________________
-१७, २]
सप्तदशः सर्गः 'सुरपङ्किरानृपतिगेहमरुचदमरालयात्तता। अन्तरमकलयता धुभुवोरिव मानरज्जुरुदतारि वेधसा ।।। स चतुर्विधोऽपि नृपसद्म विविधमणिरत्नभासुरः। प्राप भृतसकलभूमितलो जलराशिवत्सुरगणः सवासवः ॥१०॥ श्रथ मायया जनितमात्रतदनुकृतिरूपमर्भकम् । मातुरुरसि विनिवेश्य शची जिनमुज्जहार गुरुभक्तिभाविता ॥११॥ तमुदीक्ष्य भासुरमशीतरुचिमिव शचीसमाहृतम् ।। पद्मवनमिव विकासमगाधुगपत्सहस्रमपि चतुषां हरेः ॥१२॥
अभवत् अभूत् । लङ् । उत्प्रेक्षा ॥८॥ सुरपङ्क्तिरिति । अमरालयात् स्वर्गावासात् । आनृपतिगेहं महासेनभूपतिगृहपर्यन्तम् । तता विस्तृता । सुरपंक्तिः सुराणां देवानां पङ्क्ती राजिः । शुभुवोः द्यावाभूम्योः। अन्तरं मध्यम् । अकलयता निश्चयमकुर्वता। वेधसा ब्रह्मणा । मानरज्जुः मानस्य प्रमाणस्य रज्जुः सूत्रम् । उदतारि इव विरचयामास इव । त प्लवनतरणयोर्लङ् । अरुचत् । रुचि अभिप्रीत्यां लुङ् । 'युद्भयो लङ्: ' इति तङ् । उत्प्रेक्षा ॥९॥ स इति । विविधमणिरत्नभासुरः विविधैर्नानाप्रकारैर्मणिभिरुत्तम रत्न सुरः प्रकाशमानः । 'भञ्जभास'-इत्यादिना घुरः । भृतसकलभूमितल: भृतं धृतं सकलं सर्व भूभितलं येन सः। सवासवः वासवेन देवेन्द्रेण, पक्षे वासवेन विष्णुना सहितः । चतुर्विघोऽपि चतस्रो विधाः प्रकारो यस्य सः । सः सुरगणः सुराणां देवानां गणो निकरः । जलराशिवत् समुद्र इव । नृपसद्म नृपस्य राज्ञः सद्म सदनम् । प्राप ययौ । आप्लु व्याप्ती लिट् । श्लेषोपमा ॥१०॥ अथेति । अथ देवगमनानन्तरम् । गुरुभक्तिभाविता गुा महत्या भक्त्या गुणानु
रागेण भाविता परिणता । शची इन्द्राणी । मायया । जनितं जातम् । आत्ततदनुकृतिरूपम् आत्तं स्वीकृतं तस्य जिनबालकस्यानुकृतं [ रूपं ] समानं यस्य तम् । अर्भकं मायाशिशुम् । मातुः जिनाम्बिकायाः उरसि वक्षसि । विनिवेश्य संस्थाप्य । जिनं जिनबालकम। उज्जहार स्वीकरोति स्म। हब हरणे लि तमिति । शचीसमाहृतं शच्या शचीमहादेव्या समाहृतमानीतम । अशोतरुचिमिव सर्यमिव भासूरं देदीप्यमानम् । तं जिनबालकम् । उदोक्ष्य विलोक्य हरिः देवेन्द्रः ( हरेः देवेन्द्रस्य )। चक्षुषां नयनानाम् । सहस्रमपि दशशतप्रमितमपि । पावनमिव पद्मानां कमलानां वनमिव षण्डमिव । युगपत् सकृत् । विकास विकसनम् ।
सूर्य, देवोंके विमान समूहकी ओटमें छिप गया ॥८॥ स्वर्गसे राजा महासेनके घर तक लगातार फैली हुई देवोंकी पंक्ति ऐसी मालूम पड़ रही थी मानो ब्रह्मदेवने-जिसे स्वर्गसे पृथ्वी तकका फासला अज्ञात था-माप करनेके लिए रस्सी डाल दो हो ॥९॥ अनेक प्रकारके मणियों और रत्नोंसे देदीप्यमान चारों प्रकारके देवोंका वृन्द-जिसके साथ इन्द्र भी थे-राजमहल में जा पहुंचा। उसने वहाँको सारी भूमिको व्याप्त कर दिया, अतः वह रत्नाकरकी जलराशिके समान दृष्टि गोचर हो रहा था ॥१०॥ इसके उपरान्त अत्यधिक भक्ति भावसे युक्त इन्द्राणीने प्रसूति गृहमें प्रवेश किया। वह वहाँपर मायासे उत्पन्न किये हुए एक बच्चेको-जो आकार प्रकारमें जिनभगवान्के समान था-माँ की गोदमें रखकर जिनभगवान्को उठा लाई ॥११॥ इन्द्राणोके द्वारा लाये गये सूर्यके समान प्रतीत होनेवाले उस तेजस्वी बालकको देखकर इन्द्रके
१. क ख ग स्वर । २. म यातता । ३. श पतिगेह। ४. आ श तिप् । ५ = पूरितं व्याप्तं वा । ६. आ सूर्यचन्द्रमिव, श चन्द्रमिव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org