SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ३८४ चन्द्रप्रमचरितम् [१६, १ - [ १६. षोडशः सर्गः] लक्ष्मीवानिह भरते सरोजखण्डेरुदण्डरथ विधुदीधितिप्रकाशैः । स्वैश्चिह नैरिव परितो विराजमानो देशानामधिपतिरस्ति पूर्वदेशः ॥१।। भारेण स्तनकलशद्वयस्य यस्मिन्नुत्थातुं मुहुरसहा विदग्धगोप्यः । गीतेन स्फुटकलमानमञ्जरीणां लुण्ठाकं हरिणगणं विमोहयन्ति ॥२॥ चीत्कारारवबधिरीकृताखिलाशैर्यत्रावामिव विदधदिद्भिरितुयन्त्रः व्याकृष्टाः सरसरसामृतं पिबन्तः पान्थौघा न पथि परिश्रमं विदन्ति ।।३।। श्रीमत्समुद्रविजयक्षितिपालपुत्रं नानानिनादितमहोद्धरपाञ्चजन्यम् । शङ्खध्वजं दशधनुःप्रतिम (प्रमितं)जिनेशं नेमीश्वरं प्रतिभवे(जे)हरिवंशजातम् ।। लक्ष्मीवानिति । अथ अनत्तरगमनान्तरम। इह जम्बद्रीपे। भरते भरतक्षेत्रे । विधदीधितिप्रकाशः विधोश्चन्द्रग्य दीधितिरिव प्रकाशः कान्तिर्येषां तैः । उद्दण्डैः उन्नतः। सरोजखण्डैः सरोजनां कमलानां षण्डैः कदम्बै. । स्वैः स्वसंबन्धिभिः । चिह्नरिव छत्रादिभिरिव । परितः समन्तात । विराजमान: भासमानः । लक्ष्मीवान् शोभावान् । देशानां जनपदानाम् । अधिपतिः प्रभुः । पूर्वदेशः पूर्व इति देशः अस्ति वर्तते । लट् । उत्प्रेक्षा ॥१॥ भारेणेति । यस्मिन् देशे। स्तनकलशद्वयस्य२ स्तनावेव कलशो तयोर्द्वयं तस्य । भारेण । मुहुः पश्चात् । उत्थातुम् उत्थानाय । असहाः असमर्थाः। विदग्धगोप्यः विदग्धाः प्रौढा: गोप्यो गोपस्त्रियः । स्फुटकलमाग्रमजरीणां स्फुटकलमानां स्फुटानां परिणतानां शालि सस्यानामग्रे विद्यमानानां मञ्जरीणां स्तबकानाम् । लुण्ठाकम्' अपहरन्तम् । हरिणगणं हरिणानां गणं समूहम् । गीतेन गानेन । विमोहयन्ति परवशं कुवन्ति । मुह वैचित्ये लट् । अतिशयः ॥२॥ चीत्कारेति । यत्र पूर्वदेशे। चीत्कारारवबधिरीकृताखिलाशेः चीत्कारेण चीत्काररूपेणारवेण बधिरीकृता अखिला निखिला आशा दिशो येषां तैः । आह्वाम् आह्वानम् । विदर्धाद्भरिव कुवद्भिरिव । इक्षुयन्त्रः । व्याकृष्टाः आकारिताः । सरसरसामृतं सरसो माधुर्ययुक्तो रस इक्षुरसः स एवामृतं तत् । पिबन्तः पानं कुर्वन्तः । पान्योधाः पान्थानां पथिकानामोघाः समूहाः । 'नित्यं णः पन्थश्च' इति ष-प्रत्ययः पन्थादेशश्च । पथि मागें । परिश्रमं श्रमम् । विदन्ति न जानन्ति । विद ज्ञाने लट् । उत्प्रेक्षा ॥३॥ इसके उपरान्त-इसी जम्बूद्वीपके भरतक्षेत्रमें एक पूर्वदेश है, जो शोभा और लक्ष्मीसे सम्पन्न है और सभी देशोंका राजा है। उन्नत मृणालवाले एवं चन्द्रमाको किरणोंके समान सफ़ेद कमलोंसे वह ऐसा जान पड़ता है मानो सभी ओरसे अपने राजचिह्नों-छत्र आदिसे सुशोभित हो ॥१॥ जिस देशमें कृषोबलोंकी कुशल महिलाएं स्तनकलशोंके भारके कारण बारबार उठने में असमर्थ हैं। अतः वे अपने खेतोंमें विकसित धानको बालियोंको उजाड़नेके लिए आनेवाले हरिणोंके झुण्डको गानसे मोह लेती हैं। फलत: वह मूछित-सा होकर खड़ा रह जाता है-उजाड नहीं करता ॥२॥ जिस देश में 'ची'चो' शब्दसे सारी दिशाओंको बधिर करनेवाले इक्षुयन्त्र-कोल्हू अपने शब्दसे ऐसे जान पड़ते हैं मानो रसपान करनेके लिए पथिकोंके समूहको बुला रहे हों। उनके शब्दसे आकृष्ट हुए राहगीर मधुर इक्षुरसरूपी अमृतका पान करके मार्गमें थकानका अनुभव नहीं करते-रस पीते ही उनकी थकान पच जाती है ॥३॥ १.श 'लट्' इति नास्ति । २. आ शद्वयेन। ३. = पुनः पुनः । ४. आ शाखसस्या । ५. आ 'लुण्ठाकम्' इति नास्ति, श प्रतो 'लुण्ठन्तम्' इत्यस्ति । ६. श 'समूह' इति नोपलभ्यते । ७. आ 'यत्र' इति नास्ति । ८. = यः । ९. श 'न जानन्ति' इति नास्ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy