________________
४१४ चन्द्रप्रमचरितम्
[१७, ३९ - नम इत्यपि त्वयि जिनेन्द्र विनिगदितमक्षरद्वयम् । पापमखिलमपहन्ति नृणामपरस्तु वाग्विभव एव वाग्मिनाम् ।।३९।। इति संप्रधार्य भुवनेश भवति विनुतिः प्रबन्धतः। सिद्धनुतिकृतफलेन मया न वितन्यते जिन ततो नमोऽस्तु ते ॥४०।। तमिति प्रणुत्य गुरुभक्तिभरनततनुः पुरंदरः।। सोत्सवमनयत चन्द्रपुरी परिवारितः सुरगणेन नृत्यता ॥४१॥ प्रविधाय तत्र पुनरेव मुदितहृदया महोत्सवम् ।
भेजुरमरनिवहाः स्वभुवं विनिवेद्य तं जनकयोर्जिनार्भकम् ॥४२॥ न संबध्यते । लोक श्लेषणे कर्मणि लट् । [ तावत् ] तावत्पर्यन्तम् । भवभूत् संसारी। भयरोगशोकमरणानि भीतिरोगदुःखमरणानि । भवभवविचित्रवेदनाः भवे भवे जन्मजन्मान्तरे दुःखानि, भवे संसारे भवा उत्पन्ना विचित्रा बहविधा वेदनाः तीव्रपीडाः, इति च । भजते श्रयते । भजिसेवायां लट् ॥३८॥ नम इति । जिनेन्द्र जिननाथ । त्वयि भवति । गदितं प्रोक्तम । 'नमः' इति । अक्षरद्वयमपि वर्णद्वयमपि । नृणां जनानाम् । अखिलं सकलम् । पापं दुरितम् । अपहन्ति हिनस्ति । हन हिंसागत्योः लट् । अपरस्तु इतरस्तु । वाग्मिनां वाक्चतुराणाम् । वाग्विभव एव वाचो बचनस्य विभव एव रचनैव ॥३९॥ इतीति । भुवनेश लोकेश । इति 'नमः' इत्यक्षरद्वयमपि पापमपहरति, इति संप्रधायं निश्चित्य । भवति त्वयि । विनुतिः स्तोत्रम् । सिद्धनुतिकृतफलेन सिद्धया निष्यन्नया नुत्या स्तुत्या कृतं विहितं फलं
तेन । मया। प्रबन्धतः विस्तरतः । न वितन्यते न क्रियते । कर्मणि लट । जिन भो जिनेन्द्र ततः तस्मात् । ते तुभ्यम् । नमः नमनम् । अस्तु भूयात् । लोट् ॥४०॥ तमिति । गुरुभक्तिभरनततनुः गुा महत्या भक्त्या गुणानुरागस्य भरेण भारेण नता विनता तनुर्यस्य सः । पुरंदरः देवेन्द्रः । 'पुरंदरभगंदर' इत्यादिना साधुः । तं चन्द्रप्रभजिनम् । इति एवम् । प्रणुत्य स्तुत्वा । नृत्यता नर्तयता । सुरगणेन सुराणां देवानां गणेन निकायेन । परिवारितः परीतः । चन्द्रपुरी चन्द्रपुरम् । सोत्सवं संभ्रमसहितं यथा तथा । अनयत प्रापयति स्म । णोञ् प्रापणे लङ् ॥४१॥ प्रविधायेति । तत्र चन्द्रपुर्याम् । मुदितहृदयाः मुदितं संतुष्टं हृदयं चित्तं येषां ते । अमरनिवहाः अमराणां निवहा निकायाः । पुनरेव पश्चाद् एव । महोत्सवं महासंभ्रमम् । प्रविधाय कृत्वा । जनकयोः मातृपित्रः तं जिनार्भकं जिनबालकम् । विनिवेद्य विज्ञाप्य । स्वभुवं स्वेषां
तभी तक वह भय, रोग, शोक, मरण और भवभवकी विविध वेदनाओंको प्राप्त करता है ॥३८॥ हे जिनेन्द्र ! आपके विषय में श्रद्धासे कहे गये 'नमः' ये दो अक्षर भी, कहनेवाले-नमस्कार करनेवाले मनुष्योंके सारे पापोंको नष्ट कर देते हैं। और तो वक्ताओंकी वाणीका केवल वैभव ही है ॥३९॥ 'नमस्कार करने मात्रसे समस्त पाप विलीन हो जाते हैं', यह सोचकर मैं पूर्णस्तुतिकृत फलके निमित्तसे विस्तारपूर्वक आपकी स्तुति नहीं कर रहा हूँ। अतः हे जिन, आपको मेरा नमस्कार हो ॥४०॥ इस प्रकार स्तुति करके इन्द्रने अत्यधिक भक्तिसे विभोर होकर चन्द्रप्रभके सामने अपने शरीरको नवा दिया-साष्टांग नमस्कार किया और फिर वह नृत्य करते हुए देववृन्दके साथ चन्द्रप्रभको उत्सवपूर्वक चन्द्रपुरी लिवा ले गया। चन्द्रपुरो जाते समय इन्द्र बीच में था और सभी नृत्य करनेवाले देव उसके चारों ओर ॥४१॥ चन्द्रपुरीमें, प्रसन्न मन वाले सभी देवोंने फिरसे उत्सव मनाया और फिर वे जिन बालकको उनके माता
१. क ख ग घ म प्रबध्नता । २. म जनवयों । ३. आ लिट्, श लोञ् । ४. आ लिट् । ५. श भज । ६. =वागाडम्बर एव। ७. श लेट् । ८. = नटता। ९. = अपि । १०. = जननीजनकयोः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org