधानः । वद ब्रूहि । इति एवम् । सभ्यजनवचनमारुतेरितः सभ्यजनस्य सभ्यलोकस्य वचनमारुतेन भाषणवायुना ईरितः प्रेरितः । अवधिना अवधिज्ञानेन । द्दष्टनिखिलभुवनः दृष्टं ज्ञातं निखिलं सकलं भुवनं जगद् येन सः । भगवान् स्वामी चन्द्रप्रभः । हसन् प्रहसन् । इति वक्ष्यमाणप्रकारेण । कारणं हेतुम् । जगाद ऊचे | लिट् ॥ ६५ ॥ ममेति । विकृतवृद्धविग्रहः विकृतो निर्मितो वृद्धस्य स्थविरस्य विग्रहो देहो यस्य सः । धर्मरुचिरिति धर्मरुचिनामधेयः । एषः अयम् । सुर: देवः । अमराधिपाज्ञया अमराधिपस्य देवेन्द्रस्याज्ञयानुज्ञया । मम मे । त्रिषयेषु पञ्चेन्द्रियविषयेषु । विरति विरागम् । कर्तुं विधातुम् । त्रिदिवात् स्वर्गात् । समुपाययो समागच्छत् । या प्रापणे लिट् ॥ ६६ ॥ विनिवेद्येति । कृतपरमविस्मयस्य कृतो विहितः परम उत्कृष्टो विस्मयो यस्य तस्य । सभ्यनिवहस्य सभ्यानां' सामाजिकानां निवहस्य निकरस्य । तत् तदागमनम् । विनिवेद्य ज्ञापयित्वा । भोगविरतहृदयः भोगेषु विषयेषु ' विरतं विरक्तं हृदयं चित्तं यस्य सः । अचिन्त्यचेष्टितः अचिन्त्यं चेष्टितं व्यापृतं यस्य सः । सः चन्द्रप्रभः ।
.१०
[ १७, ६४ -
जिसे कोई टाल नहीं सकता - आप ( चन्द्रप्रभ) के देखते उठा ले जायगा || ६३|| हे जिन ! यदि आप उससे मुझे नहीं बचा सकते तो आप व्यर्थ ही अन्तकके अन्तक अर्थात् अन्तकारिया मृत्युंजय कहे जाते हैं । ये वचन कहकर वह देव शीघ्र ही अन्तर्धान हो गया- दृष्टिसे ओझल हो गया || ६४ || जिनदेव ! यह कौन था ? बताइए, इस तरह सभासदों के वचनका रुख देखकर और उससे प्रेरणा पाकर भगवान् चन्द्रप्रभ - जो अवधिज्ञानसे सारे संसारको जानते थे-हंसते हुए, उसके आनेके कारणका यों निरूपण करने लगे - ॥ ६५ ॥ यह देव था । इसका नाम धर्मरुचि था । यह विक्रिया के बलसे बुड्ढेका रूप धारण करके, इन्द्रकी आज्ञा पाकर मुझे पंचेन्द्रियोंके विषयसे विरक्त करनेके लिए स्वगंसे यहाँ आया था ||६६ || सभी सभासदोंसे भगवान् चन्द्रप्रभने जब उसके बारेमें यों निवेदन किया, तो उन्हें बड़ा आश्चर्य हुआ । इसके पश्चात् चन्द्रप्रभका - जिनकी चेष्टाएँ अचिन्त्य थीं- हृदय भोगोंसे विरक्त हो गया । फलतः जगत्
येन ।
१. आ इ सुर: । २. आ इ ताम्, म तम् । ३. श रजनी । ४. आश नेष्यते । ५. = जन्मान्तरमिति शेषः । ६. तद् वृथा । ७. आ अस्य श्लोकस्य व्याख्या नोपलभ्यते । ८. = येन । ९. = १०. आ सभानिवहस्य सभानां । ११. = भोगेभ्यो विषयेभ्यः ।
For Private & Personal Use Only
Jain Education International
=
www.jainelibrary.org