________________
चन्द्रप्रभचरितम्
५. पञ्चमः सर्गः १ धातकोखण्डद्वीपस्य दक्षिणदिग्वतिन इषुकारगिरेवर्णनम् । २-११ तत्पूर्वभरतवर्तिनोऽलकाभिधस्य देशस्य वर्णनम् । १२-२२ तत्र कोशलाख्यनगरीवर्णनम् । २३-३५ तदधिपते राज्ञोऽजितंजयस्य वर्णनम् । ३६-३९ तन्महिष्या अजितसेनाया वर्णनम् । ४० स श्रीधराभिधो देवस्तयोरजितसेनसंज्ञः सुतः समजनीति वर्णनम । ४१-४५ अजितसेनस्य कलानां यशसो रूपसंपदो विनयस्य तत्पितः प्रसन्नतायाश्च वर्णनम् । ४६-४८ अजितसेनविषये तत्पितुर्विचारः । ४९ अजितसेनाय तत्पिता यौवराज्यपदवी प्रायच्छदिति वर्णनम् । ५०-५१ यौवराज्यपदवीप्राप्त्यनन्तरमजितसेनं प्रति राज्ञां प्रजाजनानां च विनयव्यवहारवर्णनम् । ५२ उपहारप्रदानार्थ समुपागतः सामन्तैः सह राज्ञो युवराजस्य च सभाभवनेऽवस्थानम् । ५३ चण्डरुचिनामासुर: सभाभवनतो युवराजमपजहारेति वर्णनम् । ५४-७१ युवराजविकलां सकलां सभामवलोक्येलाधिपतेविलापो मूर्छावस्था च । ७२ अपनीतमूछों राजा तपोभूषणनामानं मुनि ददर्श । ७३ मुनिमीक्षमाणा सभा विस्मयमाजगाम । ७४ मुनिसमागनवर्णनम् । ७५ तदर्शनाद्राज्ञः शोकोपशमः । ७६-८० मुनिराजस्य सत्कृतिमर्चनां च विधाय राज्ञोऽभूतपूर्वः तोष आशीर्वादावाप्तिश्च । ८१-८३ मुनिश्लाघा । ८४-८९ 'कतिपयैरहोभिस्त्वं समायातं स्वसुतं द्रक्ष्यसि' इति राजानं प्रति मुनेराश्वासनम् । ९०-९१ मुनीन्द्रे गतवति सति तद्वचनविश्वासाद्राज्ञः सुखावस्थितिः ।
६. षष्ठः सर्गः १ तेनासुरेण परिभ्रमय्य नभस्तो मुक्तस्य युवराजस्य मनोरमाख्ये सरसि निपतनम् । २ तन्निपतनाज्जातायाः सरसोऽवस्थाया वर्णनम् । ३ तत उत्तरणवर्णनम्। ४-११ परुषाभिधाटवीवर्णनं ततो युवराजस्य प्रस्थानं च । १२ पर्वतवर्णनम् । १३ वनसीमान्तबुभुत्सया तदुपरि युवराजावरोहणम् । १४-२६ तत्र सहसा समायातेन केनचित्करालवक्त्रेण पुरुषेण सह युवराजस्य बाक्कलहो नियुद्धं युद्धं विजयावाप्तिश्चेति वर्णनम्। २७.३७ युवराजेन पराजितः स पुरुषो दिव्यरूपमास्थाय 'अहं हिरण्यनामा देवस्तव मित्रमस्मि चण्डरुचिश्च शत्रर्यो भवन्तं सभाभवनतो जहार नभस्तः पातयामास च' इति जगादेति वर्णनम् । युवराजो हिरण्यप्रभावेणात्मानं वनसीम्नि व्यलोकयदिति वर्णनम् । ततो युवराजस्य राष्ट्रप्रवेशस्तत्र च पलायमानाञ जनान निरीक्ष्य तत्कारणजिज्ञासेति वर्णनम् । ३८-४८ ततो 'अरिंजयाख्ये देशे विपुलाभिधपुरे राज्ञो जयवर्मणः शशिप्रभानामधेयां कन्यामपहर्तुं महेन्द्राह्वो भूपतिरायातो युद्धे जयवर्मबलं च निहत्य पुरमावृत्य वितिष्ठते । तद्भयाज्जनाः पलायन्ते' इति ज्ञात्वा युवराजस्य विपुलपुरं प्रति प्रस्थानमिति वर्णनम् । ४९-५६ तत्र महेन्द्रं निहत्य जयवर्मणा सह युवराजस्य तत्पुरप्रवेशः । ५७ पुरनारीणाममन्दानन्दानुभूतिः । ५८ जयवर्मणा युवराजस्य वपुषा पौरुषेण च तज्जातिकुलोन्नतेरनुमानम् । ५९ कृतसत्कृतियुवराजो जयवर्मणो धरित्री वश्यां चकारेति वर्णनम् । ६०-६९ युवराजे शशिप्रभाया अनुरागवर्णनम् । ७० तदाकर्ण्य जयवर्मणः प्रसन्नता । ७१ निमित्तिनमापृच्छय जयवर्मणो विवाहनिश्चयः । ७२ ततो युवराजस्य औत्सुक्यम् । ७३.७४ विजयागिरेवर्णनम् । ७५ तद्दक्षिणतो रम्यस्यादित्याख्यस्य पुरस्य वर्णनम् । ७६ तदधिपतेः खेचरेन्द्रस्य धरणीध्वजस्य वर्णनम् । ७७ स प्रियधर्मनामधेयं क्षुल्लक ददर्शति वणनम । ७८ तत्सत्कृतेर्वर्णनम । ७९-८७ तन्मखाच्छशिप्रभापरिणेतुः सकाशादात्मनो वधमश्रोसीदिति वर्णनम् । ८८ स खेचरेन्द्रो जयवर्मपुरं रुरोधेति वर्णनम् । ८९ जयवर्माणं प्रति खेचरेन्द्रेण दूतप्रेषणम् । ९०९४ दूताक्तिवर्णनम् । ९५-९७ दूतविसजनम् । ९८ जयवमसमीपेऽजित सेनस्य खेच
विसर्जनम् । ९८ जयवर्मसमीपेऽजितसेनस्य खेचरेन्द्रवधप्रतिज्ञावर्णनम् । ९९ अजितसेनो हृदि हिरण्यदेवं सस्मार, स च स्मृत एव दिव्यं रथं गृहीत्वा तत्पुरोऽभवदिति वर्णनम् । १००-१०६ अजितसेनधरणीध्वजयोयुद्धे धरणोध्वजस्य वधः । १०७ विजयानन्तरमजितसे नस्य विपुलपुरप्रवेशः । १०८ अजितसेनस्य शशिप्रभया सह विवाहः । १०९-११० वध्वा सह तस्य स्वपुरं प्रति प्रस्थानम् । १११ स्वपुरप्रवेशवर्णनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org