________________
३८५
- १५,]
षोडशः सर्गः संतापप्रसरमुषः समाश्रितानां तुङ्गत्वे सति फलसंपदा नमन्तः । सच्छायाः सरसतया सदैव यत्र सादृश्यं दधति महीरुहा महद्भिः॥४॥ नीरन्ध्रविपुलफलैरकृष्टपच्यैः संपन्नं सुरकुरुवत्समस्तसस्यैः । न स्प्रष्ट यमलमवग्रहा ग्रहोत्था निर्दोषं नरमिव दुर्जनापवादाः ॥५॥ संगीतध्वनिमुखरैर्विराजमाना प्रासादैः शशधरबिम्बचुम्बनोत्कैः । तत्रास्ति त्रिदशपुरीव राजधानी विख्याता त्रिजगति चन्द्रपुर्यभिख्या ॥६॥ विस्तीर्णोन्नतशिखरावलीकराग्रैरुत्तम्भामिव विदधन्निराश्रयस्य ।
कारुण्यात्पवनपथस्य भाति यस्यां प्राकारो ध्वजरमणीयगोपुरानः ।।७।। संतापेति । यत्र देशे। समाश्रितानाम् आश्रितजनानाम् । संतापप्रसरमषः संतापस्य प्रसरं प्रचार' मष्णन्तीति तथोक्ताः । तुङ्गत्वे औन्नत्ये सति । फलसंपदा फलानां संपदा समद्धया। नमन्तः विनताः । सच्छायाः अनातपेन युक्ताः, ( पक्षे ) कान्त्या युक्ताः । 'छाया स्यादातपाभावे सत्कान्त्युत्कोचकान्तिषु । प्रतिबिम्बेऽर्ककान्तायां तथा पती च पालने ।' सरसतया जलयुक्ततया, ( पक्षे ) पक्षिराजयुक्ततया । सदैव
सत्पुरुषः । सादृश्यं समानत्वम् । दधति धरन्ति । लट् । श्लेषोपमा ॥४॥ नीरन्ध्रेरिति । नीरन्ध्रः निरन्तरैः। विपुलफलैः विपुलानि सान्द्राणि फलानि येषां तैः। अकृष्टपच्यैः४ अकृष्टं पच्यं येषां तैः । समम्तसम्यैः समस्तैः सर्वैः सस्यैः । सुरकुरुवत् देवकुरुनामोत्तमभोगभूमिवत्। संपन्नं समृद्धम् । यं पूर्वदेशम् । ग्रहोत्थाः ग्रहैरादित्यादिनवग्रहरुत्था उत्पन्नाः । अवग्रहाः दुर्भिक्षाणि । निर्दोषं पापरहितम् । जनं लोकम् । दुर्जनापवादाः दुर्जनविहिता अपवादा निन्दाः । इव । स्प्रष्ट स्पशनाय। नालं न समर्था भवन्ति । 'श वषड़-' इत्यादिना अलं शब्दयोगे चतुर्थी । उपमा ।।५|| संगीतेति । तत्र देशे। संगोतध्वनिमुखरैः संगीतस्य ध्वनिना रवेण मुखरैर्वाचालैः । शशधरबिम्बचुम्बनोत्क: शशधरस्य चन्द्रस्य बिम्बस्य मण्डलस्य चुम्बने स्पर्शने उत्कैरुत्सुकैः । प्रासादैः हर्यैः । विराजमाना भासमाना। त्रिदशपुरीव त्रिदशानां देवानां पुरीव पुरमिव । [त्रि ] जगति लोके [ लोकत्रये ] । विख्याता प्रसिद्धा। चन्द्रपुर्यभिख्या चन्द्रपुरी इत्यभिख्या नामधेयं यस्याः सा । राजधानी पुरी। अस्ति वर्तते । उपमा ॥६॥ विस्तीर्णेति । यस्यां चन्द्रपुर्याम् । ध्वजरमणीयगोपुरानः ध्वजैः पताकाभी रमणीयं मनोहरं गोपुराणां (पुर- ) द्वाराणामग्रमूवभागो यस्य सः । प्राकारः सालः । जहाँपर वृक्ष महान् पुरुषोंके समान दृष्टिगोचर होते हैं। महान् पुरुष अपने आश्रय में आनेवालोंके मानसिक सन्तापके वेगको दूर कर देते हैं, धन-सम्पत्तिको दृष्टिसे उन्नत होकर भी विनम्र होते हैं, सुन्दर कान्तिसे युक्त होते हैं और होते हैं सदा सरस । इसी प्रकार उस देशके वृक्ष अपने आश्रयमें आनेवालोंके सन्तापको शान्त कर देते हैं, खूब उन्नत होकर भी फलोंके लगनेपर झुक जाते हैं, घनी छायावाले हैं और हैं हमेशा हरे-भरे ॥४॥ वह देश सघन, अधिकसे अधिक फल देनेवाले और बिना जोते ही पैदा होनेवाले सभी प्रकारके अनाजोंसे देवकुरु-उत्तम भोगभूमिको भांति समृद्ध है। सूर्य आदि ग्रहोंके प्रकोपसे उत्पन्न होनेवाले अवग्रह-सूखा आदि उसे छू भी नहीं सकते, जैसे दुर्जनोंके द्वारा लगाये गये अपवाद निर्दोष मनुष्यको नहीं छू सकते ॥५॥ उस देशको राजधानीका नाम चन्द्रपुरी है। वह पुरो सुरपुरीको भांति तोनों लोकोंमें विख्यात है। वह ऐसे महलोंसे सुशोभित है, जिनमें संगीतकी ध्वनि गूंजती रहती है, और जो अत्यधिक उन्नत होनेसे ऐसे प्रतीत होते हैं मानो चन्द्रबिम्बको चूमनेके लिए उत्सुक हों ॥६॥ उस राजधानोके चारों ओर प्राकार-चहारदीवारी बना हुआ है। उसमें चारों
१. म गृहोत्था । २. आ तत्र । ३. श प्रचुरं। ४. = कृष्टेन पच्यन्त इति कृष्टपच्यानि न कृष्टपच्यान्यकृष्टपच्यानि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org