________________
चन्द्रप्रमचरितम्
[१६, ५५ - प्रागेव प्रमुदितधीर्जिनावताराद्रत्नानाममुचदहिद्विषा प्रयुक्तः । कोटयर्धं प्रतिदिवसं त्रिकोटियुक्तं षण्मासानथ धनदस्तदीयगेहे ॥५॥ अष्टौ च त्रिदशपतेनिंदेशवाक्यात्तस्यान्तःपुरमुपगम्य दिक्क मार्यः । व्यानम्राः स्वमभिनिवेद्य लक्ष्मणायाः कर्तव्यं व्यधिषत गर्भशोधनादि ।।६।।
सौधोत्सङ्गे तुङ्गपल्यङ्कसुप्ता कल्याणाङ्गी यामिनी पश्चिमार्धे ।। चिह्नोभूताजेनजन्मानुमाने स्वप्नानेतान्साथ देवी ददर्श ॥५७।। शैलेन्द्राभं शुभ्रमैन्द्रं गजेन्द्रं दर्पोत्सेकोद्रेकमाणं गवेन्द्रम् ।
नागेन्द्रौघं द्रावयन्तं मृगेन्द्रं लक्ष्मी हस्तन्यस्तलीलारविन्दाम् ।।८।। कम् ॥५४॥ प्रागिति । अथ दिग्विजयानन्तरम् । प्रमुदितधीः प्रमुदिता संतुष्टा धीश्चित्तं यस्य सः । अहिद्विषा देवेन्द्रेण । प्रयुक्तः प्रेरितः । धनद: कुबेरः। जिनावतारात् जिनस्य चन्द्रनाथस्यावताराद् गर्भावतरणात् । प्रागेव पूर्वमेव । रत्नानां मणीनाम । त्रिकोटियक्तं त्रिसभिः कोटिभिर्यक्तं यतम । कोट्यधं कोटया अर्ध दलम । तदीयगेहे तदीये' तत्संबन्धे गेहे सदने। षण्मासान् षण्मासपर्यतम् । प्रतिदिवसं२ दिन प्रति । अमुचत् ववर्ष । लङ ॥५५॥ अष्टाविति । त्रिदशपतेः देवेन्द्रस्य । निदेशवाक्यात निदेशस्याज्ञाया वाक्याद् वचनात् । अष्टौ च अष्टसंख्याप्रमिताः । दिक्कुमार्यः । तस्य राज्ञः। अन्तःपुरम् अवरोधम् । उपगम्य प्राप्य । लक्ष्मणायाः लक्ष्मणादेव्याः । व्यानम्राः विनमनशीला: सत्यः । स्वम आत्मन: अभिनिवेद्य विज्ञाप्य । गर्भशोधनादि गर्भस्य शोधनादि। कर्तव्यं कार्यम् । व्यधिषत कुर्वन्ति स्म। डुधाञ् धारणे च ॥५६॥ सौधेति । अथ गर्भशोधनानन्तरम् । सौधोत्सले सोधस्य प्रासादस्योत्सले ४ऽग्रे ( मध्ये )। तुङपल्य सप्ता तुङ्गे उन्नते पल्यले मञ्चके सुप्ता शयिता । कल्याणाङ्गी कल्याणं मनोहरमनं यस्याः सा । 'असहनज-' इत्यादिना डी-प्रत्ययः । सा देवी लक्ष्मणा देवी। यामिनीपश्चिमाधे यामिन्या रात्रः पश्चिमाधैsवसाने । जैनजन्मानुमाने जैनस्य' जिनसंबन्धस्य जन्मनो जननस्यानुमानेऽनुमितौ । चिह्नीभूतान् लक्षीभूतान् । एतान् इमान् । स्वप्नान् । ददर्श वीक्षां चक्रे । दृश प्रेक्षणे लिट् ॥५७॥ शैलीत । शैलेन्द्राभं शैलेन्द्रस्य गिरीन्द्रस्य आभं सदृशम् । ऐन्द्रम् इन्द्रसंबन्धम् । गजेन्द्रं हस्तीन्द्रम् । शैलेन्द्राभम्-इत्योन्नत्येन मेरुसदशो न वर्णेन । शुभ्रमिति विशेषणस्य दत्तत्वात, मेरोः (च) सूवर्णवर्णत्वात । दर्पोद्रकात दर्पस्य र द्रेकादुत्कर्षात् । रेकमाणं ध्वनन्तम् । गवेन्द्रं वृषभम् । नागेन्द्रौघं नागेन्द्राणां गजेन्द्राणामोघं समूहम् । द्रावयन्तं धावयन्तम् । मृगेन्द्र कण्ठीरवम् । हस्तन्यस्तलीलारविन्दा हस्ते पाणी न्यस्तं लीलायै विलासार्थमरविन्दं हुए चिरकाल तक साम्राज्यके सुखका अनुभव किया ॥५४॥ दिग्विजयके बाद महासेनके घर चन्द्रप्रभके गर्भावतारके पहले लगातार छह मास तक (तीनों सन्ध्याओंमें) प्रतिदिन साढ़े तीन करोड़ रत्नोंकी वर्षा, कुबेरने, इन्द्रकी प्रेरणासे प्रसन्नतापूर्वक की ॥५५॥ इन्द्र की आज्ञासे आठों दिक्कुमारियोंने महासेनके अन्तःपुरमें जाकर एवं नम्रतापूर्वक अपने आनेका अभिप्राय बतलाकर लक्ष्मणाके गर्भ-शोधन आदि कर्त्तव्यको पूर्ण किया ॥५६॥ इसके उपरान्त लक्ष्मणाने-जो राजमहलके मध्यमें ऊंची सेजपर सोयो हुई थी और जिसका शरीर समस्त लोकके लिए कल्याणकारी था ( तीर्थकरको जन्म देनेसे )-रात्रिके पिछले भागमें इन (सोलह) स्वप्नोंको देखा, जो जिन भगवान् ( चन्द्रप्रभ ) के जन्मका अनुमान लगाने में सहायक थे ॥५७॥ सुमेरुके समान उन्नत, इन्द्रके शुभ्र गजराज-ऐरावतको; दर्पके प्रकर्षसे डकारते हुए श्रेष्ठ बैलको; गजराजोंके झुण्डको भगाते हुए सिंहको और उस लक्ष्मीको, जिसके हाथमे लीला कमल स्थित था, (देखा) ॥५८॥ . १. = तत्संबन्धिनि । २. = प्रतिदिनम् । ३. =आत्मानम् । ४. = मध्ये । ५. = जिनसंबन्धिनः । ६. = लक्ष्मभूतान् । ७. आ दृशिर । ८. = आभेवाभा यस्य तं । ९. = इन्द्रसंबन्धिनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org