________________
- १६, ६९ ]
षोडशः सर्गः
फलं स्वप्नावल्याः सकलमिति निश्चित्य दयितादधाना रोमाञ्चं प्रकटमपरं कञ्चुकमिव । प्रमोदं सा भेजे कमपि वचनानामविषयं मुदे केषां न स्यादभिलषितसंप्राप्तिरथवा ॥६७॥ अथाहमिन्द्रः स ततोऽवतीर्य स्वायुः क्षयेऽनुत्तरवैजयन्तात् । कुक्षौ प्रशस्तेऽहनि लक्ष्मणाया विवेश शुक्ताविव वारिविन्दुः ||६८|| तस्मिन्गर्भावतारं कृतवति भुवनक्षोभसंपादिपुण्ये
सर्वाटोपेन गत्वा क्षितिपतिभवने सासुरेन्द्राः सुरेन्द्राः । कृत्वा कल्याणमुच्चैर्हतपटुपटहा वेणुवीणाभिरामं नृत्यन्तः स्वं निवासं कृतजिनजननीपादपूजाः प्रजग्मुः ||६||
लृट् || ६६ || फलमिति । स्वप्नावल्याः स्वप्नामावल्याः समूहस्य । सकलं समस्तम् । फलम् । दयितात् प्राणनायकात् । इति उक्तप्रकारेण । निश्चित्य निर्णीय । प्रकटं व्यक्तम् । अपरम् अन्यत् । कञ्चुकमिव कूर्पासमिव । रोमाञ्चं लोमहर्षणम् । दधाना घरन्ती । सा लक्ष्मणा देवी वचनानां वाचाम् | अविषयम् अगोचरम् । कमपि कंचित् । प्रमोदं संतोषम् । भेजे भजते स्म । भजि सेवायां लिट् । अथवा तथा हि । अभिलषित संप्राप्तिः अभिलषितस्य समीहितस्य संप्राप्ति लब्धिः । केषां जनानाम् । मुदे सतोषाय । न स्यात् न भवेत् । अस भुवि लिङ् । अर्थान्तरन्यासः || ६७ ॥ अथेति । अथ स्वप्नदर्शनान्तरम् । सः अहमिन्द्रः पद्मनाभवराहमिन्द्रः । स्वायुःक्षये स्वस्यायुषः जीवितस्य क्षये परिक्षोणे सति । अनुत्तरवैजयन्तात् । अवतीर्य आगत्य । प्रशस्ते शुभे । अहनि दिने । लक्ष्मणायाः लक्ष्मणादेव्याः । कुक्षी गर्भे । शुक्ती शुक्तिपुटे । वारिबिन्दुरिव स्वातिजलबिन्दुवत् । विवेश प्रविष्टः । विश प्रवेशने लिट् । उपमा || ६८|| तस्मिन्निति । भुवनक्षोभसंपादिपुण्ये भुवनेषु' त्रिलोकेषु क्षीभं संभ्रमं संपादि समुद्भावि पुण्यं शुभकर्म यस्य तस्मिन् । तस्मिन् अहमिन्द्रे । गर्भावतारं गर्भावतरणम् । कृतवति सति विहितवति सति । सासुरेन्द्राः असुरेन्द्रः सहिताः । सुरेन्द्राः देवेन्द्राः । सर्वाटोपेन संभ्रमेण । क्षितिपतिभवने क्षितिपतेर्महासेनस्य भवने सदने । गताः याताः । कल्याणं गर्भावतरणकल्याणम् । कृत्वा विधाय । उच्चैः अधिकम् । हतपटुपटहाः हताः ताडिताः पटवः स्पष्टाः पटहा दुन्दुभयो यैस्ते । वेणुवीणाभिरामं वेणुवीणाभ्यामभिरामं मनोहरं यथा भवति तथा । नृत्यन्तः नटन्तः । कृतजिनजननीपादपूजाः कृता विहिता
जंगलको जलानेवाला होगा ।। ६६ ।। इस तरह अपने पति से सभी स्वप्नोंके फलको निश्चित करके लक्ष्मणा के शरीरपर रोमांच प्रकट हो गये, जिन्हें देखनेसे ऐसा जान पड़ता था मानो उसने दूसरा ब्लाऊज पहन लिया हो। उस समय उसे अनिर्वचनीय आनन्द हुआ । इष्टकी प्राप्ति भला किसके हर्ष के लिए नहीं होती ? ||६७। इसके पश्चात् आयुके समाप्त होते ही उस अहमिन्द्रने वैजयन्त नामक अनुत्तर विमानसे अवतरित होकर शुभ दिनमें लक्ष्मणाके गर्भ में प्रवेश किया, जैसे जल-बिन्दु सीपमें प्रवेश करता है || ६८ || अहमिन्द्रका पुण्य सारे संसार में प्रसन्नताकी लहर उत्पन्न करनेवाला था । अतः उसने लक्ष्मणाके गर्भ में ज्यों ही अवरण किया त्यों ही देवेन्द्र -- जिनके साथ असुरेन्द्र भी थे - बड़ी धूमधामके साथ राजा महासेन के घर पहुँचे, और गाजे-बाजे के साथ उन्होंने गर्भ- कल्याणका उत्सव मनाया, एवं बांसुरी ओर वीणाकी तानकी
=
४०३
१. आ भज । २. आ अखिलक्षितसंप्राप्ति: अखिलस्य क्षितस्य समीहितस्य संप्राप्तिः । ३. = परिक्षये । ४. आशुक्तिषु । ५. आ उपमानन्तरं ' तस्य तत् तस्मिन् तस्य' इत्यधिकः पाठः समुपलभ्यते । त्रिषु लोकेषु । ७ = त्रिलोके लोकत्रये वा । ८. संपादयति समुद्भावयीतत्येवं भूतम् । ९. श 'विहितवति सति' इति नोपलभ्यते ।
६.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org