________________
- १५, १५८ ]
पञ्चदशः सर्गः
समाधिस्तपसो विघ्ने कुतश्चित्समुपस्थिते । गुणिनां दुःखसंपाते वैयावृत्त्य समुद्यमः ॥१५६॥ भक्तियोगोऽर्हदाचार्येष्वनुरागैकलक्षणः । बहुश्रुतेषु चाशेषशास्त्रार्थग्रन्थभेदिषु ॥ १५७ ॥ श्रुते च द्वादशाङ्गादिबहुभेदसमन्विते । षण्णामवश्य कार्याणां क्रियाणामपरिच्युतिः ॥ १५८||
देन विशेषेण समन्वितः । त्यागश्च शक्तितस्त्यागभावना । अगूढसामर्थम् ' अगूढमव्यवहितं सामर्थ्यं यस्य' तत् । शरीरक्लेशलक्षणं शरीरस्य कायग्य क्लेशनिग्रह एव लक्षणं स्वरूपं यस्य तत् । तपश्च शक्तितस्तपोभावना ॥ १५५ ॥ समाधिरिति । तपसः बाह्याभ्यन्तरभेदस्य । वुतश्चित् । चारित्र ( ? ) विघ्ने अन्तराये । समुप स्थिते सति संजाते सति । समाधिः ७, साधुसमाधिभावना । गुणिनां सद्गुणयुक्तसाधूनाम् । दुःखसंपाते दुःखस्य संपाते संबन्धे सति । वैयावृत्यसमुद्यमः वैयावृत्त्यस्य करचरणादिसंवाह' नादेरुद्यम उद्योगः, वैयावृत्त्यकरणभावना ॥१५६॥ मक्तीति | अर्हदाचार्येषु अर्हति अर्हत्परमेष्ठिनि आचार्येषु च आचार्य परमेष्ठिषु च । अशेषशास्त्रार्थग्रन्थभेदिषु (ग्रन्थिभेदिषु ) अशेषस्य समस्तस्य शास्त्रस्य आगमस्य अर्थस्य ग्रन्थभेदेषु ग्रन्थभेदयुक्तेषु ( ग्रन्थिभेदिषु मर्मस्थलोद्घाटकेषु ) । बहुश्रुतेषु च उपाध्यायपरमेष्ठिषु च । आनुरागैकलक्षणः अनुराग एव प्रीतिरेव एकं मुख्यं लक्षणं स्वरूपं यस्य सः । भक्तियोगः, अर्हदाचार्य बहुश्रुतभक्तिभावना ॥ १५७॥ श्रुत इति । द्वादशाङ्गादिबहुभेदसमन्विते द्वादशाङ्गादिभि. " द्वादशाङ्ग चतुर्दश पूर्वादिभिर्बहुभेदैर ने कविकल्पैः समन्विते संयुक्ते । श्रुते च परमागमे च । ``भक्तियोगः, प्रवचनभक्तिभावना । अवश्यकार्याणाम् अवश्यं नियमेन कार्याणां करणीयानाम् । षण्णां षट्संख्यानाम् । क्रियाणां प्रतिक्रमणादिक्रियाणाम् । अपरिच्युतिः अपरित्यागः । षडावश्यका
43
३८१
19
प्रकारका विधिपूर्वक यथा शक्ति दान करना शक्तितस्त्याग है । ( ) सामर्थ्यको न छिपाकरयथाशक्ति कायक्लेश सहना शक्तितस्तप है ।। १५५ || ( ८ ) साधुके तपमें कहीं से विघ्न उपस्थित होनेपर उसे दूर करना साधुसमाधि है । ( ९ ) गुणी पुरुषोंके ऊपर दुःख आ पड़नेपर उसे दूर करनेके लिए उनकी सेवा शुश्रूषाका उद्यम करना - - वैयावृत्त्य है ॥ ११६ ॥ ( १०- १३ ) अरिहंतों, आचार्यों, समस्त परमागमके अर्थ से सम्बन्ध रखनेवाले सभी ग्रन्थोंकी ग्रन्थियाँ खोलनेबहुश्रुत विद्वानों अर्थात् उपाध्याय परमेष्ठियों और बारह अंग आदि नाना भेदोंवाले श्रुत — प्रवचनके विषयमें अनुराग रखना अर्हद्भक्ति, आचार्यभक्ति, बहुश्रुतभक्ति और प्रवचन भक्ति है ! ( १४ ) छह आवश्यक क्रियाओंका यथा समय करना, उनका परित्याग नहीं करना
-
१. क ख ग घ समुद्यतः । २ आ इ ग्रन्थिभेदिषु म ग्रन्थवेदिषु । ३ = प्रविभागेन । ४. एष टोकाश्रयः पाठः, प्रतिषु तु 'अगूढसामर्थ्यशरी र क्लेशलक्षणम्' इति समस्त मेकपदमुपलभ्यते । ५. = = यस्मिन् । ६. आ चारित्र्ययोनघे । ७. = तत्प्रशमनम् । ८. श करचरणयोः संवाह । ९. एष टीकाश्रयः पाठः, प्रतिषु तु क्वचिद् " ग्रन्थिभेदिषु' क्वचिद् " ग्रन्थवेदिषु' क्कचिच्च ग्रन्थभेदिषु' पाठः समुपलभ्यते । १०. आ बहुव्रतेषु । ११. श तस्य द्वाद । १२. श तस्य भक्ति । १३. श 'अवश्यं नियमेन कार्याणां’ इति नोपलभ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org