SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् [१७, ५५ न समीरणः श्रवणभेदिपरुषरवदारुणो ववौ । नास्पदमलभत रोगगणः समपादि नातिहिममुष्णमेव वा ॥५५॥ न विबाधनं जनपदस्य समजनि कदाचिदीतिभिः।। क्रूरमृगसमुदयोऽप्यभवन्न पुरैव हिंसनविषक्तमानसः ॥५६॥ तमुपायनैः समुपगम्य सदसि परचक्रपार्थिवाः । द्वाःस्थकथितनिजनामकुलाः शिरसा प्रणेमुरवनीतलस्पृशा ॥७॥ रजनीमहश्च स विभज्य विबुधनुतबद्धिरष्टधा। कर्मभिरनयत सर्वजगन्नयमार्गदर्शनपरो यथोचितैः ॥५८।। तमुपेत्य शक्रवचनेन नरपतिसहस्रमध्यगम् ।। भेजुरमरवनिता विविधैः प्रतिवासरं ललितगीतनर्तनः ॥५६।। शयः ।।५४ । नेति । श्रवणभेदिपरुषरवदारुणः श्रवणो कौँ भेदिना विदारिणा परुषेण कठिनेन रवेण ध्वनिना दारुणो भयंकरः । अनिल: वायुः । न ववो न वाति स्म । रोगगण: रोगाणां व्याधीनां गण: समूहः । आस्पदं स्थितिम् । नालभत न प्राप्नोति स्म। डुलभिष प्राप्ती लङ। अतिहिमम् अतिशीतम् । उष्णमेव वा । न समपादि न समुत्पद्यते स्म । पदि गती लङः ।।५५।। नेति । जनपदस्य देशस्य । ईतिभिः अतिवृष्टयादिभिः । कदाचित् एकदापि । विबाधनं पोडा । न समजनि न जन्यते स्म । कर्मणि लुङ् । पुरैव प्रागेव । हिंसनविषक्तमानसः हिंसने हिंसायां विषक्तं मानसं यस्य सः । क्रूरमृगसमुदयोऽपि क्रूराणां मृगाणां समुदयः समूहोऽपि । नाभवत् नाभूत् । लुङ्। ॥५६॥ तमिति । परचक्रपार्थिवाः परचक्रस्य परराष्ट्रस्य पार्थिवा भूमिपाः । उपायनैः उपग्राह्यः सह । समपगम्य समागत्य । द्वास्थकथितनिजनामकूला: द्वास्थैर्वारपालकैः कथितानि निजनामानि कुलानि येषां ते। तं चन्द्रप्रभम् । अवनीतलस्पृशा अवनीतलं मतलं स्पृशतीत्यवनीतलस्पक् तेन । शिरसा मस्तकेन। प्रणेमुः नमन्ति स्म । णम प्रह्वत्वे शब्दे लिट् ॥५७।। रजनोमिति । विबुधनुतबुद्धिः विबुधैरमरैर्नुता स्तुता बुद्धिर्यस्य सः । नयमार्गदर्शनपर: नयस्य नीतेर्मार्गस्य शास्त्रस्य दर्शने प्रकाशने परः तत्परः । स: जिनेशः । रजनीं रात्रिम् । अहश्च दिनं च। अष्टधा अष्टभिः प्रकारैः । विभज्य भागं कृत्वा । सर्वजगत सर्वलोकम् । यथोचितैः यथायोग्यैः । कर्मभिः कृत्यैः । अनयत यापयति स्म । गीन प्रापणे लङ ।।५८॥ तमिति । अमरवनिताः अमराणां सुराणां वनिता रमण्यः । शक्रवचनन प्रजाके किसी मनुष्यको आकुलता उत्पन्न की ॥५४॥ कानोंको फोड़ देनेवाली कठोर आवाजसे दारुण प्रतीत होनेवाली आँधी नहीं चली, रोगोंने स्थान नहीं पाया ( क्योंकि कोई रोगी ही नहीं था ) और न कभी अधिक सर्दी या गर्मी ही पड़ी ॥५५॥ छह ईतियोंसे जनपदको कभी कोई पीड़ा नहीं हुई तथा क्रूर पशुओंके झुण्डने भी अपने मनसे हिंसाकी पुरातन आसक्ति दूर कर दो ॥५६॥ अन्य राष्ट्रोंके राजे-महाराजे अनेक प्रकारके उपहार लेकर, चन्द्रप्रभको सभामें द्वारपालोंके द्वारा अपने नाम और कुलका परिचय भिजवाकर एवं प्रवेशको अनुमति लेकर पहुँचते रहे और भूतलपर सिर नवाकर उन्हें प्रणाम करते रहे ।।५७॥ क्या देव और क्या विद्वान् सभी चन्द्रप्रभकी बुद्धिकी प्रशंसा करते थे। वे जगत्को नीति मार्ग दिखलाने में तत्पर रहते थे। उन्होंने रात और दिनके समयको आठ भागोंमें विभक्त कर दिया था, तथा यथायोग्य कार्यों में संलग्न रहकर वे उस (समय) का सदुपयोग किया करते थे ।।५८॥ इन्द्रको आज्ञासे देवाङ्गनाएं १. म पुरे च । २. अ तलस्पृशाः । ३. = कठोरेण । ४. मूले 'समीरणः' पदं वर्तते न तु 'अनिलः' इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy