________________
विषयानुक्रमः
७. सप्तमः सर्गः १-१७ अजितसेनस्य चतुर्दशरत्नानां वर्णनम् । १८-२७ तस्य नवनिधीनां वर्णनम् । २८ तादृशीं श्रियं समवाप्यापि स नोदसिक्त-इति वर्णनम् । २९ निधिरत्नपूजनम् । ३०-३९ राज्याभिषेकमहोत्सवस्य वर्णनम् । ४० स्वयंप्रमामिधस्य जिनपतेरागमनवर्णनम् । ४१ तं वन्दितुमजितसेनाजितंजययोर्गमनवर्णनम् । ४२-४३ प्रणामानन्तरं स्वयंप्रभं प्रत्ति राज्ञोऽजितंजयस्य 'जन्तुः कर्मभिः कथं बध्यते कथं च मुच्यते' इति प्रश्नः । ४४-५३ तदुत्तरदानम् । ५४ तच्छ त्वाजितसेनस्य विरक्तवर्णनम् । ५५ ततो जिनदीक्षाग्रहणम् । ५६ जिनं प्रणम्य चक्रवर्तिनः स्वपुरप्रवेशवर्णनम् । ५७-६९ अजितसेनस्य दिग्विजयवर्णनम् । ७०-७९ तत्समृद्धिवर्णनम् । ८० स्वपुरप्रवेशवर्णनम् । ८१-९० पुरस्त्रीचेष्टावर्णनम् । ९१-९२ राजभवनप्रवेशवर्णनम् । ९३ कृतचरणनमस्क्रियाणां नृपाणां विद्याधराणां च विसर्जनम् । ९४ राज्योपभोगवर्णनम् ।
८. अष्टमः सर्गः
१-५० वसन्तवर्णनम । ५१-६० शशिप्रभाख्याया महिष्याः पुरुतो राजमखेन पुरोपवनशोभाया वर्णनम् । ६१ राज्ञोऽजितसे नस्य वनविहरणयात्राघोषणा । ६२ प्रस्थानशंसी ध्वनिोम व्याप–इति वर्णनम् ।
९. नवमः सर्गः १ वनश्रियं वीक्षितुं चक्रिणोऽजितसेनस्य प्रस्थानम् । २ तामेव श्रियं विक्षितुं रमणीनां प्रस्थानम् । ३-१७ उपवनयात्रावर्णनम् । १८ उपवनप्रवेशवर्णनम् । १९-२६ उपवनविहारस्य पुष्पावचायस्य च वर्णनम् । २७-५७ जलकेलिवर्णनम् । ५८ वस्त्रपरिवर्तनम् । ५९ रवौ पश्चिमाचलस्य प्रस्थं समनुसरति सति चक्री परिजनैः सहान्नपानादिकृत्यं चक्रे-इति वर्णनम् ।
१०. दशमः सर्गः १ सूर्यस्यास्ताचलसंश्रयः । २ सूर्यस्यारुण्यम् । ३-६ सायंकालवर्णनम् । ७-१६ अन्धकारवर्णनन् । १७-४० चन्द्रोदयवर्णनम् । ४१-७४ रात्रिक्रीडाया ( सुरतस्य ) वर्णनम् । ७५-७६ वैतालिकमुखेन निशावसानवर्णनम् । ७७-७९ राज्ञः प्रबोधः शय्यात्यागः शयनागारतो निर्गमनं च।
११. एकादशः सर्गः १-२ राज्ञोऽजितसेनस्य सभाभवनप्रवेशवर्णनम् । ३-६ राज्ञो गजक्रीडावलोकनवर्णनम् । ७-९ गजेन निहतं कंचनमानवमवलोक्य राज्ञो वैराग्यम् । १०-३० विषयगहणम् । ३१-३३ तदैव वनपालमुखाद् गुणप्रभाभिधस्य मुनीन्द्रस्यागमनश्रवणं सपरिकरस्य राज्ञो तदर्शनार्थं गमनवर्णनं च । ३४-३८ आश्रमावलोकनं नानामुनीनां दर्शनं च । ३९.४९ राजमुखेन मुनीन्द्रस्तुतिः । ५०-६६ मुनीन्द्रनरेन्द्रयोः परिचर्चावर्णनम् । ६७ जितशत्रुसंज्ञकाय पुत्राय राज्यं वितीर्य राज्ञो जिनदीक्षाग्रहणम् । ६८-७२ तत्तपश्चरणवर्णनम् । ७३ राज्ञोऽच्युतेन्द्रपदावाप्तिः । ७४ ततश्च्युत्वात्र रत्नसंचयपुरे सुवर्णमाला कनकप्रभयोः पुत्रः पद्मनाभो जातोऽसिइति प्रतिपादनम् । ७५-७६ स्वजन्मान्तराणि समाकर्ण्य तत्र संदिहानः पद्मनाभस्तत्प्रत्ययार्थं श्रीधरमुनि पुनः पप्रच्छेति वर्णनम् । ७७-७८ इतो 'दशमेऽहनि तव नगरे यूथं परित्यज्य कश्चिदेको मदान्धगज आगमिष्यति तत्प्रत्ययात् त्वमखिलं मदुक्तं वचनं निश्चेष्यसि' इति राजानं प्रति मुनरुक्तिवर्णनम् । ७९ पद्मनाभस्य निजपुरं प्रति प्रत्यावर्तनम् । ८० तत्पुरे महान् कलकलः । ८१ तत्परिज्ञानाय भृत्यप्रेषणम् । ८२-८४ ततो गजप्रवेशस्य तत्कृतायाः संहारलीलायाश्च वृत्तं परिज्ञाय राजा विषादं भेजे मुनिवचनस्य प्रामाण्यं च निश्चित्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org