________________
चन्द्रप्रभचरितम्
तव दर्शनं जगदधीश विदधदजरामरं जगत् ।
कस्य न कथय रसायनवद्वि दुषामभव्यमपहाय रोचते ||३०|| सुखमाश्रिताय जिननाथ वितरसि यदिच्छया विना । शक्तिरियमनघ ते सहजा किमु विस्नसा श्रमहरं न चन्दनम् ॥३१॥ सकृती कृतार्थमपि तस्य जगति कलयामि जीवितम् । यस्य हृदयसरसि स्फुरति प्रतिवासरं जिन तवाङ्घ्रिपङ्कजम् ||३२|| सुरपूज्य यः सततमेव वहति हृदयेन नाम ते । मन्त्रकुशलमिव शाकिनिकाः प्रभवन्ति न च्छलयितुं तमापदः ||३३॥
४१२
भो नाथ हे स्वामिन् । तव ते । चरण-युग्मं चरणयोर्युग्मं तथोक्तम् । अविचलितभक्ति अविचलिता निश्चला भक्तिर्गुणानुरागो यस्मिन् कर्मणि यथा भवति तथा। सेवते । सेवृन् सेवने । तस्य पुरुषस्य । यमः कालः । खलु निश्चयम् । किं करोति । डुकृञ् करणे । तुहिनं हिमम् । अग्निसेविनम् अनिल ( अनल- ) सेविनम् आश्रययुक्तं पुरुषम् । न बाधते हि न बाध्यते हि ॥ २९ ॥ तवेति । जगदधीश जगतां लोकानामधीश स्वामिन् । जगत् लोकम् । अजरामरं जरामरणरहितम् । विदधत् । तव भवतः । दर्शनं मतम् । विदुषां बुधानाम् । अभव्यम् अभव्यजीवम् । अपहाय विमुच्य । कस्य जीवस्य । रसायनवत् अमृतवत् । न रोचते न प्रीणयति । रुचि अभिप्रीत्याञ्च लट् । उपमा ॥। ३० । सुखमिति । जिननाथ भो जिनेश । अनघ पापरहित । ते भवतः । आश्रिताय सेविताय । इच्छया विना अभिलाषेण विना । सुखम् आनन्दम् । वितरसि ददासि । तू प्लवनतरणयोर्लट् । इति यत् यस्मात् । इयम् एषा । सहजा स्वाभाविका । शक्तिः सामर्थ्यम् । चन्दनं श्रीगन्धः । farer स्वभावेन । श्रमहरं परिश्रमवारणम् । न किमु न किम् ? किन्तु श्रमहरमेव । अर्थान्तरन्यासः ॥३१ ॥ स इति । जिन भो जिनेश । यस्य पुरुषस्य । हृदयसरसि हृदयमेव सरस्तस्मिन् । तव भवतः । अङ्घ्रिपङ्कजम् अङ्घ्रिरेव पाद एव पङ्कजं कमलम् । प्रतिवासरं प्रतिदिनम् । स्फुरति शोभते । स्फुर स्फुरणे लट् । सः पुरुषः । जगति लोके । कृती पुण्यवान् । तस्य पुरुषस्य । जीवितमपि जीवनमपि । कृतार्थं संपूर्णप्रयोजनम् । कलयामि मन्ये । कल संख्याने लट् ||३२|| सुरेति । सुरपूज्य सुरैर्देवैः पूज्य आराधनीय, भो देवाराध्य | यः पुरुषः । ते भवतः । नाम नामधेयम् । सततमेव अनवरतमेव । हृदयेन चित्तेन । वहति धरति । वहि प्रापणे लट् तं पुरुषम् । शाकिनिकाः दुष्टग्रहाः । मन्त्रकुशलमिव मन्त्रेष्वाकर्षणादिमन्त्रेषु कुशलमिव निपुणमिव । आपदः जो भी स्थिर भक्ति से आपके चरणोंकी सेवा करता है, यमराज ( मृत्यु ) उसका क्या कर सकता है ? आग तापनेवालेको जाड़ा नहीं सता पाता ||२९|| हे जगन्नाथ ! सारे संसारको अजर और अमर कर देनेवाला आपका दर्शन रसायनके समान है । वह अभव्यको छोड़कर, बताइये और किस विद्वान्को नहीं रुचता ? ||३०|| भगवन् ! आप रागादि कषायोंके विजेता हैं, सबके स्वामी हैं और हैं निष्पाप । आपका जो कोई भी आश्रय लेता है, उसे आप सुख देते हैं, वह भले ही उसे ( सुखको ) पानेके लिए अपनी इच्छाको व्यक्त न करे। यह आपकी स्वाभाविक शक्ति है । क्या चन्दन स्वभावसे हो थकानको दूर करनेवाला नहीं होता ? ||३१|| हे जिन ! वह पुण्यात्मा है और मैं उसके जीवनको इस जगत् में कृतकृत्य समझता हूँ, जिसके हृदय रूपी सरोवर में प्रतिदिन आपके चरण-कमल सुशोभित हुआ करते हैं ||३२|| भगवन्! आपको देव लोग भी पूज्य मानते हैं । जो मनुष्य आपके नामका सदा हृदयसे स्मरण करता है, उसे आपदाएँ छल नहीं सकती - पीड़ा नहीं दे सकतीं । जैसे कुशल मान्त्रिकको शाकिनी - डाकिनी नहीं छल
1
[ १७, १०
१. = निश्चयेन । २. = न पीडयति । ३. = कुर्वत् । ४. = जराव्याधिजिदौषधमिव । ५. = न स्वदते । ६ = आश्रयं प्राप्ताय । ७. श तृ । ८. आ वह ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org