________________
४१५
- १७, ४५]
सप्तदशः सर्गः 'स्वकराङ्गुलीनिजमुखेन विबुधपतियोजितामृताः। प्रीतिविकसितमुखः स लिहन्न चकार मातृकुचयोरतिस्पृहाम् ।।४।। विदधजितस्फटिककान्तिरखिलजनलोचनोत्सवम् । वृद्धिमभजत जिनाधिपतिः प्रतिपच्छशाङ्क इव सोऽनुवासरम् ॥४४॥ तमरीरमत्सुरकुमारसमितिरभिगम्य सुन्दरम् । पोरजनहृदयहृष्टिकरैः करकन्दुकप्रभृतिभिर्विनोदनः ॥४५॥ प्रकृतिस्फुटं ग्रहगणस्य गमनमिव चापलं शिशोः।
क्रीडनमकृत पृथग्जनवत्प्रतिबुद्धबुद्धिरपि यजिनेश्वरः ।।४।। स्वकीयानां भुवम् आवासम् । भेजुः आश्रयन्ति स्म । लिट् ॥४२।। स्वकरेति । विबुधपतयः (?) विबुधानां देवानां पतय इन्द्राः । जितामृताः जितममृतं सुधा यासां ताः। स्वकराङ्गुलीः स्वस्यात्मनः करस्य हस्तस्याङ्गुलीः करशाखाः । निजमुखेन स्ववदनेन । लिहन आस्वादयन् । प्रीतिविकसितमुखः प्रीत्या संतोषेण विकसितं मुखं वदनं यस्य सः । मातृकुचयोः मातुर्जनन्याः कुचयोः स्तनयोः । अतिस्पृहाम् अधिकवाञ्छाम् । न चकार न करोति स्म । लिट् । समासोक्तिः (?) ॥४३॥ विदधदिति । जितस्कटिककान्तिः जिता विजिता स्फटिकस्य कान्तिः शोभा यस्य सः । अखिलजनलोचनोत्सवम् अखिलानां सकलानां जनानां लोकानां नयनानामुत्सवं संतोषम् । विदधत् कुर्वन् । सः जिनाधिपतिः जिनेश्वरः । अनुवासरम् अनुदिनम् । प्रतिपच्छशाङ्क इव प्रतिपद्दिनस्य शशाङ्क इव चन्द्र इव । वृद्धि प्रवृद्धिम् । अभजत आश्रयति स्म । लङ्। उपमा ॥४४॥ तमिति । सुरकुमारसमितिः सुरकुमाराणां देवकुमाराणां समितिः समूहः । सुन्दरं मनोहरम् । तं जिनम् । अभिगम्य अभ्युपेत्य । पौरजनहृदयहृष्टिकरैः पौराणां जनानां लोकानां हृदयस्य मानसस्य हृष्टिकरैः संतोषकरैः । करकन्दुकप्रभृतिभिः करकन्दुकः' प्रभृतियेषां तैः । विनोदैः विलासैः । अरीरमत् रमयति स्म । रमि क्रीडायां णिजन्ताल्लङ् । जातिः ॥४५।। प्रकृतीति । शिशोः बालकस्य । चापलं चञ्चलत्वम् । ग्रहगणस्य ग्रहाणामष्टाशीतिग्रहाणां गणस्य निवहस्य । गमनमिव गतिरिव । प्रकृतिस्कुटं प्रकृत्या स्फुट व्यक्तम् जिनेश्वरः जिननाथः । प्रतिबुद्धबुद्धिरपि प्रतिबुद्धा ज्ञाता बुद्धिः सम्यग्ज्ञानं' यस्य सः, विदितसम्यग्ज्ञानयुक्तोऽपि । पृथगजनवत अज्ञानिजनवत । यत् कारणात । क्रीडनं विनोदम् । अकृत करोति स्म । पिताको सौंपकर अपने-अपने निवास स्थानमें चले गये ॥४२॥ जिन-बालक चन्द्रप्रभ अपने हाथकी अंगुलियोंको मुखसे चूसा करते थे, जिनमें इन्द्रोंने अमृतका लेप कर दिया था । अतएव उन्हें अपनी माँके दूधकी विशेष चाह नहीं रहती थी, और उनका मुख प्रीतिसे कमलकी भांति विकसित रहता था ॥४३॥ चन्द्रप्रभको कान्ति स्फटिक मणिको कान्तिको मात करनेवाली थी। वे लोगोंके नेत्रोंको आनन्द प्रदान करते थे। वे प्रतिपत्के चन्द्रमाको भाँति प्रतिदिन क्रमसे वृद्धिंगत हो रहे थे। शुक्ल पक्षका चन्द्रमा जिस तरह प्रतिदिन वृद्धिंगत होता है उसी तरह चन्द्रप्रभ भी वृद्धिंगत हो रहे थे ॥४४॥ जिन-बालक अत्यन्त सुन्दर थे। देव कुमार उनके पास आकर उन्हें गेंद आदिसे नाना प्रकारके मनोरंजक खेल खिलाते थे, जिन्हें देखकर पुरवासी लोग मन-ही-मन बड़े प्रसन्न होते थे ॥४५॥ ग्रहचक्रका गमन जिस प्रकार स्वभावतः स्पष्ट है इसी प्रकार जिनबालक चन्द्रप्रभका चपल स्वभाव भी स्वभावतः स्पष्ट है; क्यों कि वे विशिष्ट बुद्धि
१. अकराङ्गुलों। २. अ पतयो जितामृताम् । ३. रपि स्पृहाम् । ४. म 'बद्धबु। ५. अरपि तनुजिनेश्वरः। ६. एष टीकाश्रयः पाठः, प्रतिषु तु सर्वास्वपि "विबुधपतियोजितामृताः' इत्येव वर्तते । ७. = यासु । ८. = येन । ९. आ °कन्दुका । १०. आ 'प्रकृत्या स्फुटं' इति नास्ति । ११. श ज्ञाता बुद्धिर्यस्य ज्ञानं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org