________________
४१६ चन्द्रप्रभचरितम्
[१७, ४७ - विचरन्स कुट्टिममहीषु परिजनकराङ्गुलिश्रितः । मन्दनिहितचरणो रुरुचे सरसीषु हंस इव भासुरद्युतिः ॥४७॥ शुशुभे करात्करतलानि सकलसुहृदां स संचरन् । दीधितिरुचिरवपुर्वणिजामविबुद्धमूल्य इव वारिधेर्मणिः ॥४८॥ "मणिमुद्रिकाकटकहारवसनरसनादिभूषणम् । , तस्य सुरपतिगिरा धनदः प्रजिघाय सर्वमपि शैशवोचितम् ॥४९॥ स कुमारयोग्यजलकेलिगजतुरगरोहणादिभिः ।
कर्मभिरतिशयितान्यजनैरनयत्कियन्तमपि कालमूर्जितः ॥५०॥ लुङ् । उपमा ॥४६॥ विचरन्निति । परिजनकरागुलिश्रितः परिजनानां सेवकजनानां कराणां हस्तानाम
गुलिं श्रितोऽवलम्बितः । मन्दनिहितचरणः मन्द मृदु निहितो निक्षिप्तौ चरणो यस्य सः। भासुरद्युतिः भासुरा देदीप्यमाना द्युतिः कान्तिर्यस्य सः । कुट्टिममहीषु कुट्टिमै रत्नकुट्टिमैनिष्पन्नासु महीषु भूमिषु । विचरन् संचरन् । सः जिनबालः। सरसीषु सरोवरेषु । हंस इव मराल इव । रुरुचे भाति स्म । रुचि दीप्तौ लिट् । उपमा ॥४७॥ शुशुम इति । सकलसुहृदां सकलानां सर्वेषां सुहृदां मित्राणाम् । करात् हस्तात् । करतलानि हस्ततलानि । संचरन् गच्छन् । दीधितिरुचिरवपुः दीधित्या कान्त्या रुचिरं चारु वपुः शरीरं यस्य सः । सः जिनबालकः । वणिजां विशाम् । अविबुद्धमूल्यः अविबुद्धमज्ञातं मूल्यं' विक्रेयं यस्य सः । वारिधेः समुद्रस्य । मणिरिव रत्नमिव । शुशुभे शोभते स्म । शुभि दोप्तो लिट् । उपमा ॥४८॥ मणीति । मणिमुद्रिकाकटकहारवसनरशनादिभूषणं मणिमुद्रिका रत्नामुलो यकं कटकं हस्तभूषणं हारो मौक्तकमाला वसनं क्षीमं रसना कटिभूषणमेतानि आदीनि प्रभृतीनि यस्य तद् भूषणमलंकरणम् । शैशवोचितं शैशवस्य बाल्यस्योचित योग्यम् । सर्वमपि सकलमपि । तस्य जिनबालकस्य । धनदः कुबेर: सुरपतिगिरा सुराणां देवानां पतिरिन्द्रः तस्य गिरा वचनेन । प्रजिधाय प्रेषयति स्म । लिट ॥४९।। स इति । जितः प्रसिद्धः। सः जिनबालकः अतिशयितान्यजनैः अतिशयिताः" अतिशयीकृताः अन्ये इतर जना लोका यस्तैः । कुमारयोग्यजलकेलिगजतुरगरोहणादिभिः कुमारस्य योग्यान्युचितानि जलकेलिहर्जलक्रोडा च गजानां करिणां तुरगाणामश्वानामारोहणं [ रोहणम् आरोहणं ] च तथोक्तानि तान्यादीनि येषां तैः । कर्मभिः कृत्यैः । कियन्तमपि किं प्रमाणमस्य
से युक्त होकर भी जन-साधारणकी तरह क्रीड़ा किया करते थे ॥४६॥ जिनबालक चन्द्रप्रभके चेहरे पर अपूर्व दीप्ति थी। जब वे अपने परिवार या सेवकके हाथको अंगुलीके सहारे फर्शपर धीरे-धीरे पैर जमाकर घूमते थे तब सरोवर में धोरे-धीरे तैरनेवाले हंसकी भांति सुशोभित होते थे ॥४७॥ जिनबालकके शरीरपर कान्तिको अपूर्व सुषमा थी। वे महासेनके मित्रोंके हाथों में बारी-बारीसे संचार करते हुए ऐसे सुशोभित हो रहे थे जैसे जगमगाता हुआ समुद्रका रत्नजिसका मूल्य नहीं आंका गया हो-जोहरियोंके हाथोंमें बारी-बारीसे पहुँचकर शोभित होता है ॥४८॥ इन्द्रको आज्ञाके अनुसार कुबेर जिनबालकके लिए उनके बाल्यकालमें पहनने योग्य मणिजटित अंगूठियां, कड़े, हार, करधनी एवं वस्त्र आदि सभी आभूषण भेजा करता था ॥४६॥ जिनबालक बहुत बलवान् थे। उन्होंने अपने बचपनके कुछ कालको जड़क्रोडा एवं हाथी-घोड़ोंकी सवारी आदिमें बिताया। उनकी जल-क्रोड़ा तथा हाथी-घोड़ोंकी सवारी आदि
१. अ आ इ लोः श्रितः। २. म वासरद्युतिः। ३. इ 'मणि' इति नोपलभ्यते। ४. = शनैः शनैः । ५. = येन। ६. = अर्घः । ७. श एतच्छ्लोकटोका तु मूले नोपलभ्यते तथापि विरच्य लिख्यते । ८. = आदो यस्मिन् । ९. श अजितः । १०. = 'बलवान्' इति स्यात् । ११. = अतिक्रान्ताः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org