________________
- १५, १६२ ]
फुल्ल मल्ली कुसुमसदृशामोदमामोदिताशं रत्नज्योत्स्नारुचिरमचिराद्देहमासाद्य सद्यः । दिव्यैः पुण्योदयपरिणतैस्तत्र भूत्वाहमिन्द्रो रेमे भोगैस्त्रयसमधिकत्रिंशदब्धिप्रमायुः ॥ १६२॥
पञ्चदशः सर्गः
इति श्रीवीरनन्दिकृतावदया चन्द्रप्रभचरिते महाकाव्ये पञ्चदशः सर्गः ॥ १५ ॥
सुरालयं स्वर्गम् । भेजे भजति स्म || १६१ || फुल्लमिति । फुल्लन्मरुली कुसुमसदृशामोदं फुल्लन्तीनां विकस तीनां मल्लीनां मल्लिकानां कुसुमानां पुष्पाणां सदृशः समान आमोदः परिमलो यस्य तम् । आमोदिताशम् आमोदिताः परिमलिता आशा यस्य ( येन ) तम् । रत्नज्योत्स्नारुचिरं रत्नानां ज्योत्स्नया आह्लादनाकारकिरणेन रुचिरं मनोहरम् । देहं शरीरम् । अचिरं शीघ्रम् । आसाद्य लब्ध्वा । तत्र वैजयन्ते । त्रयसमधिकत्रिंशदधिप्रमायुः त्रयेण समधिकानां त्रिशतोऽब्धीनां सागराणां प्रमा प्रमाणमायुर्जीवितं यस्य सः । अहमिन्द्रः बहमिन्द्राख्यः । सद्यः तदैव । भूत्वा समुत्पद्य । पुण्योदयपरिणतैः पुण्यानां प्रशस्त कर्मणामुदयेन परिणतैर्जातैः । दिव्यैः दिवि भवः' । भोगैः सुखैः । रेमे रमते स्म । रमि क्रीडायां लिट् ॥ १६२ ॥
Jain Education International
इति श्री वीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये तद्वयाख्याने च विद्वन्मनोवल्लभाख्ये पञ्चदशः सर्गः ॥ १५ ॥
किया ।। १६१।। वहाँपर पद्मनाभने शीघ्र ही ( अन्तर्मुहूर्त में ही ) दिव्य शरीर प्राप्त कर लिया, जो विकसित मल्लीलताके फूलके समान सुगन्धित था और इसीलिए सारी दिशाओंको सुगन्धित करनेवाला था, तथा रत्नोंकी प्रभासे अत्यन्त ही सुन्दर था । वहाँपर पद्मनाभ अहमिन्द्र हुआ; उसकी आयु तेतीस सागर प्रमाण थी । वह पुण्य कर्मके ऊपरसे प्राप्त हुए दिव्य भोगोंको भोगकर आनन्द करने लगा ।। १६२ ||
१. आ देव्यैः देवीभवैः । २. आ रमु ।
इस प्रकार महाकवि वीरनन्दि विरचित उदयांक चन्द्रप्रभ चरित महाकाव्यमें पन्द्रहवाँ सर्ग समाप्त हुआ ॥ १५ ॥
३८३
For Private & Personal Use Only
www.jainelibrary.org