________________
चन्द्रप्रमचरितम्
[१६, ६६ -
ब्रूते नागस्ते त्रिलोकैकमुख्यं कल्याणास्ये सूनुमुक्षा गभीरम् । सिंहः सिंहोदारदुर्लङ्घयवीर्य लक्ष्मीदेवेन्द्राभिषेकैकयोग्यम् ॥६३॥ दामद्वन्द्वात्सुभ्र सोऽनन्तकीर्तिर्भावी चन्द्रात्तृप्तिहेतुः प्रजानाम् । मोहध्वान्तध्वंसकस्तिग्मभासा पाठीनाभ्यां सर्वशोकैविमुक्तः ॥६४॥ कुम्भालोकालक्षणैः पूर्णदेहस्तृष्णावह्निच्छित्सरोवीक्षणेन । पाथोनाथात्केवलज्ञानभागी लब्धा सिद्धर्धाम सिंहासनेन ।॥६५॥ स्वर्गादेता देवि देवालयेन नागावासाद्धर्मतीर्थस्य कर्ता ।
क्रीडाशैलो रत्नपुञ्जाद्गुणानां धक्ष्यत्युग्रं वह्निना कर्मकक्षम् ।।६६।। देवी । तत्फलज्ञा तेषां स्वप्नानां फलज्ञाना । चक्रे क्रियते स्म । कर्मणि लिट् ॥६२॥ ब्रूत इति । नागः गजः । तं सूनु पुत्रम् । त्रिलोकैकमुख्यं त्रयाणां लोकानामेकमसहायं मुख्यं श्रेष्ठम् । कल्याणाङ्ग कल्याणं मनोहरमङ्गं शरीरं यस्य तम् । ब्रूते वक्ति । उक्षाः वृषभः । गभीरं गम्भीरम् । सिंहः कण्ठोरवः । सिंहोदारदुर्लङ्घयवीयं सिह इवोदार' महितं दुर्लङ्घय लवितुमशक्यं वीर्य पराक्रमो यस्य तम् । लक्ष्मीः श्रीदेवी । देवेन्द्राभिषेकैकयोग्य देवेन्द्रनिहितम्याभिषेकायकं मुख्यं योग्यम् ।६३ । दामेति । सुभ्र ! सुशोभने भ्रवो यस्यास्तस्याः संबोधनं भो मनोहरभ्रूसहिते! दामद्वन्द्वात् दाम्लोलियोर्द्वन्द्वाद् युग्मात् । भावी भविष्यन। सः पुत्रः। अनन्तकोतिः अनन्तयशाः । चन्द्रात् सोमात् । प्रजानां जनानाम् । तृप्ति हेतुः । तिग्भभासा सूर्येण । मोहध्वान्तध्वंसकः मोह एव ध्वान्तं तस्य ध्वंसकः । पाठीनाभ्यां मोनाभ्याम् । सर्वशोकैः सर्वदुःखैः । विमुक्तः रहितः ।।६४॥ कुम्भेति । कुम्भालोकात् कुम्भयोः कलशयोरालोकाद् दर्शनात् । लक्षणः हलकुलिशादिचिह्नः । पूर्णदेहः संपूर्णशरीरः। सरोवीक्षणेन सरसः सरोवरस्य वीक्षणेन दर्शनेन । तृष्णावह्निच्छित् तृष्णव वाञ्छव वह्निरग्निस्तं छिनत्तीति तथोक्तः । पाथोनाथात् जलधिदर्शनात् । केवलज्ञानभागी पञ्चमज्ञानभाजन: ( नम् )। सिंहासनेन हरिपीठदर्शनेन । सिद्धेः मोक्षस्य। धाम स्थानम् । लब्धा लप्स्यते । डुलभिष" प्राप्तो लुङ् ॥६५।। स्वर्गादिति । देवि भो देवि ! देवालयेन देवविमानदर्शनेन । स्वर्गात त्रिदिवात । एता एष्यति । नागावसात नागभवनदर्शनात । धर्मतीर्थस्य परमागमस्य । कर्ता स्वामी। रत्नपुञ्जात् रत्नराशिदर्शनात् । गुणानां सम्यक्त्वादिगुणानाम् । क्रोडार्शल: लीलापर्वतः। वह्निना अग्निदर्शनेन । उग्रं करम् । कर्मकक्षं कर्मकाननम् । धक्ष्यति भस्मयिष्यति । भी लक्ष्मणाको उनके फलका ज्ञान कराया-॥६२॥ हे कल्याणमुखी ! ऐरावत हाथी तेरे पुत्रको तीनों लोकोंमें मुख्य बतला रहा है, बैल उसे गम्भीर, सिंह महान् और दुर्लध्य पराक्रमका धारी और लक्ष्मी इन्द्रोंके द्वारा अभिषेक करने योग्य सूचित कर रही है ॥६३॥ हे सुन्दर भ्रुकुटि वाली देवी ! दो मालाओंके देखनेसे वह अनन्तकीतिको धारण करनेवाला होगा, चन्द्रमा देखनेसे प्रजाकी तृप्तिका हेतु, सूर्य देखनेसे मोहरूपी अन्धकारको मिटानेवाला और मछलियोंकी जोड़ीको देखनेसे सभी प्रकारके शोकसे मुक्त होगा ॥६४॥ कलश देखनेसे उसके दिव्य देहमें शुभ लक्षण होंगे, सरोवर देखनेसे तृष्णारूपी अग्निको शान्त करनेवाला होगा, समुद्र देखनेसे केवलज्ञानी होगा और स्वर्ण-सिंहासनके देखनेसे मुक्तिको पानेवाला होगा ॥६५॥ देवि ! देवोंका विमान देखनेसे वह स्वर्गसे अवतरित होगा, नागभवन देखनेसे धर्मतीर्थका प्रवर्तक होगा, रत्नोंकी राशि देखनेसे समस्त गुणोंका क्रीडा-पर्वत होगा और अग्नि देखनेसे उग्र कर्मों के
१. क ख ग घ म तिग्मभासः । २. क ख ग घ म लक्ष्मणैः । ३. क ख ग घ म सिद्धेहेमसिंहा। ४. 'कल्याणाङ्ग" इति टीकाश्रयः पाठः, प्रतिषु तु निखिलास्वपि 'कल्याणास्ये' इति समपलभ्यते । कल्याणं मनोहरमास्यं मुखं यस्यास्तत्संबुद्धौ हे कल्याणास्ये शुभवदने। ५.- महत् । ६. आणदेहः । ७. एष टीकाश्रयः पाठः प्रतिषु तु 'यादोनाथात्' इत्येव समुपलभ्यते । सानुप्रासः टोकापाठः साधीयानित्यत्र न काचन संशीतिः। ८. श डुलभ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org