SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ - १६, ६२ ] षोडशः सर्गः मालायुग्मं प्रान्तविभ्रान्तभृङ्गं सान्द्रज्योत्स्नं पार्वणं शीतभानुम् । भानुं भासा भासिताशान्तरालं मीनद्वन्द्वं क्रोडदन्योन्यरक्तम् ॥ ५६ ॥ कुम्भावम्भोजावृतावम्बुपूर्णो शुभ्राम्भोजोद्भासितोयं तटाकम् । वोची चक्रेश्चुम्बिताकाशमन्धि सिंहव्यूढं विष्टरं शैलतुङ्गम् ॥६०॥ दिव्यं दिव्यैः सेव्यमानं विमानं नागावासं नागकन्याभिरामम् । सर्प तेजोमण्डलं रत्नराशि धूमत्यागादुज्ज्वलं धूमकेतुं ॥६१|| (कुलकम् ) स्वप्नानेतान्भूरि कल्याणहेतून्ात्वा प्रातः प्रीतिविस्तारिताक्षी । सा भूभर्तुः सूचयामास देवी चक्रे तेनापीति सा तत्फलशा || ६२|| कमलं यस्याः ताम् । लक्ष्मीं श्रीदेवीम् ||५८ || मालेति । प्रान्तविभ्रान्तभृङ्गं प्रान्ते समीपे विभ्रान्ताश्चलिता ४ भृङ्गा मधुकरा यस्य तत् । मालायुग्मं मालयोर्दाम्नोयुग्मं युगलम् । सान्द्रज्योत्स्नं सान्द्रा घना ज्योत्स्ना चन्द्रिका यस्य तम् । पार्वणं पौर्णमास्यां भवम् । शीतभानुं चन्द्रम् । भासा कान्त्या । भासिताशान्तरालं भासितं प्रकाशितमाशानां दिशामन्तरालमभ्यन्तरं यस्य तम् । भानुं सूर्यम् । क्रीडत् विहरत् । अन्योन्यरक्तम् अन्योन्यं परस्परं रक्तं प्रीतियुक्तम् । मीनद्वन्द्वं मोनयोर्मत्स्योर्द्वन्द्वं युगलम् ||५९|| कुम्माविति । अम्भोजावृतौ अम्भोजः कमलैरावृती परिवृतौ । अम्बुपूर्णौ अम्बुना सलिलेन पूर्णौ उम्भितौ । कुम्भी मङ्गलकलशौ । शुभ्राम्भोजोद्भासितोयं शुभ्रैः श्वेतैरम्भोजैः सरसिजैरुद्भासि विलसत् तोयं जलं यस्मिन् तम् । तटाकं सरोवरम् । वोचिचक्रः वीचीनां तरङ्गाणां चक्रः समूहैः । चुम्बिताकाशं चुम्बितं स्पृष्टमाकाशं गगनं यस्य तम् । अधि समुद्रम् । सिंहव्यूढं सिंहः कण्ठीरवैर्व्यूढं धृतम् । शैलतुङ्गं शैलवत् पर्वतवत् तुङ्गमुन्नतम् । विष्टरं सिंनासनम् ॥ ६० ॥ दिव्यमिति । दिव्यं दिवि स्वर्गे भवम् । दिव्यैः देवः । सेव्यमानं श्रयमाणम् । विमानं व्योमयानम् । नागकन्याभिरामं नागकन्याभिर्नागवनिताभिरभिरामं मनोहरम् । नागावासं नागानां नागकुमाराणामावासं भवनम् । सर्पत्तेजोमण्डलं सर्पन् स्रवन् तेजसां कान्तीनां मण्डलं यस्य तम् । रत्नराशि रत्नानां मणीनां राशि निकरम् । धूमत्यागात् धूमस्य त्यागादभावात् । उज्ज्वलं प्रज्वलम् । धूमकेतुम् अग्निम् । ददर्श इति प्रत्येकमभिसंबन्धः । पञ्चभिः कुलकम् । दीपकम् ॥ ६१ ॥ स्वप्नानिति । भूरिकल्याणहेतून् भूरिणो बहुलस्य कल्याणस्य हेतून् कारणानि । एतान् इमान् । स्वप्नान् । प्रातः विभाते । गत्वा प्राप्य । प्रीतिविस्फारिताक्षी प्रीत्या संतोषेण विस्फारिते उद्घाटिते अक्षिणी नयने यस्याः सा । सा देवी लक्ष्मणा देवी । भूभर्तुः महासेन राजस्य । सूचयामास विज्ञापयामास । सूच पैशून्ये लिट् । तेनापि । इति वक्ष्यमाणप्रकारेण । सा ४०१ दो मालाओंको, जिनके आसपास भौंरे गुंजार कर रहे थे; सघन ज्योत्स्नासे युक्त पूर्णमासी चन्द्रमाको; अपने प्रकाशसे सारी दिशाओंको प्रकाशित करते हुए सूर्यको और एक दूसरेसे अनुराग करनेवाले किलोल करते हुए मीन युगलको ( देखा ) ||५९ ॥ कमलोंसे ढंके हुए और जल से भरे हुए दो मंगलकलशोंको, जलमें लहलहाते हुए सफेद कमलोंसे अलंकृत सरोवरको, आकाशको छूनेवाली उत्ताल तरंगोंसे युक्त समुद्रको और सिंहोंपर आश्रित सिंहासनको, जो पहाड़ के समाव उन्नत था, (देखा ) ॥ ६० ॥ देवोंसे सेवित दिव्य विमानको, नागकन्याओंसे सुन्दर नागभवनको, फैलाते हुए तेजोमण्डलसे युक्त रत्नराशिको और धूमरहित होनेसे उज्ज्वल अग्निको (देखा ) ॥ ६१ ॥ अत्यधिक कल्याणके कारण स्वरूप इन स्वप्नोंके बारेमें लक्ष्मणाने - जिसके नेत्र प्रीति से विकसित हो रहे थे— प्रभात होते ही अपने पति राजा महासेनको सूचना दी, और फिर महासेनने १. अ क ख ग घ म तडागम् । २. अ क ख ग घ म देवैः । ३. अ प्रीता । ४. श चञ्चलिताः । येन । ९. आ ' धृतम्' इति ५. श पार्वणं पौर्णवम् । ६. = येन | ७. श 'उम्भितो' इति नास्ति । ८ = - नास्ति । १०. - उद्गच्छन् । Jain Education Internati For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy