________________
विषयानुक्रमः
१. प्रथमः सर्गः १-५ मङ्गलाचरणम् । ६ समन्तभद्रप्रशंसा। ७-८ सज्जनदुर्जनवर्णनम् । ९ आत्मनो लघुताप्रदर्शनम् । १० पुराणसागरप्रवेशनिवेदनम् । ११ पूर्वमन्दरवर्णनम् । १२-२० मङ्गलावतीनाम्नो देशस्य वर्णनम् । २१-३८ रत्नसंचयपुरवर्णनम् । ३९-५३ राज्ञः कनकप्रभस्य वर्णनम् । ५४-५७ तन्महिष्याः सुवर्णमालाया वर्णनम् । ५८-६३ तत्पुत्रस्य पद्मनाभस्य वर्णनम् । ६४-८० सौधशिखरारूढस्य राज्ञ आसन्नतमैकपल्वले धनपङ्कनिमग्नमक्षमं म्रियमाणमेकं जरद्गवमुदीक्ष्य निर्वेदप्राप्तेर्वर्णनम् । ८१ पद्मनाभाय राज्यं वितोर्य राज्ञः कनकप्रभस्य जिनदीक्षाया वर्णनम् । ८२ पितृविरहतः पद्मनाभस्य शोकानुभूतेवर्णनम् । ८३ अमात्यैः पद्मनाभप्रतिबोधनवर्णनम । ८४ सिंहासनासीनं पद्मनाभं प्रति सामन्तानां व्यवहृतेर्वणनम् । ८५ स्वसूताय सुवर्णनाभाय यौवराज्यं दत्वा पद्मनाभस्य भोगानुभवनस्य वर्णनम् ।
२. द्वितीयः सर्गः १-२ राज्ञः पद्मनाभस्य वनपालमुखाच्छोधराभिधस्य मुनेरागमनश्रवणम् । ३-१० मुनेवैशिष्टयवर्णनम् । ११-२३ मुनिप्रभावतः संजाताया उद्यानविभूतेवर्णनम् । २४ मुनिवृनान्तं निशम्य राज्ञो हर्षोद्रेकः । २५ वनपालाय पारितोषिकप्रदानम् । २६-२७ मुनिचरणयो राज्ञः परोक्षनमस्कृतिः । २८ मुनिवन्दनयात्रायाः कृते सर्वेऽपि पौरजनाः सज्जीभवन्त्विति राज्ञ आदेशः । २९ राजगोपुरे राज्ञां समागमनम् । ३० सपरिकरस्य राज्ञो मनिदर्शनार्थ गमनवर्णनम् । ३१ गमनवेलायामिलापतेः शोभाया वर्णनम् । ३२ वनं प्राप्य राज्ञः प्रसन्नता। ३३ वायुवर्णनम् । ३४ सेनामावासयेति सेनापति प्रति राज्ञ आदेशो वनप्रवेशश्च । ३५ राज्ञो मुनिदर्शनम् । ३६ नीलशिलातले स्थितस्य मुनेः शोभा । ३७ सविनयं, मुनि प्रणम्य राज्ञस्तत्पुरस्तादुपवेशनम् । ३८ राज्ञः कमलमुकुलाकारयोः करयोवर्णनम् । ३९ संगतयोर्मनीन्द्रनरेन्द्रयोः शोभा। ४०-५१ जीवादिसप्ततत्त्वविषयको राज्ञः प्रश्नः । ५२-५३ मुनिद्वारा राज्ञः प्रश्नस्य प्रशंसा तदुत्तरदानस्य स्वीकृतिश्च । ५४ तत्त्वोपप्लववादिनां 'जीवो नास्तीति' पक्षस्य प्रतिक्षेपः । ५५ प्रतिजन्तु जीवस्य स्वसंवेदनगोचरत्वम् । ५६.६१ ज्ञानस्यास्वसंवेदित्वं निराकृत्य स्वसंवेदित्वस्य संसिद्धिः पूर्वपक्षिणां पक्षस्य प्रत्यक्षबाधा च । ६२ गर्भकालतो मरणं यावज्जीवस्य स्वसंवेदनप्रत्यक्षतः सिद्धिः । ६३ सदकारणवत्त्वेन जीवस्यानादिताया अनन्ततायाश्च सिद्धिः । ६४.५२ हेतोरसिद्धत्वदोषस्य वारणं, भूतानां हेतुत्वस्य खण्डनं, पक्षस्यानुमानबाधितत्वं, तत्त्वोपलववादिनाम् आत्मनोऽभावसाधनाथं प्रयुक्तस्य 'अनुपलम्भात्' इति हेतोरसिद्धत्वसाधनं च । ७३ आत्मभूतयोरेक्यनिरासः । ७४-७५ आत्मनो नित्यताया निराकरणम् । ७६ आत्मनः सुखदुःखादिपर्यायैः सहाभेदत्वोपपादनम् । ७७. समवायसंबन्धमीमांसा । ७८-७९ समवायकृत उपकारस्तद्भिन्नोऽभिन्नो वेति विचारः । ८० आत्मनो जडताया निवारणम् । ८१ आत्मनोऽकर्तृतायाः खण्डनम् । ८२ आत्मनः कतत्वोपपादनम् । ८३ आत्मनोऽकर्तता पापीयसीति प्रतिपादनम् । ८४-८६ आत्मनश्चित्तसंततिमात्रत्वस्य खण्डनम । ८७ आत्मनो व्याप निरसनम् । ८८ जीवोऽनादिनिधनो देहप्रमाणकः कर्ता भोक्ता चिदाकारश्चेत्यभिप्रायगर्भ उपसंहारः । ८९ जीवे सिद्धेऽजीवादयोऽपि व्यवस्थिता अतस्तत्त्वमुपप्लुतमित्यभिप्रायगर्भस्तत्त्वोपप्लववादिनां खण्डनस्योपसंहारः । ९०-११० मोक्षे विप्रतिपद्यमानानां सर्वज्ञाभाववादिनां मीमांसापक्षपातिनां मीमांसकानां खण्डनं सर्वज्ञसिद्धि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org