SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ -१६, ५४] षोडशः सर्गः ३९९ कस्तूरोमृगसुरभौ हिमाचलेन्द्र प्रच्योतत्पयसि निवेशितात्मसैन्यः । स्वं घोणाकलितकरैः स किंनरोधैः शुश्रावेन्दुरुचि यशःप्रगीयमानम् ॥५२॥ इत्याशाः समदवधूरिव क्षितीशः संक्षेपात्करकलिता स संविधाय । संतुष्टाखिलजनवर्धितोत्सवायां प्रत्यागादतुलपराक्रमः स्वपुर्याम् ।।५३॥ भूपानां वसनयुगादिसत्कृतानां संघातं सपदि यथायथं विसl । संपश्यन्मुखकमलं स लक्ष्मणायाः साम्राज्यं समनुबभूव दीर्घकालम् ।।५४|| अङ्गरुहमिव पक्ष इव विधूसर ईषच्छुभ्रः। तच्चमत्थः तस्य भूपस्य चम्वा सेनया उत्थ उद्गतः । यः पांसुः परागः । नभसि गगने । समन्तात् सर्वतः । ससर्प व्याप्नोति स्म । सर्प गती लिट् । संत्रासोदयपरिकम्पमानपक्षे संत्रासेन भयेन परिकम्पमानो५ धनानः पक्षः सहायो गरुद्वा ( पक्षे, गरुत्) यस्य तस्मिन् । खशमशके खशराज एव मशको मक्षिका तस्मिन् । सः एव पांसुरेव । धूमः । संजज्ञे जातः । लिट् ॥५१॥ कस्तूरीति। कस्तुरीमृगसुरभो कस्तूरीमृगैः सुरभिः परिमलो यस्मिन् तस्मिन् । प्रश्चोतत्पयसि प्रश्चोतत् प्रस्रवत् पयो जलं यस्मिन" तस्मिन हिमाचलेन्द्रे हिमवत्पर्वते । निवेशितात्मसैन्यः निवेशितं निवासितमात्मनः स्वस्य सैन्यं सेना येन सः । सः राजा। वीणाकलितकरैः वीणया कलितो युक्तः करो हस्तो येषां तैः । किंनरोधैः किंनराणामोघैः समूहैः । प्रगीयमानं स्तूयमानम् । इन्दुरुचि इन्दोश्चन्द्रस्य रुचिरिव रुचिः कान्तिर्यस्य तत् । स्वं स्वकीयम् । यशः कीर्तिम् । शुश्राव शृणोति स्म। ध्रु श्रवणे लिट् । उपमा ॥५२॥ इतीति । इति एवम् । अतुलपराक्रमः अतुल: सादृश्यरहितः पराक्रमः शक्तिर्यस्य सः । सः महासेनः । क्षितीशः भूपतिः । समदवधुरिव मदेन संतोषेण सहिता वधूरिव नारीरिव । आशाः दिशः । संक्षेपात् संक्षेपणात् करिकलिताः करेण सिद्धायेन कलिता गृहीताः । संविधाय कृत्वा । अखिलजनधितोत्सवायाम् अखिलः सकलजनैर्वधितोऽभिनन्दित उत्सवो यस्यां तस्याम् । स्वपुर्यां स्वस्य पुर्या नगर्याम् । संतुष्ट्या संतोषेण । प्रत्यागात् पुनरागमत् । इण् गतौ लुङ् । 'गैत्योः' इति गादेशः । श्लेषोपमा ॥५३।। भूपानामिति । स महासेनः । सपदि शीघ्रम् । वसनयुगादिसत्कृतानां वसनस्य वस्त्रस्य युगादिभिद्विपदिकादिभिरित्यर्थः, सत्कृतानां संमानितानाम् । तस्य (?)। भूपानां राज्ञाम् । संघातं समूहम् । यथायथं यथा भवति । स्वदेशं विसज्यं प्रेष्य । लक्ष्मणायाः लक्ष्मणादेव्याः । मुखकमलं मुखमेव नलिनम । पश्यन् विलोकमानः । दीर्घकालं बहुकालपर्यन्तम् । साम्राज्यं राज्यम् । समनुबभूव अनुभवतिस्म । रूप जा रही थी, वही 'खश' राजारूपी मच्छरोंको-जिनके पक्ष ( पंख ) के लोम भयके कारण कांप रहे थे-भगदड़ मचानेके लिए धूम-धुआँ थी ॥५१॥ हिमालय पर्वतपर कस्तूरी मृगोंकी सुगन्धि फैल रही थी और झरनोंका जल बह रहा था। वहाँ अपनी सेनाको ठहराकर राजा महासेनने अपने शुभ्र यशका गान सुना, जो दिव्य वीणाको अपने हाथोंमें लेकर गन्धर्व आदि देवोंके द्वारा गाया जा रहा था ॥५२॥ इस प्रकार संक्षेपमें सभी दिशाओंको, सन्तुष्ट पत्नीकी भाँति अपने अधीन करके अतुल पराक्रमी राजा महासेन अपनी राजधानी में-जहाँ सभी नागरिक सन्तुष्ट होकर खूब उत्सव मना रहे थे-लौट आया ॥५३॥ इसके पश्चात् वस्त्रोंकी जोड़ी आदि उपहार देकर सभी सहयोगी राजाओंके वर्गका शीघ्र ही यथायोग्य सन्मान किया और फिर उन्हें बिदा करके महासेन ने लक्ष्मणा (पट्टरानी) का मुख-कमल देखते (भोग भोगते) १. क ख ग घ म स्वर्वीणा । २. क ख ग घ म किनराद्यैः । ३. अ करमलिताः, म करमिलिताः । ४. अ विसर्य । ५. = वेपमानः । ६. श यस्मिन् । ७. = यस्मात् । ८. = संक्षेपतः। ९. = यथायोग्यम् । १०. आ विसृज्य । ११. आ 'राज्यम्' इति नोपलभ्यते ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy