________________
चन्द्रप्रमचरितम्
[ १६, २१ - तां क्षोणीमिव चतुरर्णवावसानामायातां तनुमनुकृत्य मानवीयाम् । प्राप्योर्वीपतिरखिलेन्द्रियार्थसारामात्मानं स कलयति स्म सार्वभौमम् ॥२१॥ व्यासक्तस्तदधरपल्लवे स राज्यश्रीचिन्तामपि शिथिलीचकार भूपः। प्रायेण स्थिरमतयोऽपि विप्रमोहं नीयन्ते मदनफलैरिवेन्द्रियाथैः ॥२२॥ निर्मग्नं विषयसुखाम्बुधावगाधे तं मन्दोद्यममवधार्य राजकार्ये । स्वातन्त्र्यं ययुरखिलानि मण्डलानि मन्दत्वं भवति न कस्य वाभिभूत्यै ।।२३।। व्यत्थान सचिवमनान्निशम्य राज्ञां राजेन्द्रो निजमभिनिन्द्य च प्रमादम।।
निर्जतुं स दश दिशोऽन्यदा प्रतस्थे सामन्तैः परिकलितः सहस्रसंख्यैः ॥२४॥ को वा । ईशः समर्थः । अतिशयः ॥२०॥ तामिति । सः उर्वीपति: महासेनभूपतिः । मानवीयां मनुष्यसंबन्धिनीम् । तनुं शरीरम् । अनुकृत्य धृत्वेत्यर्थः । आयतां विशालाम् [ आयाता ] ( समागताम )। चतुरणवा. वसानां चत्वारोऽणवाः समुद्राः चतुरणवास्त एवावसाना अवधयो यस्याः ताम् । क्षोणोमिव भूमिमिव । अखिलेन्द्रियार्थसाराम् अखिलानां निखिलानामिन्द्रियाणां पञ्चेन्द्रियाणामर्थानां विषयाणां सारां सारभूताम् । तां लक्ष्मणाम् । प्राप्य लब्ध्वा। आत्मानं स्वम । सार्वभौमं चक्रवर्तिनम् । कलयतिस्म मन्यते स्म । कल संख्याने लट् । उत्प्रेक्षा ॥२१॥ व्यासक्त इति । तदधरपल्लवे तस्या लक्ष्मणाया अधर एव ओष्ठ एव पल्लवः किसलयं तस्मिन् । व्यासक्तः आसक्तः । भूपः महासेनभूपः । राज्यश्रीचिन्तामपि राज्यस्य श्रियः सपदश्चिन्तामाध्यानमपि । शिथिलीचकार प्रागशिथिला इदानों शिथिला ( शिथिला तां) चकार । लिट् । तथा हि। स्थिरमतयोऽपि स्थिरया स्थिररूपया मत्या बुद्धया युक्ता अपि । मदनफरिव' इन्द्रियार्थरिव, पञ्चेन्द्रियविषयैः । प्रायेण तावत् बाहल्येन । विप्रमोहं भ्रान्तिम् । नीयन्ते प्राप्नुवन्ति । णीन् प्रापणे लट् । अर्थान्तरन्यासः ॥२२॥ निर्मग्नमिति । अगाधे अतलस्पर्शे । विषयसुखाम्बुधौ विषयाणां पञ्चेन्द्रियाणां सुखमेवाम्बुधिः समुद्रः तस्मिन् । निर्मग्नं प्रविष्टम् । राजकार्ये राज्ञां भूपानां कार्य दुष्टनिग्रहादिकार्ये कृत्ये। मन्दोद्यमम अल्पोद्योगम। तं महासेनम् । अवधार्य निश्चित्य। अखिलानि सर्वाणि । मण्डलानि भूवलयानि । स्वातन्त्र्यं स्वाधीनत्वम । ययुः यान्ति स्म । सकलदेशाधिपाः स्वाधोना बमूवु इत्यर्थः । मन्दत्वम् अलसत्बम् । कस्य वा पुरुषस्य । अभिभूत्यै तिरस्करणाय । न भवति किन्तु भवत्येव । अर्थान्तरन्यासः ॥२३।। व्युत्थानमिति । राजेन्द्रः राजश्रेष्ठः । सः महासेनः । सचिवमुखात् मन्त्रिवदनात् । राज्ञां सामन्तभूपानाम् । व्युत्थानं विरोधाचरणम् । निशम्य श्रुत्वा। निजं स्वकीयम् । प्रमादं मतिविभ्रमम् । अभिनिन्द्य च गुणोंकी गणना भला कौन कर सकता है ? ॥२०॥ पट्टरानी लक्ष्मणा ऐसी जान पड़ती थी मानो वह मानव देह धारण करके उपस्थित हुई, चारों समुद्रोंसे वेष्टित विशाल भूमि हो। वह सभी इन्द्रियोंके विषयोंका सार थी। उसे पाकर महासेनने अपनेको सार्वभौम-चक्रवर्ती माना ॥२१॥ लक्ष्मणके अधरपल्लवमें आसक्त होकर राजा महासेनने राज्यलक्ष्मीको चिन्ताको भी कम कर दिया। सच तो यह है कि जिनकी बुद्धि स्थिर है वे भी धतूरे के फल सरीखे पचेन्द्रियोंके विषयोंसे मोहित कर दिये जाते हैं ॥२२॥ महासेन विषयसुखके अगाध समुद्र में मग्न रहने लगा और उसने राजकीय कार्यमें ढोल डाल दी। यह जानकर सारी छोटी-बड़ी रियासतेंजो अधीन रहों-स्वतन्त्र हो गयीं ! आलस किसके अपमानके लिए नहीं होता ? ॥२३।। अपने मन्त्रियों के मुखसे, अनेक अधीन राजाओंके सिर उठानेके समाचार सुनकर राजाधिराज
१. आ इ कलयते । २. क ख ग घ म परिकरितः। ३. श 'भूमिमिव' इति नास्ति । ४. = धत्तूरफलरिव । ५. = १ञ्चेन्द्रियसंबन्धिना। ६. = सामन्तानां राज्यभभागाः । ७. = सर्वेषामपि । ८. श वचनात् । ९. आ 'विरोधाचरणम्' इति पदं नोपलभ्यते। १०. - अनवधानताम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org