________________
४०९
- १७, २०]
सप्तदशः सर्गः सुरपेटकैः पटु नटद्भिरतिललितगीतवादितैः'। नृत्तमयमिव तदा सकलं सदिगन्तरं समभवन्नभस्तलम् ।।१४ भुवनातिशायिजिनरूपविनिहितविलोचनोत्पलैः । लचितमपि बुबुधे विवुधैर्न सुराद्रिवर्त्म तदुपात्तविस्मयः ॥१८॥ अथ ते परीत्य सुरशैलमुरुरुचिरचैत्यमन्दिरम् । पाण्डकदृषदि सुरप्रमुखा हरिविष्टर सुखमतिष्ठपञ्जिनम् ॥१६॥ सुरपङ्क्तिमाशु विरचय्य कृतविततिमापयोम्बधेः। चक्ररमलतरदुग्धघटेरभिषेचनं त्रिदशलोकनायकाः ॥२०॥
समन्तात् । नेदुः ध्वनन्ति स्म । णद अव्यक्ते दाब्दे लिट ॥१६॥ सुरेति । अतिललितगीतवादितः अतिललितमतिमनोहरं गोतस्य ( गीतं गानं ) वादितं वादनं ( च ) येषां तैः। पटु नद्भिः पटु स्फुटं नद्भिनृत्यद्भिः । सुरपेटक: सुराणां पेटकनिकरः। तदा गमनसमये । सदिगन्तरं दिगन्तरेण दिग्विवरेण सहितम् । नभस्तलं आकाशप्रदेशम् (शः)। नृत्यमयमिव नृत्यस्वरूपमिव । समभवत् समभूत् । लङ् । उपमा ॥१७॥ भुवनेति । भुवनातिशायिजिनरूप विनिहितविलोचनोत्पलैः भुवनस्यातिशायिनि उत्कृष्टे जिनस्य जिनेशस्य रूपे विनिहितानि निक्षिप्तानि लोचनानि नयनानि तान्येवोत्पलानि कुवलयानि येषां तैः। तदुपात्तविस्मयः तस्मिन जिने उपात्तः कृतो विस्मयोऽद्भतं येषां तैः। सुराद्रिवर्त्म महामेरुमार्गः। लङ्घितमपि विलङ्घितमपि । विबुधः सुरैः । न बुबुधे न जज्ञे । बुधि मनि ज्ञाने लिट् । रूपकम् ।।१८। भयेति । अथ महामेरुमार्गगमनानन्तरम् । उरुरुचिरचैत्यमन्दिरम् उरूणि महान्ति रुचिराणि मनोहराणि चैत्यमन्दिराणि चैत्यालया यस्मिन् तम् । सुरशैलं मेरुपर्वतम् । सुरप्रमुखाः सुराः कल्पवासिनः प्रमुखा आदयो येषां ते । ते सुरपादयो देवाः । परीत्य प्रदक्षिणीकृत्य । पाण्डकदषदि पाण्डकशिलायाम । हरिविष्टरे सिंहासने । जिनं जिनेशम । सुखं संतोषं यथा तथा । 'सुखमा.... इति वैजयन्ती । अतिष्ठपन अयन्ति स्म लुङ् ॥१९॥ सुरेति । त्रिदशलोकनायकाः त्रिदशानां देवानां लोकस्य स्वर्गस्य नायका इन्द्राः। आ पयोम्बुधेः क्षीर समुद्रपर्यन्तम् । कृतविततिं कृता विहिता विततिविस्तृतिर्यया ताम् । सुरपति सुराणां देवानां पङ्क्ति श्रेणिम् । आशु शीघ्रम् । विरचय्य निर्माय । अमलतरदुग्धघटः अष्टयोजनोदरव्यासैरेकयोजनमुखव्यासः काञ्चनरजतगारुत्मतादिरत्ननिर्मितैनिर्मलर्दुग्धेन क्षीरेण पूर्णर्घटः ।
बजने लगीं ॥१६॥ सभी देव लोग अत्यन्त सुन्दर ढंगसे गाना गा रहे थे, बाजे बजा रहे थे और कलापूर्ण नृत्य कर रहे थे, जिससे सारी दिशाएं और पूरा आकाश उस समय नृत्यमय दष्टिगोचर हो रहे थे ॥१७॥ जिनेन्द्र भगवान् का रूप लोकातिशायी था। सभी देवोंके नेत्र उसे देखने में लगे हुए थे और वे उसके बारेमें आश्चर्यका अनुभव कर रहे थे । फलतः सुमेरु पर्वतका मार्ग, जिसे वे लाँघ चुके थे, उन्हें ज्ञात ही नहीं हुआ कि कब निकल गया ॥१८॥ इसके पश्चात् उन सभी देवोंने-जिनमें इन्द्र प्रमुख थे-बड़े-बड़े सुन्दर जिनमन्दिरोंसे विभूषित सुमेरु पर्वतको परिक्रमा की, फिर उन्होंने पाण्डुक शिलापर रखे गये सिंहासनपर जिनभगवान्को सुख पूर्वक बैठा दिया ॥१९॥ फिर इन्द्रोंने सुमेरु पर्वतसे लेकर क्षीरसागर तक देवोंकी खूब लम्बी पंक्ति खड़ी करके ( उनसे मगाये गये ) अत्यन्त निर्मल दूधसे भरे हुए कलशोंसे जिन
१. अ सुरपेटकैः पटुभिरतिगीतललितवादितः । २. क ख ग घ म तिष्ठयज्जिनम् । ३. = उत्प्रेक्षा । ४. = आश्चार्य यैः । ५. आ 'महा' इति नास्ति । ६. आ वैजयन्त्याम् । ७. = स्थापयामासुः । ८. श श्रेणीम् ।
Jain Education Internatinal
For Private & Personal Use Only
www.jainelibrary.org