________________
चन्द्रप्रभचरितम्
भोगान्धिग्धिग्धनं धिग्धिग्धिग्धिगिन्द्रियजं सुखम् | धिग्धिक्परोपघातेन यदन्यदपि जायते ॥ १४१ ॥ हा कथं वञ्चितः पापः पापैरिन्द्रियगोचरैः । विज्ञाताखिलसंसारदुरवस्थितिरप्यहम् ॥ १४२॥ न परं बन्धनं प्रेम्णो न विषं विषयात्परम् । न कोपादपरः शत्रुर्न दुःखं जन्मनः परम् || १४३ ॥ तस्मात्करोमि तत्किचिन्नृजन्मनि सुदुर्लभे । छिन कर्मणा येन गतागतपरिश्रमम् ॥ १४४॥ दौस्थित्यमिति संचित्य संसारस्य नरेश्वरः । वितीर्य युवराजाय राज्यं सपुरवाहनम् || १४५॥
३७८
1
वीर्यं स्वाभाविकशक्तिः तच्च विभूतिः ऐश्वयं सा च तथोक्ताः । विवर्तन्ते विपर्ययन्ति । वृतुङ् वर्तने लट् ॥ १४० ॥ भोगानिति । भोगान् विषयानुभवान् धिग् धिक् । धनं द्रव्यं धिग् धिक् । दह दह ( ? ) । इन्द्रियजम् इन्द्रियैः पञ्चेन्द्रियैर्जनितम्। सुखं सातम् । धिग् धिक् । परोपघातेन परेषामन्येषामुपघातेन पीडया । यद् यत् किंचित् । अन्यदपि अपरमपि । जय संभवति । तत् । धिग् धिक् । वीप्सायां द्विः || १४१ ।। हा इति । पापः पापिष्ठः । अहम् विज्ञाताखिलसंसारदुरवस्थितिरपि विज्ञाता विदिता अखिला निखिला संसारस्य दुरवस्थितिर्दुरवस्था येन सः । पापैः कष्टः । इन्द्रियाणां गोचरैविषयेः । कथं केन प्रकारेण | वञ्चितः प्रतारितः । हा कष्टम् । आक्षेप: ( ? ) ॥ १४२ ॥ नेति । प्रेम्णः प्रीतेः । परम् अन्यत् । बन्धनम् आसञ्जनम् । न नास्ति, प्रेमैव परं बन्धनमित्यर्थः । विषयात् पञ्चेन्द्रियात् । परम् अन्यत् । विषं गरलम् । न नास्ति | कोपात् क्रोधात् । अपरः अन्यः । शत्रुः रिपुः । न नास्ति । जन्मनः जननात् सकाशात् । परम् अन्यत् । दुःखम् । न नास्ति ॥ १४३ ॥ तस्मादिति । तस्मात् कारणात् । येन कर्मणा रत्नत्रयाचरणेन । गतागतपरिश्रमं गतागतेन चतुर्गतीनां गमनागमनेन जातं परिश्रमं संतापम् । छिनद्मि भिनद्मि । छिन् विदारणे लिट् । अतिदुर्लभे लब्धुमशक्ये । नृजन्मनि मनुष्यभवे । तत् रत्नत्रयम् । किंचित् ईषत् । करोमि विदधामि । लट् ।।१४४।। दौस्थित्यमिति । नरेश्वरः नराणामीश्वरः । स्वामी पद्मनाभः । संसारस्य चतुर्गतिरूपस्य । दौस्थित्वं कष्टवर्तनत्वम् । इति एवम् संचिन्त्य संभाव्य । सपुरवाहनं पुरेण रत्नसंचयपुरेण वाहनैर्गजादि -
[ १५, १४१ -
अगले जन्म में यह मेरा हन्ता होगा । क्योंकि बल, वीर्य और विभूति ये सब इस संसार में अदलतेबदलते रहते हैं - ये किसी भी एक व्यक्तिके साथ हमेशा नहीं रहते ||४०|| भोगोंको धिक्कार है, धनको धिक्कार है, इन्द्रियोंसे उत्पन्न होनेवाले सुखको धिक्कार है, धिक्कार है और दूसरोंको मारकर जो और भी सुख होता है उसे भी बार-बार धिक्कार है || १४१ ॥ सारे संसारकी दुरवस्थाको जानकर भी हाय में इन कष्टदायी इन्द्रियोंके विषयोंसे कैसे ठग लिया गया हूँ ॥ १४२ ॥ प्रेमसे बढ़कर कोई बन्धन नहीं, विषयसे बढ़कर कोई विष नहीं, क्रोधसे बढ़कर कोई शत्रु नहीं और जन्मसे बढ़कर कोई दुःख नहीं - सबसे बड़ा बन्धन प्रेम है, सबसे बड़ा शत्रु क्रोध है और सबसे बड़ा दुःख जन्म है || १४३ || इसलिए इस दुर्लभ मनुष्य जन्ममें कुछ वह कर्म भी करलूँ, जिससे चारों गतियों या चौरासी लाख योनियोंमें बार-बार आने-जाने के परिश्रम से बच सकूँ ।। १४४ । । इस तरह संसारकी दुर्दशाका विचार करके राजा
सबसे बड़ा विष विषय है,
१. मत्रिभिः कुलकम् ( विशेषकम् ) इत्यधिकः पाठः समुपलभ्यते । २ = पञ्चेन्द्रियगोचरात् । ३. श 'येन' इति नास्ति । ४. आ दृञ् । ५ = विभाव्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org