SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ४०४ चन्द्रप्रमचरितम् श्रीह्रीधृत्यादिभिः स्वान्वपुषि वरगुणान्कान्तिलजादिरूपान्देवी भिस्तन्वतीभिः सततमनुपमप्रीतिभिः सेव्यमाना। पश्यन्ती रत्नवृष्टिं स्वयमुदयवतीं प्रत्यहं स्वर्गिमुक्तां मासान्गर्भप्रभावान्नव नलिनमुखो सा सुखेनैव निन्ये ॥७॥ इति श्रीवीरनन्दिकृतावुदयाङ्क चन्द्रप्रमचिरते महाकाव्ये षोडशः सर्गः ॥१६॥ जिनस्य जिनेशस्य जनन्या मातुः पादयोश्चरणयोः पूजा यैस्ते । स्वं स्वकोयम्। निवासं स्वर्गावासम्। प्रजग्मुः प्रययुः। गम्ल गतौ लिट् ।।६९॥ श्रीति । कान्तिलज्जादिरूपान् कान्तिलज्जे आदी येषां तानि तथोक्तानि कान्तिलज्जादीन्येव रूपाणि स्वरूपाणि येषां ते२ । स्वान् स्वकीयान् । वरगुणान् प्रकृष्टगुणान् । वपुषि शरीरे । तन्वतीभिः कुर्वतीभिः । अनुपमप्रीतिभिः अनुपमा सादृश्यरहिता प्रीतिः प्रेम यासां ताभिः । श्रीह्रीधृत्यादिभिः श्रीह्रोधृतय आदयो' यासां ताभिः । देवीभिः देवस्त्रीभिः। सततम् अनवरतम् । सेव्यमाना आराध्यमाना । उदयवती संपत्तियुक्ताम् । प्रत्यहं प्रतिदिनम् । स्वर्गिमुक्तां स्वगिभिर्देवैर्मुक्तां वृष्टाम् । रत्नवृष्टि रत्नानां मणीनां वृष्टि वर्षणम् । स्वयं, पश्यन्ती वीक्षमाणा । नलिनमुखी नलिनमिव कमलमिव मुखं वदनं यस्याः सा । सा लक्ष्मणा देवी । गर्भप्रभावात् गर्भस्य जिनबालकस्य प्रभावात् सामर्थ्यात् । 'कुक्षिभ्रणामका गर्भाः' इत्यमरः । नव नवसंख्याकान् । मासान् सुखेनैव । निन्ये नयति स्म । णी प्रापणे लिट् ॥४०॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रमचरिते महाकाव्ये तद्वद्याख्याने च . विद्वन्मनोवल्लमाख्ये षोडशः सर्गः ॥१६॥ सुन्दरताके साथ नृत्य किया, फिर लक्ष्मणाके चरणोंकी अर्चना करके वे अपने निवास स्थानको चले गये ॥६६॥ कान्ति और लज्जा आदि श्रेष्ठ गुणोंको-जो उनकी प्रशस्त आकृतिपर छाये हुए थे-विकसित करनेवाली तथा अनुपम प्रीति करनेवाली श्री, ह्री और धृति आदि देवियाँ लक्ष्मणाकी निरन्तर सेवा करने लगीं। उस अभ्युदयशालिनी कमलमुखी लक्ष्मणाने देवोंके द्वारा प्रतिदिन की जानेवाली रत्न-वृष्टिको-जो गर्भके प्रभावके से नौ मास तक हुई थी-देखते हुए सुख-पूर्वक समय बिताया ॥७॥ इस प्रकार महाकवि वीरनन्दि विरचित उदयाङ्क चन्द्रप्रमचरित महाकाव्यमें सोलहवाँ सग समाप्त हुआ ॥१६॥ १. = आदी। २. = तान् । ३. श 'कुर्वतोभिः' इति नास्ति । = कुर्वतं भि:-कुर्वन्तीभिः । ४. = आदौ । ५. श 'सा' इति नास्ति । ६.श निन्ये' इति नास्ति । ७.श 'लिट्' इति नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy