________________
-१६, ४.j षोडशः सर्गः
३९५ पण्यस्त्रीमिव समुपात्तपत्रपूगैस्तैर्भुक्त्वा मलयजभूषितामयाचीम् । संसर्पत्परिमलकुङ्कुमाभिरामा तद्योधैद्रुतमकटाक्षि पश्चिमाशा ॥३८।। भूपाले विजितसमस्तदक्षिणाशे यत्राभूत्प्रतिहतशक्तिरन्तकोऽपि । कस्तत्र त्वमिति मरुञ्चलैः प्रचक्रे तच्चिद्वैरिव वरुणापसारसंज्ञा ॥३॥ लाटीनां कठिनबृहत्पयोधराग्रसंघट्टप्रतिहतिजजरे पुरैव ।
लाटी ये हृदयतटे पतंस्तदीयः शस्त्रौघः परमनिष्ट कीर्तिभागी ॥४०॥ जयस्य साक्षिण: साक्रोशयुताः ( ? ) । बभूवुः भवन्ति स्म लिट् ॥३७॥ पण्यस्त्रीमिति । समुपात्तपत्रपूर्णः समुपात्तः स्वीकृतः पत्राणां वाहनानां पूगो निवहो यस्तैः, पक्षे पत्रसंहतियुतः । 'पत्रं वाहनपर्णयोः' इत्यमरः । 'पूगः क्रमुकवृन्दयोः' इत्यमरः । तद्योधैः तस्य महासेनस्य योधैर्भटैः। पण्यस्त्रीमिव वेश्या ( वेश ) स्त्रीमिव । मलयजभूषितां मलयजेन श्रीगन्धेन भूवितामलंकृताम् । अपाची दक्षिणाशाम् । भुक्त्वा अनुभूय । संसर्पत्परिमलकुङ्कुमाभिरामा संसर्पता विसर्पता परिमलेन सुरभिणा युक्तेन कुङ्कुमेन काश्मीरजेनाभिरामा मनोहरा । पश्चिमाशा प्रतीची । द्रुतं शीघ्रम् । अकटाक्षि' कटाक्षमकार्षीत् । कटाक्ष इत्यस्य सुब्धातो लुङ । श्लेषोपमा ॥३८॥ भूपाल इति । यत्र यस्मिन् । भूपाले महासेने । विजितसमस्तदक्षिणाशे विजिता जिता समस्ता दक्षिणा आशा येन तस्मिन् सति । अन्तकोऽपि यमोऽपि । प्रतिहतशक्तिः प्रतिहता नष्टा शक्तिः सामथ्यं यस्य सः । अभूत अभवत् । लुङ। तत्र महासेनमहाराजे। त्वं भवान् । क: कियान् । इति एवम् । मरुच्चलः मरुता वायुना चलश्चलनयुक्तः। तच्चिह्नः तस्य राज्ञश्चित: पताकाभिः । वरुणापसारसंज्ञा वरुणस्य पश्चिमदिक्पालस्यापसारस्यापसारणस्य संज्ञा सूचना । चक्रे क्रियते स्म । कर्मणि लिट् । उत्प्रेक्षा ॥३९॥ लाटीनामिति । पुरैव प्रागेव । लाटीनां लाटदेशवनितानाम् । कठिनबृहत्पयोधराग्रसंघट्टप्रतिहत (ति) जर्जरे कठिनस्य कर्कशस्य बृहतो महतः पयोधरस्याग्रस्याग्रभागस्य संघट्टेन मर्दनेन प्रतिहतेन जर्जरे शिथिले। लाटीये' ल(ला)टदेशराजानां संबन्धे । हृदयतटे हृदयप्रदेशे। पतन निपतन् । तदीयः तस्य राज्ञः संबन्धः । शस्त्रोधः शस्त्राणामायुधानामोघः। कोतिभागी कोतिभाक् । परम् उत्कृष्टम् । अजनिष्ट जायते पृथ्वीपर तिलककी भांति सुशोभित है-दक्षिण दिशाकी विजयके साक्षी थे ॥३७।। महासेनके सैनिक विलासियोंके समान थे। जिस प्रकार विलासी पुरुष चन्दन आदिसे भूषित एक वेश्याको भोगकर और आवभगतमें उससे ताम्बूल तथा सुपाड़ी स्वीकार करके सुगन्धित कुंकुम आदिसे सुन्दर प्रतीत होनेवाली अन्य वेश्याकी ओर कटाक्ष विक्षेप करते हैं, उसी प्रकार चन्दन-वृक्षोंसे विभूषित दक्षिण दिशाका निरीक्षण करके और वहाँके वाहनोंके समुदाय या पान सुपाड़ीको स्वीकार करके महासेनके सैनिकोंने पश्चिम दिशाकी ओर दृष्टि डाली, जो सुगन्धि फैलानेवाली कुंकुमसे मनोज्ञ थी ॥३८॥ 'जिस राजा महासेनके द्वारा सारी दक्षिण दिशा जीत लेनेपर यमराजकी शक्ति भी शिथिल हो गयो, उसके सामने तुम्हारी क्या हस्ती है' मानो यह कहकर हवासे हिलते हुए महासेनके झण्डे, चमर और छत्र आदि राजचिह्नोंने वरुणको भाग जानेके लिए इशारा कर दिया ॥३६॥ लाट ( गुजरात ) नरेशका हृदय वहाँकी नायिकाओंके कठोर
और बड़े-बड़े स्तनोंकी नोंकके संघर्षणसे आहत होकर पहलेसे ही जर्जर था, अतः उस ( हृदय ) पर गिरकर महासेनके शस्त्रोंका समूह केवल यशका भागी हुआ, उसे परिश्रम तनिक-सा भी
१. अभिरामां। २. म वरुणोपसारसंज्ञः । ३. = समुपात्तं पत्रं ताम्बूलं पूगः क्रमुकश्च यैस्तैः । ४. आ अवाची । ५. = दृष्टा। ६. आ 'श्लेषोपमा' इति नास्ति। ७. श पताकादिभिः। ८. आ लाजिना' । ९. आ लाजिनां । १०. = संघद्रस्य संघर्षणस्य प्रतिहतिः प्रतिघातः, तया । ११. आ लाजीये। १२. = संबन्धिनि । १३. -संबन्धी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org