________________
४११
- १७, २९]
सप्तदशः सर्गः सकलावबोधमकलङ्कमनुपममचिन्त्यवैभवम् । जन्मरहितमजरामरणं जितमत्सरं जिनमभिष्टवेऽष्टमम् ॥२५॥ स्तुतिशक्तिरस्ति न ममेश तदपि हितकाङ्क्षया स्तुवे । शक्यमिदमिदमशक्यमिति प्रविचारबाह्यमतयो हि कार्यिणः ॥२६॥ .. हरिविष्टरस्थितमशेषजननयनहारि ते वपुः। कान्तिरुचिरमुदयादिशिरोगतमिन्दुमण्डलमिवावभासते ॥२७॥ जिन यः समाश्रयति मार्गमखिलजनवत्सलस्य ते।। तस्य न भवभयमस्ति पुनः किमु नौश्रितो जलनिधौ निमजति ॥२८॥ तव नाथ यश्चरणयुग्ममविचलितभक्ति सेवते ।
तस्य किमु खलु करोति यमो नहि बाधते तुहिनमग्निसेविनम् ।।२६॥ यस्मिन् कर्मणि तत् । इति वक्ष्यमाणप्रकारेण । प्रचक्रमे प्रारभे"। क्रम पादविक्षेपे लिट् ।।२४।। सकलेति । सकलावबोधं सकलेन सर्वेणावबोधेन युक्तम् । अकलङ्क निर्मलम् ( कलङ्करहितम् ) । अनुपमम् उपमातीतम् । अचिन्त्यवैभवम् अचिन्त्यं ध्यातुमशक्यं वैभवं यस्य तम् । जन्मरहितं जननरहितम् । जरामरणरहितम् । जितमत्सरं जितमात्सर्यम् । जिनं जिनेशम् । अष्टमं चन्द्रप्रभम् । अभिष्टुवे अभिनौमि । जातिः ॥२५।। स्तुतीति । ईश स्वामिन् । मम मे। स्तुतिशक्तिः स्तुती स्तोत्रकरणे शक्तिः सामर्थ्यम् । नास्ति । तदपि तथापि । हितकांक्षया हितस्यानन्तसुखस्य इच्छया [कांक्षया] वाञ्छया। स्तुवे स्तोमि । ष्टुञ् स्तुती लट् ।
यणः कार्ययताः । इदं कार्य शक्यमिदं कार्यमशक्यम । इति एवम् । प्रविचारबासमतयो हि प्रविचारात परीक्षणाद् बाह्या मतिर्येषां ते। अर्थान्तरन्यासः ॥२६।। हरीति । हरिविष्टरस्थितं हरिविष्टरे सिंहासने स्थितम् । अशेषजननयनहारि अशेषाणां सकलानां जनानां नयनानां हारि मनोहरम् । कान्तिरुचिरं कारत्या लावण्येन रुचिरं सुन्दरम् । ते भवतः। वपुः शरीरम् । उदयाद्रिशिरोगतम् उदयातरुदयपर्वतस्य शिरो अम्रभागं गतं यातम् । इन्दुमण्डलमिव इन्दोश्चन्द्रस्य मण्डलमिव बिम्बमिव । अवभासते विभाति । भास" दीप्ती लट् । उपमा ॥२७॥ जिनेति । जिन भो जिनेश । अखिलजनवत्सलस्य अखिलानां जनानां वत्सलस्य प्रीतस्य । ते भवतः । मार्ग रत्नत्रयधर्मम् । यः पुरुषः। समाश्रयति'भजते । श्रि सेवायां लट । तस्य पुरुषस्य । भवभयं भवात् संसाराज्जातं भयम् । नास्ति । नौ श्रितः नावं यानपात्रं श्रित आरूढः । पुनः पश्चात् । जलनिधौ समुद्रे । निमज्जति [किमु ] ? । डुमस्" शुद्धो लट् । अर्थान्तरन्यासः ॥२८॥ तवेति' । में समस्त ज्ञानोंसे युक्त, निष्कलंक, अनुपम, अचिन्त्य वैभवमय, जन्म, जरा और मरणसे रहित
और मात्सर्यपर विजय पानेवाले अष्टम तीर्थकर चन्द्रप्रभ जिनेन्द्रको स्तुति करता हूँ ॥२५॥ हे भगवन् ! मुझमें आपकी स्तुति करनेकी शक्ति नहीं है, तो भी मैं अपने हितको कामनासे आपकी स्तुति कर रहा हूँ। सच तो यह है कि अपने कामको सिद्ध करनेकी चाह रखनेवाले लोगोंकी बुद्धि 'यह शक्य है या अशक्य' इसविचारसे निश्चय ही दूर रहती है ॥२६।। भगवन् ! सिंहासनपर विराजमान,सारे संसारके नेत्रोंको हरण करनेवाला, तुम्हारा कान्तिमय सुन्दर शरीर उदयाचलके शिखरपर स्थित चन्द्रमण्डलकी भांति सुशोभित हो रहा है ॥२७॥ हे जिन ! सबके प्रति वात्सल्य भाव रखनेवाले आपके रत्नत्रय मार्गका जो कोई भी आश्रय लेता है, उसे पुनर्जन्मका भय नहीं रहता। क्या जहाजपर बैठनेवाला समुद्रमें डूबता है ? ॥२८॥ हे नाव !
१. आ कांक्षिणः । २. आ इ समाश्रयते । ३. म नौस्थितो। ४. अलितातिभक्ति । ५. = प्रारेभे । ६. आ मशक्यो वैभवों। ७. = अभिष्टोमि। ८. श 'हरिविष्टरे' इति नास्ति । ९. श विभासि । १०. आ भासृज, श भासृङ्। ११. श श्रयते। १२. आ भजति । १३. श डुमस्जि। १४. श अस्य श्लोकस्य व्याख्या नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org