________________
३८२
चन्द्रप्रमचरितम्
[१५, १५९ -
मार्गप्रभावनाशानतपःप्रभृतिकारणः। तथा दर्शनवात्सल्यं सधर्मस्नेहलक्षणम् ॥१५९।। इति शिवसुखसिद्धय भावयन्षोडशैता रहितसकलसलो भावनाः शुद्धभावः। परहितकरचर्याबद्धबुद्धिर्बबन्ध व्रतनियमसमृद्धस्तीर्थकृन्नामकर्म ॥१६०॥ संन्यस्य सङ्गमखिलं निरवद्यवृत्तिराराध्य दृक्चरणबोधतपांस्यपांसुः। त्यक्त्वा तपोभरतनुं स्वतनुं स धीरो भेजे सुरालयमनुत्तरवैजयन्तम् ॥१६॥
परिहाणिभावना ॥१५८॥ मागेंति । ज्ञानतपःप्रभृतिकारणैः ज्ञानतपसी प्रभृती' मुख्ये येषां तैः । कारण: हेतुभिः। मार्गभावना जिनधर्मप्राकट्यकरणं मार्गप्रभावना। तथा तेन प्रकारेण । सद्ध(ध)मस्नेहलक्षणं समिणि चतुःसङ्घ स्नेह एव प्रीतिरेव लक्षणं स्वरूपं यस्य तत् । दर्शनवात्सल्यं दर्शने वात्सत्यम् । प्रवचनवात्सत्यभावना ॥१५९॥ इतीति । इति उक्तप्रकारेण । एताः इमाः। षोडश षोडशसंख्याकाः । भावनाः । शिवसुखसिद्ध शिवसुखस्य मोक्षसुखस्य सिद्धय साधनाय । भावयन् ध्यायन् । रहितसकलसङ्गः रहितस्त्यक: सकलो निखिलः सङ्गः परिग्रहो येन सः । शुद्धभावः शुद्धो निर्मलो भावश्चित्तं यस्य सः । परहितकरपर्याबद्धबुद्धिः परेषामन्येषां हितकरे मोक्षकरणे चर्ये प्रवर्तने आबद्धा विहिता बुद्धिर्यस्य सः । बराकान् इत्येवं भावनापर इत्यर्थः ( ? )। व्रतनियमसमृद्धः व्रतैरहिंसादिवतनियमैरनशनादिव्रतैः समृद्धः संपूर्णः सन् । तीर्थकुन्नामकर्म तीर्थकरत्वनामकर्म । बबन्ध बध्नाति स्म ॥१६०॥ संन्यस्येति । निरवद्यवृत्तिः निरबद्या निर्दोषा वृत्तिर्यस्य सः । अपांसुः न विद्यते पांसुः पापं यस्य सः । धीरः धैर्ययुक्तः । सः पद्मनाभमनिः । अखिल सकलम् । सङ्ग परिग्रहम् । संन्यस्य त्यक्त्वा । दृक्चरण बोधतपांसि दृग दर्शनं सा च, चरणं चरित्रं तच्च, बोधो ज्ञानं स च, तपश्च तथोक्तानि । आराध्य आराधनां कृत्वा । तपोभरतनुं तपोभरेणातिशयेन तनुं कृशाम् । स्वतनुं स्वस्य तनुं शरीरम् । त्यक्त्वा विमुच्य । अनुत्तरमनुत्तरनामानं वैजयन्तं वैजयन्तविमानम् ।
आवश्यकापरिहाणि है ।।१५७॥१५८॥ (१५) ज्ञान और तप आदि कारणोंसे सन्मार्गको प्रभावना करना मार्गप्रभावना है । ( १६ ) तथा सधर्मासे स्नेह करना, उसे देखते ही निःस्वार्थ प्रेम-वात्सल्य प्रकट करना प्रवचन वात्सल्य है। ॥१५९॥ इन सोलह भावनाओंको मोक्षसखकी सिद्धि के लिए भाते हुए समस्त परिग्रहके त्यागी, शुद्ध परिणामी, परोपकार करनेवाली चर्या में बुद्धि लगानेवाले और व्रत तथा नियमोंसे समृद्ध पद्मनाभने तीर्थकर प्रकृतिका-जो नाम कर्मके भेदोंमें परिगणित है-बन्ध कर लिया ॥१६०॥ मुनि पद्मनाभकी वृत्ति निर्दोष थी। वे स्वयं निष्पाप थे और थे धीर । उन्होंने समस्त परिग्रहका परित्याग करके, सम्यग्दर्शन, सम्यग्ज्ञान, सम्यक् चारित्र और तपकी आराधना की। फिर अन्त में तपस्याके प्रकर्षसे कृश हुए अपने शरीरको छोड़कर वे अनुत्तर वैजयन्त नामक स्वर्गमें चले गये। -सोलह स्वर्ग, नव ग्रेवेयक और नव अनुदिशोंके ऊपर पांच अनुत्तर विमान हैं; वैजयन्त उन्होंमेंसे एक है, जिसे पद्मनाभने प्राप्त
१. अ क ख ग घ म सद्धर्म । २. इ भावनां । ३. श प्रभृति । ४. श षोडशसंख्याः । ५. श हितकरणे। ६. आ बद्धदेयुवराकान् । ७. श 'तीर्थकरत्वनामकर्म' इति नास्ति । ८. एष टीकाश्रयः पाठः, प्रतिषु तु 'दृक्करण" इत्येव दृश्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org