________________
सप्तदशः सर्गः
[ १७. सप्तदशः सर्गः ] अथ सा प्रसूतिसमयेन जिनमिव दिदृशुणेरिता । पौषमलिनदशमीक्षयजां तिथिमाप्य सुन्दरमजीजनत्सुतम् ॥१॥ ककुभः प्रसेदुरजनिष्ट निखिलममलं नभस्तलम् । तस्य जननसमये' पवनः सुरभिर्ववौ सुरभयन्दिगङ्गनाः ॥२॥ वियतः पतद्भिरतिहृष्टहृदयसुरवृन्दवधितैः।। दिव्यकुसुमनिकरैररुचत्क्षितिमण्डलं भ्रमरबद्धमण्डलैः॥३॥ मणिघण्टिकाः सदसि रेणुरकरहति कल्पवासिनाम् । ज्योतिरमरसदने सहसा प्रजगर्जुर्जितरवं गजारयः॥४॥
काशीपुराधिपमहीपतिविश्वसेनप्रीतात्मजो मरकतद्यतिभासुराङ्गः ।
ध्यानात् पुनर्न च चचाल महोपसर्गे श्रीपार्श्वनाथजिनपो जगदेकनाथः ॥१॥ अथेति । अथ गर्भावतरणानन्तरम् । जिनं जिनेश्वरम् । दिदृक्षुणेव द्रष्टुमिच्छुनेव । प्रसूतिसमयेन प्रसूते: प्रसवस्य समयेन कालेन । ईरिता प्रेरिता। सा लक्ष्मणा देवी । पौषमलिनदशमीक्षयजां पौषस्य पोषमासस्य मलिनस्य कृष्णपक्षस्य दशम्या दशमी तिथेः क्षयजां क्षयेन जातामेकादशीमित्यर्थः । तिथि दिनम् । आप्य लब्ध्वा । सुन्दरं मनोहरम् । सुतं तनयम् । अजीजनत् जनयति स्म । जनैङ् प्रादुर्भावे लङ । उदगतावृत्तम ॥१॥ ककूभ इति । तस्य जिनबालकस्य। जननसमये जन्मनः स ककुभः दिशः । प्रसेदुः निर्मला बभूवुः । निखिलं सकलम् । नभस्तलं गगनतलम् । अमलं विमलम् । अजनिष्ट जायते स्म । लुङ् । दिगङ्गनाः दिश एव अङ्गना वनिताः। सुरभयन् परिमलयन् । सुरभिः परिमलयुतः । पवन: वायुः । ववौ वाति स्म । वा गतिगन्धनयोः । लिट् । अतिशयः ॥२॥ वियत इति । अतिहृष्टहृदयसुरवृन्दवधित: अतिहृष्टेनात्यन्तं संतुष्टेन हृदयेन चित्तेन युतेन सुराणां देवानां वन्देन समूहेन बधितैरेधेतैः । वियतः अकाशात् । पतद्भिः वर्षद्भिः । भ्रमरवद्धमण्डल: भ्रमरैर्मधुकरबंदं रचितं मण्डलं वलयं येषां तैः। दिव्यकुसुमनिकुरैः दिव्यानां स्वर्गजातानां कुसुमानां निकरैर्वृन्दैः । क्षितिमण्डलं भूमण्डलम् । अरुचत् भाति स्म । रुचि दीप्तौ। 'दुद्भयो लुङः' इति तङ्। अतिशयः ॥३॥ मणीति । कल्पवासिनां कल्पवासिदेवानाम् । सदसि सभायाम् । मणिघण्टिकाः मणिभिनिर्मिता घण्टिकाः। अकरहति कराहति विना यथा तथा। रेणुः ध्वनन्ति स्म । रण शब्दे लिट। ज्योतिरमरसदने ज्योतिष्कदेवानां सदने निवासे । गजारयः गजानां करिणामरयः शत्रवः, सिंहा इत्यर्थः । ऊर्जितरवम् उच्चैःस्वरं यथा तथा । सहसा शीघ्रम् । प्रगर्जुः ध्वनन्ति स्म । गर्ज क्षिर्ज शब्दे
गर्भावतारके पश्चात् प्रसूतिका समय मानो अष्टम तीर्थङ्कर चन्द्रप्रभ जिनेन्द्र के दर्शनोंके लिए लालायित था, अतः उस (प्रसूति समय ) की प्रेरणासे महारानी लक्ष्मणाने पौषकृष्ण एकादशीके दिन सुन्दर पुत्रको जन्म दिया ॥१॥ पुत्रके जन्मके शुभ अवसरपर सभी दिशाएं स्वच्छ हो गयीं, सारा नभस्तल निर्मल हो गया और दिशारूपी अङ्गनाओंको सुवासित करता हुआ सुगन्धित पवन बहने लगा ॥२॥ देवोंका वृन्द हृदयसे प्रसन्न होकर दिव्य पुष्पोंकी वर्षा करने लगा। वे पुष्प अत्यन्त सुगन्धित थे, अतः ज्यों ही वे आकाशसे गिरने लगे त्यों ही उनपर भौंरोंके झुण्ड मड़राने लगे, उनके संयोगसे भूमण्डलकी जो शोभा उत्पन्न हुई, वह देखते ही बनती थी ॥३॥ कल्पवासी देवोंको सभामें मणिर-चित घण्टियाँ बिना हाथ लगाये ही बजने लगीं और ज्योतिषी देवोंके आवास स्थानोंमें एकाएक खूब जोर-जोरसे सिंह गर्जन करने
१. आ इ जन्मसमये । २. अजितरवं । ३. श 'सकलम्' इति नास्ति । ४. = येषु । ५. आ तिष्, शतिप् । ६. आ षिर्ज।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org