________________
१६, ३४ ]
षोडशः सर्गः
ते पीत्वा प्रहरणधारिणामरीणामायुभिः सह शुचिनालिकेर नीरम् । वेलान्तर्वणविवरेषु तस्य योधाः कक्कोलानिलविहृतश्रमा ववल्गुः ||३१|| स स्तम्भं जयककुदं निषूदितारिवैलाद्रेः शिरसि निखानयांबभूव । भ्रान्ताखिलककुभः स्वकीय कीर्तेर्विश्रान्त्यास्पदमिव नाकमारुरुक्षोः ||३२|| भूभर्तुर्दिशमभिदक्षिणां यियासोः सैन्योत्थैरथ पथि सैकतै रजोभिः । कुर्वद्भिः सितमुवर्त्म तस्य कार्ण्य शत्रूणामिव समधार्यताननेषु ॥ ३३ ॥ तत्रासौ समुपगतः समुद्यतासिरान्ध्रीणां रणविनिपातितप्रियाणाम् । संपूर्ण तुलितकलङ्क गण्डभित्ति व्यालम्बालक मकृताननेन्दुबिम्बम् ||३४||
स्म । लिट् । उत्प्रेक्षा ॥ ३० ॥ त इति । तस्य भूतस्य । ते योधाः ते भटाः । प्रहरणधारिणां खड्गधारिणाम् । अरीणां शत्रूणाम् । आयुभिः आयुष्यैः । सह । शुचि निर्मलम् । नालिकेरनीरं नालिकेरस्य नीरमुदकम् । पोवा पानं कृत्वा । वेलान्तर्वणविवरेषु वेलायास्तटस्यान्तर्वणानां समीपवनानां विवरेषु मध्येषु । 'प्राग्रेऽन्तः—' इत्यादिना वनशब्दस्य णत्वम् । कक्कोलानिलविहतश्रमाः कक्कोलात् कक्कोल नामगन्धवृक्षवनादागतेनानिलेन वायुना विहतो निराकृतः श्रम आयासो येषां ते । भूत्वा । ववलुः ( ववल्गुः ) चलन्ति स्म । वल्गु चलने लिट् । सहोक्तिः ॥ ३१ ॥ स इति । निषूदितारिः निदिता हिंसिता अरयो रिपवो येन सः । सः महासेनः । प्रभ्रान्ताखिलककुभः प्रभान्ताः प्रचलिता अखिलाः सकलाः ककुभो दिशो यया तस्याः । नाकं स्वर्गम् । आरुरुक्षोः आरोढुमिच्छो: । स्वकीय कीर्तेः स्वसंबन्धिन्याः कीर्तेर्यशसः । विश्रान्त्यास्पदमिव विश्रान्त्या विश्रमस्यास्पदमिव प्रदेशवत् । जयककुदं जयस्य ककुदं चिह्नम् । 'प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम्' इत्यमरः । स्तम्भं निश्चलस्तम्भम् । वेलाद्र े: वेलापर्वतस्य । शिरसि अग्रे । निखानयां बभूव स्थापयति स्म । खनू अवदारणे णिजन्ताल्लिट् उत्प्रेक्षा ||३२|| भूभर्तुरिति । अथ जयस्तम्भस्थापनानन्तरम् । पथि मार्गे । दक्षिणाम् अवाचीम् । दिशम् अभि दिशं प्रति । वीप्स्य -' इत्यादिना अभि-योगे द्वितोया । यियासोः यातुमिच्छो: । भूभर्तु भूमिपतेः । सैन्योत्थैः सैन्येन सेनया उत्थैः समुद्भूतैः । उडुवर्त्म गगनम् । सितं धवलम् । कुर्वद्भिः विर्घा । सैकतैः शुभ्र मिलितैः (शुभ्रसिकतायुतैः) । रजोभिः रेणुभिः । तस्य गगनस्य । काष्ण्यं कृष्णत्वम् । यथा तथा क्रियाविशेषणम् । शत्रूणां रिपूणाम् । आननेषु मुखेषु । समधार्यत इव समवलिप्यत इव । उत्प्रेक्षा ||३३|| तत्रेति । तत्र दिशि । समुपगतः आगतः । समुद्यतासिः समुद्यत उत्खातोऽसि: खड्गो येन सः । असो तटपर जानेवाली, शत्रुओंकी कीर्तिको पकड़ रहे हों ||३०|| महासेन के सैनिकोंने युद्ध में सशस्त्र शत्रुओं को आयुको नरियलके शुद्ध और शुभ्र जल के साथ पोकर पूर्व समुद्रतटके निकटवर्ती वनों के बीचमें सैर करना शुरू कर दिया । वहाँ कंकोल वृक्षोंके स्पर्शसे सुख देनेवाली वायुका सेवन करने से उनकी थकान दूर हो गयो ||३१|| शत्रुओं पर विजय पानेवाले राजा महासेनने पूर्व समुद्र तट के निकटवर्ती पर्वत के शिखरपर विजयका चिह्न स्वरूप एक स्तम्भ स्थापित कर दिया, स्वर्ग जानेके लिए उत्सुक हुई, पश्चात् महासेनके मनमें दक्षिण
जो ऐसा जान पड़ता था मानो सभी दिशाओं में परिभ्रमण करके उसको कीर्तिका विश्राम करनेका स्थान हो ||३२|| इसके दिशा की ओर जानेको इच्छा उत्पन्न हुई अतः ज्यों हो वह आगे बढ़ा त्यों ही मार्ग में धूलि उड़ने लगी, जिसमें बालू के सफेद कण मिले हुए थे । उसने आकाशको सफेद कर दिया। इस अवसर - पर आकाशको कालिमा विलकुल ही अदृश्य हो गयी, अतः ऐसा प्रतीत हो रहा था मानो उसकी कालिमा महासेनके शत्रुओंके मुखपर पोत दी गयी है ||३३|| दक्षिण में पहुँचते ही १. म कङ्कोला । २. अ आ इ रन्ध्रोणां । ३. श कक्कल । ४. = प्रदेशमिव । ५. आश अवधारणे । ६. श 'विदधद्भिः' इति पदं नास्ति ।
५० Jain Education International
३९३
For Private & Personal Use Only
www.jainelibrary.org