________________
१७, ५४]
सप्तदशः सर्गः हरिपीठमास्थितवतोऽथ निखिलनिजपार्थिवान्वितः । तस्य विरचितविवाहविधेरकरोत्पिता नृपतिपदबन्धनम् ।।५।। प्रशशास पूज्यवचनस्य स पितुरुपरोधतो महीम् ।। मुक्तिसुखविनिहितैकमतेनहि तस्य कापि विषयाभिलाषिता ॥५२।। वसुधामवत्यतुलधाम्नि चतुरुदधिवारिमेस्नलाम् । तत्र भृशमभिननन्दै जनो जनवृद्धिहेतुरुदयो हि तादृशाम् ।।५३।। न बभूव कस्यचिदकालमरणमसिलेषु जन्तुषु ।
जातुचिदपि न जनाकुलतां व्यदधादवृष्टिरतिवृष्टिरेव वा ।।४।। कियान्, तम् । कालं समयम् । अनयत् प्रापयत् णोज प्रापणे लङ् । जातिः ॥५०॥ हरीति । अथ कुमारावस्थानन्तरम । निखिलपार्थिवान्वितः निखिल: सकलैः पाथिर्व राजभिरवितो यक्तः। पिता जनकः । हरिपीठे सिंहासने आस्थितवतः आसितस्य । 'शोङस्थासोऽधेराधारः' इति आधारे द्वितीया । विरचितविवाहविधेः विरचितो विहितो विवाहस्य पाणिग्रहणस्य विधिर्यस्य । तस्य जिनेशस्य । नृपतिपट्टबन्धनं नृपतीनां पट्टबन्धनम् । अकरोत् करोति स्म । लङ् ॥५१॥ प्रशशासेति । पूज्यवचनस्य पूज्यमाराध्यं वचनं यस्य तस्य । पितुः जनकस्य । उपरोधत. प्रार्थनातः । सः चन्द्रनाथः । महीं भूमिम् । प्रशशास पालयति स्म । शासु अनुशिष्टौ लिट् । मुक्तिसुखविनिहितैकमतेर्मुक्तेर्मोक्षस्य सुखे विनिहिता स्थापिता एका मुख्या मतिबुद्धियस्य तस्य । तस्य महासेनराजस्य । कापि कीदृश्यपि । विषयाभिलाषिता विषयलोलु पत्वम् । नहि नास्त्येव ।।५२ः। वसुधेति । अतुलधाम्नि अतुलं निरुपम धाम तेजो यस्य तस्मिन् । तत्र चन्द्रप्रभे"। चतुरुदधिवारिमेखलां चतुर्णामुदधीनां समुद्राणां वारि जलं मेखला काञ्चोदाम यस्यास्ताम् । वसुधां भूमिम् । अवति रक्षति सति । जनः प्रजा । भृशम् अत्यन्तम् । अभिननन्द तुतोष । टुनदु समृद्धौ लिट् । तादृशाम् एतादृशां जिनादोनाम् । उदयः अभ्युदयः । जनवृद्धिहेतुः जनानां लोकानां वृद्धेरैश्वर्यस्य हेतुः कारणं हि । अर्थान्तरन्यासः ॥५३॥ नेति । अखिलेषु सकलेषु । जन्तुषु प्राणिषु । अकालमरणम् अपमृत्युः, कदलीघात इत्यर्थः । कस्यचिदपि कस्यापि प्राणिनः । न बभूव न भवति स्म । अवृष्टिः अवर्षणम् । अतिवृष्टिरेव वा अतिवर्षणमेव वा । जातुचिदपि सकृदपि । जनाकुलतां जनानां प्रजानामाकुलता पीडनत्वम् । न व्यदधात् नाकरोत् । लङ् । अति. कामों में जो विशेषता थी, वह अन्य लोगोंमें नहीं थी ॥५०॥ बाल्यकाल समाप्त होनेपर राजा महासेनने चन्द्रप्रभका विवाह-संस्कार किया, जिसमें उनके पक्षके सभी राजे सम्मिलित हुए थे। इसके पश्चात् उन्हें सिंहासनपर बैठाकर उनके पिताने उनका पट्टबन्धन किया ॥५१॥ पिताके वचनको वे ( आगमकी भांति ) पूज्य समझते थे, अतः उनके अनुरोधसे उन्होंने ( चन्द्रप्रभने ) पृथिवीका शासन किया। किन्तु उनका मन मुक्ति सुखकी ओर लगा हुआ था। फलतः उन्हें किसी भी इन्द्रिय-विषयके सुखकी अभिलाषा नहीं थी ॥५२॥ राजा चन्द्रप्रभका तेज अनुपम था। चारों समुद्रोंको सोमासे घिरी हुई पृथिवोका जब उन्होंने शासन किया, तब प्रजाके लोगोंको बहुत ही अधिक आनन्द हुआ, और वे खूब ही समृद्ध हुए; क्योंकि सच तो यह है कि ऐसे महान् पुरुषोंका उदय लोगोंके अभ्युदयको बढ़ानेका कारण होता है ॥५३॥ चन्द्रप्रभके शासनकालमें किसी प्राणीका अकाल मरण नहीं हुआ और न अवृष्टि-सूखा या अतिवृष्टिने भी कभी
१. अनिखिलजन । २. म विवाहविधि। ३. अमति ननन्द । ४. = यापयामास । ५. - हरिपोठं सिंहासनम् । ६. श 'तस्य' इति नास्ति । ७. = आग्रहतः । ८. = येन । ९. आ क्वापि कुत्रापि । विषयाभिलाषिताविषयेषु पञ्चेन्द्रियगोचरेषु अभिलाषिता प्रीतित्वं न भवति हि । समासोक्तिः ॥५२॥ १०. श अतितेजस्विचन्द्रप्रभनपे। ११. श 'चन्द्रप्रभे' इति नास्ति। १२. = हि यतः । तादृशाम् । १३. = व्याकुलताम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org