________________
- १५, १५० ]
पञ्चदशः सर्गः
आशां सुवर्णनाभस्य कुर्वस्तिष्ठ पितुः पदे । शान्तयित्वेति शोकार्त पृथिवीपालनन्दनम् || १४६ || पादानतानवज्ञाय सामन्तान्सह सूनुना । स श्रीधर मुनेरन्ते शिश्रिये भ्रमणश्रियम् ॥ १४७॥। ज्ञानर्द्धावुपजातायां सहैव व्रतरोपणैः । दीक्षा समय एवास्य शिक्षासमयतां ययौ ॥ १४८|| द्वादशाङ्गताधारो द्वादशादित्यभासुरः । प्रत्यहं बृंहयामास स द्वादशविधं तपः || १४६ ।। विधिभिर्विविधाकारैः सिंहनिष्क्रीडितादिभिः । कर्मणा सह तस्यासीत्तनुस्तनुरतन्द्रिणः ॥ १५० ॥
I
वाहनैः सहितम् । राज्यं स्वामित्वम् । युवराजाय सुवर्णनाभाय । वितीयं दत्वा || १४५ ॥ । आज्ञामिति । सुवर्णनाभस्य युवराजस्य । आज्ञाम् अनुज्ञाम् । कुर्वन् सन् । पितुः जनकस्य पृथिवोपालस्य । पदे स्थाने । तिष्ठ प्रवर्तस्व । इति एवम् शोकातं शोकेन दुःखेनातं पीडितम् । पृथिवीपालनन्दनं पृथिवीपालस्य नन्दनं तनयम् । शान्तयित्वा' संतर्पयित्वा || १४६ ।। पादेति । सूनुना तनयेन सुवर्णनाभेन । सह साकम् । पादानताब् पादयोश्चरणयोरानतान् । सामन्तान् राज्ञः । अनुज्ञायं संमतं कारयित्वा । सः पद्मनाभः । श्रीधरमुनेः श्रीधराचार्यस्य । अन्ते समीपे । श्रमणश्रियं तपोलक्ष्मीम् । शिश्रिये सिषेवे । त्रि । सेवायां लिट् । त्रिभिर्विशेषकर्म् ||१४७|| ज्ञानर्धाविति । व्रतरोपणैः व्रतानां पञ्चमहाव्रतानां रोपणैः स्वीकारैः । सदैव साकमेव । ज्ञानर्दो बुद्धधर्दों । उपजातायां सत्यां संजातायां सत्याम् । अस्य पद्मनाभमुनेः । दीक्षासमय एव दीक्षाकाल एब । शिक्षासमयतां शिक्षा कालत्वम् । ययौ जगाम । या प्रापणे । सहोक्तिः ॥ १४८ ॥ द्वादशेति । द्वादशाङ्गश्रुताधार: द्वादशाङ्गस्य द्वादशावयवस्य श्रुतस्याधार आश्रयभूतः । द्वादशादित्यभासुरः द्वादशादित्यवद् द्वादशसूर्यबद् भासुरो देदीप्यमानः । सद्वादशविधं द्वादशविधैर्द्वादशभेदैः सहितम् । तपः । प्रत्यहं प्रतिदिनम् । बृंहयामास वर्धयामास" "। बृह वृद्धौ लिट् ॥ १४९ ॥ विधिभिरिति । सिंहवि (निष् ) क्रीडितादिभिः सिंहवि ( निष् ) क्रीडितविधानमादिर्येषां तैः । विविधाकारैः विविधा अनेके आकारा भेदा येषां तैः । विधिभिः तपोभिः । व्यतन्द्रिणः आलस्यर्वाजितस्य । तस्य पद्मनाभमुनेः । तनुः शरीरम् । कर्मणा दुरितेन । सह साकम् ।
૧૨
३७९
पद्मनाभने युवराज सुवर्णनाभको पुर और वाहन सहित राज्य देकर - । 'युवराज सुवर्णनाभकी आमाका पालन करते हुए तुम अपने पिताके पदपर बैठे रहो' इन शब्दों में पृथिवीपाल के शोकाकुल पुत्र धर्मपालको शान्त करके | और सुवर्णनाभके साथ अपने चरणों में झुके हुए समस्त सामन्तोंको घर जानेकी अनुमति देकर श्रीधर मुनिके निकट जिनदीक्षा ले ली ॥१४५॥१४६॥१४७ ॥ पञ्च महाव्रत ग्रहण करनेके साथ हो ज्ञान ऋद्धि उत्पन्न हो जानेसे पद्मनाभको दीक्षाका समय हो शिक्षाका समय हुआ || १४८ ॥ द्वादशांग श्रुतको जाननेवाले और बारह सूर्यो के समान तेजको धारण करनेवाले पद्मनाभने प्रतिदिन बारह प्रकारके तपको बढ़ाना प्रारम्भ कर दिया ॥ १४९ ॥ सिंह निष्कीडित आदि व्रतोंको अनेक प्रकारकी विधियोंसे पद्मनाभका - जिसे प्रमाद
१. म सान्त्वयि । २. क ख ग घ म पदान । ३. अशभिदं । ४ = पालयन् सन् । ५. आ सान्त्वयित्वा । ६. = आज्ञाप्य । ७. आ श श्रीज् ८. आश कुलकम् । ९. श 'ज्ञानार्द्धावुन " इत्यादिपद्यस्य व्याख्या नोपलभ्यते । १०. = सः पद्मनाभः । द्वादशविधं द्वादश विधा: प्रकाश यस्य तत्, द्वादशप्रकारकमित्यर्थः । ११. श 'वर्धयामास' इति नास्ति । १२. श बहु । १३. आ 'लिट्' इति नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org