________________
चन्द्रप्रमचरितम्
[१७, २१ - अभिषिच्य तं ललितनृत्यमधुररवगीतवादितैः'। वज्रमयनिशितसूचिकया विविधुर्युगं श्रवणयोः सुरेश्वराः ॥२१॥ मणिकुण्डलाङ्गदकिरीटकटकरशनादिभूषणैः । दिव्यकुसुमवसनैश्च सुरास्तमभूषयंत्रिभुवनकभूषणम् ॥२२॥ प्रविधाय ते समयमेकममरपतयः कृतोत्सवाः। चन्द्रसमरुचिरयं भगवानिति चन्द्रपूर्वममुमायन्प्रभुम् ॥२३॥ अथ भक्तितः प्रथमकल्पपतिरितरवासवान्वितः।
स्तोतुमिति विरचिताञ्जलिं तं सहजत्रिबोधसहितं प्रचक्रमे ।।२४।। अभिषेचनम् अभिषवणम् । चक्रुः विदधुः । लिट् । जातिः ॥२०॥ भभीति । सुरेश्वराः देवेन्द्राः। ललितमृत्यमधुररवगीतवादितः ललितेन मनोहरेण नृत्येन मधुररवयुतेन मधुरध्वनियुक्तेन गीतेन वादितैर्नादितः । तं जिनम् । अभिषिच्य अभिषवणं कृत्वा । वज्रमयनिशितसूचिकया वज्रमय्या निशितया क्रूराग्रया। सूचिकया सूच्या । श्रवणयोः कर्णयोः । युगं द्वन्द्वम् । विविधुः छिद्रं चक्रुः । विध विधाने लिट् ॥२१॥ मणीति । सुराः देवाः । मणिकुण्डलाङ्गदकिरीटकटकरशनादिभूषणः कुण्डले कर्णवेष्टने च, अङ्गदे केयूरे च, किरीटं मकुटं च, कटके कङ्कणे च, रशना मेखला च तथोक्ताः, ता आदिः येषां तानि तथोक्तानि, तानि च तानि भूषणानि च तथोक्तानि, मणिभी रत्ननिर्मितानि कुण्डलाङ्गदकिरीटरशनादिभूषणानि तैः । दिव्यकुसुमवसनैश्च दिव्यैः स्वर्गजैः कुसुममयः पुष्पलिखितैर्वसनैर्दुकूलवस्त्रः। त्रिभुवनकभूषणं त्रिभुवनस्य त्रिजगत एक मुख्यं भूषणमलंकारम् । तं जिनेशम् । अभूषयन् बलंकुर्वन्ति स्म । भूष अलंकारे लङ् ॥२२॥ प्रविधायेति । कृतोत्सवाः विहितसंभ्रमयुक्ताः । ते अमरपतयः देवेन्द्राः । भगवान् स्वामी। अयम् एषः । चन्द्रसमरुचिः चन्द्रस्य सोमस्य समा समाना रुचिः कान्तिर्यस्य सः, विधुनिभद्युतियुत इत्यर्थः । इति उक्त्वा। एकं मुख्यम् । समयं संकेतं, संज्ञाम् इति भावः । प्रविधाय कृत्वा। अमुम् एनम् । प्रभुं जिनेशम् । चन्द्रपूर्व चन्द्रशब्दपूर्वयुतम् । प्रभु चन्द्रप्रभम् इत्यर्थः । आह्वयन् आकारयन्ति स्म। हृञ् स्पर्धायां वाचि लङ् ॥२३॥ अथेति । अथ नामकरणानन्तरम् । इतरवासवान्वित: इतरैः शेषैर्वा सवैरिन्द्ररन्वित: सहितः। प्रथमकल्पपतिः प्रथमकल्पस्य सौधर्मकल्पस्य पतिः प्रभुः, सौधर्मेन्द्र इत्यर्थः । सहजत्रिबोधसहितं सहजैनिसर्गजै: त्रिबोधैर्मतिश्रुतावधिरूपः सहितः तम् । तं जिनम् । भक्तितः स्वसामर्थ्यात् । स्तोतुं स्तवनाय। विरचिताञ्जलि विरचितोऽञ्जलि
भगवान्का अभिषेक किया ॥२०॥ सुन्दर नृत्य, मधुर गान और बाजोंको आवाजके साथ उनका अभिषेक करके इन्द्रोंने वज्रको पैनी सुईसे उनके दोनों कानोंका छेदन किया ॥२१॥ तीनों लोकोंके एकमात्र भूषण स्वरूप भगवान् चन्द्रप्रभको देवोंने मणिमय कुण्डल, बाजूबन्द, मुकुट, कड़े, करधनी आदि आभूषणोंसे और दिव्य पुष्पों एवं वस्त्रोंसे विभूषित किया ॥२२॥ इस प्रकार उत्सव करके इन्द्रोंने, ये भगवान् चन्द्रमाके समान कान्तिसे युक्त हैं, इस आशयको प्रकट करनेवाला संकेत करके उन्हें 'चन्द्रप्रभ' नामसे पुकारा-उनका नाम 'चन्द्रप्रभ' रखा ॥२३॥ इसके उपरान्त अन्य इन्द्रोंके साथ सौधर्म स्वर्गके इन्द्रने हाथ जोड़कर अपनी सामर्थ्य के अनुसार, जन्मसे ही तीन ज्ञानोंके धारी भगवान् चन्द्रप्रभकी स्तुति इस प्रकारसे प्रारम्भ की-॥२४॥
: १. आ इ °वादिः । २. अ क ख ग घ ताञ्जलिः । ३. = आदौ । ४. श अलंकरणे । ५. =
कृतो विहित उत्सव उद्यावो यैस्ते । ६. आ र्वयुक्तम् । ७. आ शक्तितः । = ( भक्तितः-गुणानुरागतः )। Jain Education International For Private & Personal Use Only
www.jainelibrary.org