SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ [१६, ३५ ३९४ चन्द्रप्रमचरितम् यत्काचेष्विव भृशमन्यपार्थिवेषु न व्यक्तिं व्यपगतधामसु प्रपेदे। कर्णाटेष्वजनि परिस्फुटं तदीयं तद्भानोरिव तपनोपलेषु तेजः ॥३५॥ सामन्तोपचितचम्पयुक्ततोया रिक्तत्वं ययुरचिरेण याः सरस्यः। तास्तत्र द्रमिलवधूवियोगजाश्रुस्रोतोभिः स पुनरपुरयत्प्रवृद्धः ॥३६।। घर्षद्धिर्मलयगिरौ' महागजानां ग्रैवेयैरकृषत चन्दनेषु येऽङ्काः । तस्योर्वोतलतिकायमानकीर्तेस्तेऽपाचीप्रविजयसाक्षिणो बभूवुः ॥३७॥ महासेनः । रणविनिपातितप्रियाणां रणे संग्रामे विनिपातिता निहिसिताः प्रियाः प्राणकान्ता यासां तासाम् । आन्ध्रीणां तेलुग देशस्त्रीणाम् । संपूर्ण परिपूर्णम् । आननेन्दुबिम्बम् आननं मुखं तदेवेन्दुबिम्बं चन्द्रमण्डलम् । तुलितकलङ्कगण्डभित्तिव्यालम्बालकं तुलितः सदृशीकृतः कलङ्को यस्ते तुलितकलङ्काः गण्डभित्तो गण्डप्रदेशे व्यालम्बाः लम्बमाना अलकाश्चूर्णकुन्तला यस्य तत् । अकृत अकार्षीत् । डकृञ् करणे लुङ् । तस्य दुःखेन मुक्तकेशं कृतवानित्यर्थः। रूपकम् ।।३४॥ यदिति । यत् तेजः । काचेष्विव काचमणिष्विव । व्यपगतधामसु व्यपगतमपनीतं धाम कान्तिः प्रपापो येषां तेषु । अन्यपार्थिवेषु शत्रुभूपालेषु । भृशम् अत्यन्तम् । व्यक्ति । प्रादुर्भूतिम् । न प्रपेदे न जगाम । पदि गतौ लिट् । तदीयं तेषां संबन्धि । तत् तेजः कान्तिः प्रतापः । तपनोपलेषु सूर्यकान्तशिलासु । भानोरिव सूर्यस्य तेज इव । कर्णाटेषु कर्णाटभूपेषु । परिस्फुटं व्यक्तम् । अजनि अभूत् । लुङ् । उपमा ॥३५॥ सामन्त इति । सामन्तोपचितचमूपयुक्ततोयाः सामन्तैः राजभिरुपचितया चम्वा सेनया उपभुक्तं तोयं जलं यासां ताः। याः सरस्यः सरोवराः। अचिरेण शीघ्रम् । रिक्तत्वं जलशून्यत्वम् । ययुः यान्ति स्म । तत्र देशे। प्रवृद्धः अधिकैः । द्रविड वधूवियोगजाश्रुस्रोतोभिः द्रविडस्य द्रविड देशस्य वधूनां वनितानां वियोगजानां दुःखजनितानामश्रूणां नयनोदकानां स्रोतोभि: प्रवाहैः । पुन: पश्चात् । अपूरयत् पूरयति स्म। पूर आप्यायने णिजन्ताल्लङ् । परिवृत्तिः ॥३६॥ घर्षद्भिरिति । मलयगिरी मलयपर्वते । चन्दनेषु गन्धसारेषु । महागजानां महाकरिणाम् । घर्षद्भिः मर्दयद्भिः । ग्रंवेयैः कण्ठवध ( र ) त्राभिः । ये अङ्काः यानि चिह्नानि । अकृषत अकुरुत । लुङ् । उर्वीतलतिलकायमानकोर्तेः उर्वीतलस्य भूतलस्य तिलकायमाना कोतिर्यस्य तस्य । तस्य भूपस्य। काः (ते)। अवाचीप्रविजयसाक्षिणः अवाच्या दक्षिणदिशः प्रविजयस्य महासेनने नंगी तलवार लेकर संग्राममें आन्ध्रदेशकी स्त्रियोंके-जिनके पति युद्ध में मार दिये गये थे-बिखरे हए केशोंसे युक्त मुखको पूर्णमासीके सकलंक चन्द्रमण्डलके समान बना दिया ॥३४॥ काच सरोखे निस्तेज अन्य राजाओंमें महासेनका जो तेज व्यक्त नहीं हुआ था, वह कर्णाटक देशके तेजस्वी राजाओंमें खूब ही व्यक्त हुआ, जैसे सूर्यका तेज सूर्यकान्त मणियोंमें व्यक्त होता है ॥३५॥ इसके पश्चात् महासेन द्रविड देशमें पहुंचा। वहाँपर उसके सामन्तोंको भारी सेनाओंने जिन जलाशयोंके जलका उपयोग किया वे खाली हो गये, पर महासेनने युद्धभूमिमें मुकाबला करनेके लिए आये हुए वीरोंको अमरलोकका यात्री बनाकर उनकी स्त्रियोंके नेत्रोंसे उमड़े हए अश्रप्रवाहको प्रवाहित करके उन (रिक्त जलाशयों) को फिरसे भर दिया ॥३६॥ मलय पर्वतपर महासेनके बड़े-बड़े हाथियोंने अपनी ग्रोवा रगड़कर उसमें बंधी हुई जंजीरोंके संघर्षणसे चन्दनके वृक्षोंमें जो चिह्न बना दिये थे वे उस ( महासेन ) के-जिसकी कौति १. अ मलयगिरिम। २. आ कलिङ्ग । ३. आ सदृशितः । ४. श ‘शत्रुभूपालेपु' इति नास्ति । ५. =अभिव्यक्ति । ६. श द्रविल। ७. श द्रविलस्य । ८. श द्राविड । ९. श अपरयन् पूरयन्ति स्म । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy