________________
- १७, ३८]
सप्तदशः सर्गः मतिमातनोति हरतेऽधमुपनयति सर्वसंपदः। किं तदधिप विदधाति न यद्भवदध्रिपङ्करुहसेवनं नृणाम् ।।३४।। सकलोऽप्यपेदय किमपीश परहितरतः प्रजायते।। न क्वचिदियमुपलब्धचरी तव नियंपेक्षभुवनोपकारिता ॥३५।। हरयोऽभिषेकमुपगम्य विधदति शची प्रसाधिका। वारि वहति निवहो घुसदामपरस्य कस्य महिमा जिनेदृशः ॥३६।। पशवोऽपि संनिधिमवाप्य तव जिन भवन्ति भाक्तिकाः। मानुषतनुरपि यस्तु मतिं त्वयि नातनोतु स पशुः पशोरपि ॥३७॥ मयरोगशोकमरणानि भवभव विचित्रवेदनाः ।
तावदभव भजते भवभृत्त्वयि यावदस्य हृदयं न लीयते ॥३८|| विपत्तयः । छलयितुं पीडितम । न प्रभवन्ति समर्था न भवन्ति । लट । उपमा ॥३३॥ मतिमिति । अधिप भो वामिन । भवदङिघ्रपङरुहसेवनं भवतस्तवाङत्री पादावेव पडरुहं कमलं तस्य सेवनम । 'नणां मनुष्याणाम् । मति बुद्धिम् । आतनोति करोति । अघं पापम् । हरते निराकरोति । सर्वसंपदः सर्वसंपत्तोः। उपनयति संपादयति । यत कार्यम् । न विदधाति न करोति । तत कार्यम। किमस्ति ? नास्तीत्यर्थः ॥३४॥ सकल इति । ईश भो स्वामिन । सकलोऽपि सर्वोऽपि जनः । किमपि। प्रयोजनम । अपेक्ष्य उद्दिश्य । परहितरतः परेषामन्येषां हिते उपकारे रतः प्रीतः। प्रजायते संभवति । लट् । तव भवतः । इयम् एषा। निर्व्यपेक्षभुवनोपकारिता नियंपेक्षा अपेक्षारहिता भुवनस्य लोकस्योपकारिता उपकारित्वम् । क्वचित् कुत्रापि । नोपलब्धचरी प्रागुपलब्धा न भवति ॥३५।। हरय इति । जिन भो जिनेश । हरयः इन्द्राः । उपगम्य आगत्य । अभिषेकम अभिषवणम । विदधति कुर्वन्ति । शची शची देवी। प्रसाधिका अलंकारिता । धुसदां देवानाम् । निवहः समूहः । वारि क्षीरोदकम् । वहति धरति । अपरस्य अन्यस्य । कस्य । ईदृशः एतादृशः । महिमा अस्ति, किन्तु नास्तीत्यर्थ: अतिशयः ॥३६॥ पशव इति । जिन भो जिनेश । पशवोऽपि तिर्यञ्चोऽपि। तव भवतः । संनिधि समीपम् । अवाप्य लब्ध्वा । भाक्तिकाः भक्तियुक्ताः । भवन्ति । लट् । यस्तु पुरुषः। मानुषतनुरपि मानुष्या मनुष्यसंबन्धि-या तन्वा शरीरेण युतोऽपि । त्वयि भवति । मति भक्तिबुद्धिम् । नातनोति न करोति । लट् । सः पुरुषः । पशोरपि तिरश्चोऽपि । पशु. पशुजातिः । आक्षेपः ॥३७॥ भयेति । अभव संसाररहित । अस्य संसारिणः । हृदयं मानसम् । [ यावत् ] यावत् पर्यन्तम् । त्वयि भवति । न लीयते सकतीं ॥३३॥ हे स्वामिन् ! आपके चरण-कमलोंकी सेवा-शुश्रूषा मानवोंकी बुद्धिको विकसित करती है, पापोंको दूर करती है, सारी सम्पदाओंको समीपमें ला देती है। फिर और क्या है जिसे वह नहीं करती ? ॥३४॥ हे ईश ! सभी लोग किसी-न-किसी स्वार्थसे दूसरोंके हितमें प्रवृत्त होते हैं, पर आपको यह लोकोपकारकी प्रवृत्ति सर्वथा निःस्वार्थ है । वस्तुतः ऐसी प्रवृत्ति इस लोकमें अभी तक कहीं भी नहीं पाई गयो ॥३५॥ हे जिन ! आपके सिवा और किसकी ऐसी महिमा है जिसका अभिषेक स्वयं इन्द्र (स्वर्गसे ) आकर करें, इन्द्राणी शृंगार करे और देवोंका वृन्द जल भरकर लावे ? ॥३६॥ हे जिन ! समीपमें आकर पशु भी आपके भक्त हो जाते हैं। पर जो मानव-देहको पाकर भी अपनी बुद्धिको आपकी ओर नहीं लगाता-आपका भक्त नहीं बनता वह पशुसे भी बढ़कर पशु है-पशुसे भी गया बीता है ॥३७॥ हे भगवन् ! आप भव परम्परासे मुक्त हैं। जिस संसारी जीवका हृदय जब तक आपमें लीन नहीं रहता,
१. क ख ग घ म भवभय । २. एष टीकाश्रयः पाठः, प्रतिषु तु 'नृणाम्' इत्यस्ति । ३. श आदिश्य । ४. प्रसाधिका अलंकी । ५. श ईदृक् । ६. = सामीप्यम् । ७. = पशुतोऽपि निकृष्ट इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org