SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ - १६, २० ] षोडशः सर्गः लोलत्वं नयनयुगे न चित्तवृत्तौ मन्दत्वं गतिषु न सज्जनोपचारे' । कार्कश्यं कुचयुगले न वाचि यस्या भङ्गोऽभूदलकच ये न चापि शीले ॥१८॥ सौभाग्यं क्वचिदितरत्र रूपमात्रं क्वापि स्याद्विनयगुणोऽपरत्र शीलम् । यस्यां तत्समुदितमेव सर्वमासीत्प्रायेण प्रभवति तादृशी न सृष्टिः ॥१६॥ सर्वेषामपि तमसां छिदः पुरस्ता तीर्थस्य क्षतरजसोऽष्टमस्य कर्ता । यद्गर्भ गुणनिधिरात्मनाधिशिश्ये कस्तस्या गुणगणनां विधातुमीशः ||२०|| ५ गोत्रे, पक्षे वेणी लब्धं प्राप्तं जन्म जननं यस्याः सा । सुकविकथेव सुकवेः महाकवीश्वरस्य कथेव वाणीव । चारुवर्णा चारुर्मनोहरो वर्णः कान्तिः, पक्षे वर्णोऽक्षरं यस्याः सा । या देवी । रेजे भाति स्म । लिट् । श्लेषोपमा ||१७|| लोलत्वमिति । यस्याः लक्ष्मणायाः । नयनयुगे नयनयोर्नेत्रयोर्युगे युगले । लोलत्वं चञ्चलत्वम् । चित्तवृत्ती चित्तस्य मनसो वृत्तौ वर्तने । न नाभूत् । मन्दत्वम् आलस्यम् । गतिषु गमनेषु । सज्जनोपकारे सज्जनानां सत्पुरुषाणामुपचारे सत्कारे । न । कार्कश्यं कठिनत्वम् । कुचयुगले स्तनयुगले । वाचि वचने । न । भङ्गः कौटिल्यम् । अलकचये अलकानां चूर्णकुन्तलानां चये समूहे । शीले सदाचारे । न चाप्यभूत् नाभवत् । परिसंख्या ॥ १८ ॥ सौभाग्यमिति । क्वचित् कस्यचित् स्त्रियाम् । सौभाग्यम् ' आदेयमूर्तित्वम् । इतरत्र अन्यस्याम् । रूपमात्रं सौन्दर्यमात्रम् । क्वापि कस्यामपि स्त्रियाम् । विनयगुणः विनयरूपो गुणः । अपरत्र अपरस्यां वनितायाम् । शीलं सदाचारः । स्यात् भवेत् । यस्यां लक्ष्मणायाम् । तत्सर्वं तत्सकलम् । समुदितमेव युगपदेव | आसीत् अभवत् । तादृशी तद्रूपा । सृष्टिः स्त्रीसृष्टिः । प्रायेण बहुलेन । न प्रभवति ॥१९॥ सर्वेषामिति । पुरस्तात् अग्रे । सर्वेषामपि सकलजनानामपि । तमसाम् अज्ञानानाम् । छिदः नाशयतः । क्षतरजसः क्षतं विनष्टं रजः पापं यस्य तस्य । अष्टमस्य अष्टानां पूरणस्य । 'नो मट्' इति मट् - प्रत्ययः । तीर्थस्य परमागमस्य । कर्ता प्रभुः । गुणनिधिः गुणानामनन्तज्ञानादीनां निधिनिधानम् । यद्गभं यस्या लक्ष्मणाया गर्भमुदरम् । आत्मना स्वयमेव । अधिशिश्ये प्रेरितवान् । 'शीस्थासो ऽधेराधारः' इति आधारे कर्म । तस्याः लक्ष्मणायाः । गुणगणानां गुणानां पातिव्रत्यादीनां गुणानां गणनां संख्याम् । विधातुं कर्तुम् । कः ३८९ बाँससे उत्पन्न होती है वैसे वह श्रेष्ठ वंश में उत्पन्न हुई थी और जिस प्रकार से अच्छे कविकी कथा सुन्दर वर्णोंसे युक्त होती है उसी प्रकारसे वह भी सुन्दर वर्ण-रंगसे युक्त थी । वह सभी दृष्टिसे सुन्दर थी । उसकी निराली शोभा थी ॥ १७॥ उसके नेत्र युगलमें चंचलता थी, न कि मनोवृत्ति में; उसकी चाल सालस-धीमी थी, किन्तु उसे सत्पुरुषोंके उपकार करने में आलस नहीं था; उसके स्तनयुगलमें कठोरता थी न कि वचनों में और उसके केशपाश में घुंघरालापन था किन्तु उसका शोल कभी स्वप्न में भी भंग नहीं होता था || १८ || किसी स्त्री में केवल सौभाग्य, किसी में केवल रूप, किसी में केवल विनय गुण, तो किसीमें केवल शील ही पाया जाता है, किन्तु पट्टरानी लक्ष्मणामें क्या सौभाग्य, क्या रूप, क्या विनय और क्या शील- ये सभी गुण एक ही साथ प्रकट हो गये थे। ऐसी स्त्रियोंकी सृष्टि प्रायः नहीं होती, होती भी है तो बहुत ही कम ॥१६॥ आगे जाकर सभी प्रकार के अज्ञानको मिटानेवाले, और पापों को नष्ट करनेवाले अष्टम तीर्थके प्रवर्त्तक अत्यधिक गुणवान् भगवान् चन्द्रप्रभ जिसके गर्भ में अवतरित होंगे उसके १. आ इ क ख ग घ म पकारे । २. आ इ दृष्टि: । ३. म तमसां स्थितिः । ४. क ख गम परस्तात्ती । ५. = यया । ६. = सुभगता । ७ श 'अपि नास्ति । ८ = बहुलम् । ९. = येन । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy