________________
४०८ चन्द्रप्रमचरितम्
[ १७, १६सुरहिते जयजयेति भुवनमभिसर्पति ध्वनौ । हस्तधृतवपुषमात्मगजं तमरोपयत्प्रथमकल्पनायकः ।।१३।। इतरे च तं परमभक्तिभरनतकिरीटकोटयः । भेजुरमरपतयोऽन्तगता विभृतातपत्रकलशाब्दचामराः ॥१४।। सुरयोषितो विविधधूपबलिकुसुमरुद्धपाणयः। मङ्गलमुखरमुखाम्बुरुहाः करिणीगताः समुपतस्थिरेऽग्रतः ॥१५॥ चलितेऽभिमेरु सुरनानिवहपरिवारिते जने।
नेदुरथ विबुधहस्तहताः परितः प्रयाणपरिशंसिभेरिकाः ॥१६॥ अगात् अयात् । इण् गतो लुङ् । उपमा ॥१२।. सुरेति । सुरबृंहिते सुरैर्देवै बृंहिते प्रबधिते । जय जयेति चनो शब्दे । भुवनं जगत् । अभिसर्पति व्याप्नुवति । प्रथमकल्पनायकः प्रथमस्य कल्पस्य सौधर्मकल्पस्य । नायकः प्रभुः । हस्तधृतवपुष हस्तेन पाणिना धृतं भृतं वपुः शरीरं यस्य तम् । तं जिनशिशुम् । आत्मगजम् आत्मनः स्वस्य गजमैरावतम् । परोपयत् अवाहयत् । रुह बीजजन्मनि णिजन्ताल्लङ् 'रुहः पः' इति पकारादेशः ॥१३॥ इतरे इति। परमभक्तिभरनकिरीटकोटयः परमाया महत्या भक्त्या भरेण भारेण नता:किरीटानां कोटयः समूहा येषां ते । मन्तगताः अन्तं समोपं गताः । इतरे च शेषाश्च । अमरपतयः अमराणां देवानां पतय इन्द्राः । विधृतापत्रकलशान्दचामराः विधृतानि भृतानि आतपवारणभृङ्गारदर्पणचामराणि यस्ते । तं जिनबालक म् । भेजुः सेवन्तेस्म । मजिवायां लिट् ॥१४॥ सुरेति । विविधधूपबलिकुसुमरुद्धपाणयः विविधैर्नानाप्रकारेणूंपेन कालागरुधूपेन बलिना पूजाद्रव्येण कुसुमेन पुष्पेष च रुद्धा युक्ताः पाणयो हस्ता यासां ताः । मङ्गलमुखर मुखाम्बुरुहाः मङ्गलेन मङ्गलगानेन मुखरं वाचालं मुखमेव वदनमेवाम्बुरुहं कमलं यासां ताः। करिणीगताः करिणी: करेणूः गता आरूढाः । सुरयोषितः सुराणां योषितो वनिताः । अग्रतः पुरस्तात् । समुपतस्थिरे समुपययुः । ष्ठा गतिनिवृत्ती लिट् । रूपकम् ॥१५।। चलित इति । सुरनापनिवहपरिवारिते सुरनाथानां देवेन्द्राणां निवहेन निकायेन परिवारिते परिवृते । जिने जिनेशे। अभिमेरु मेरोरभिमुखम् । 'लक्षणेनाभिप्रत्याभिमुख्ये' इति अव्ययीभावः । चलिते याते सति । अथ अनन्तरम् । विबुधहस्तहताः विबुधानां देवानां हस्तैः पणिभिः हता: ताडिताः । प्रयाणपरिशंसिभेरिकाः प्रयाणं यात्रां परिशंसिन्यः सूचिका भेरिका दुन्दुभयः । परितः
एक हजार नेत्र, कमलोंके वनकी भाँति विकसित हो उठे ।।१२।। जिन बालकको देखते ही सभी देवोंके मुखसे जय जयकारको ध्वनि निकालने लगो और वह खूब ही बढ़ो एवं सारे संसारमें फैलने लगी। इसी ध्वनिके बीच में सौधर्म स्वर्गके इन्द्रने जिन-बालकको अपने हाथों में लेकर अपने हाथीपर चढ़ा लिया ॥१३॥ और अन्य इन्द्र भी जो समीपमें ही खड़े हुए थे, और प्रगाढ़ भक्तिके भारसे जिनके मुकुटोंके शिखर झुके हुए थे, तथा जिनके हाथोंमें छत्र, कलश, दर्पण और चामर थे, जिन बालकको सेवा कर रहे थे ।।१४॥ देवियाँ हथिनियोंपर सवार होकर और अपने-अपने हाथों में अनेक प्रकारकी धूप, पूजा सामग्री तथा फूल लेकर मंगलगान करती हुई आगे-आगे चल रही थीं ॥१५॥ भगवान् चन्द्रप्रभ-जो अभी शिशु अवस्थामें थे-सभी ओरसे देवेन्द्रोंसे घिरे हुए थे-उनके चारों ओर देवेन्द्र खड़े हुए थे। ज्योंही उन्होंने सुमेरुकी ओर प्रस्थान किया त्यों ही जिधर देखो उधर देवोंके हाथों में स्थित प्रस्थान सूचक भेरियाँ
१. अ तेरिकाः। २. आ लन् । ३. श 'शब्दे' इति नास्ति । ४. श 'हस्तधृत वपुष” इति नोप. लभ्यते । ५. = विधृतानि भृतानि । ६. आ भज । ७. २ 'करेणूः' इति नास्ति । ८. = परिशंसन्तीति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,