________________
चन्द्रप्रमचरितम्
[१५, १३२ -
युद्धमूर्ध्नि शवीभूतान्बन्धूनुच्चित्य बान्धवाः । संस्कारं प्रापयामासुरिन्धनीकृतसायकाः ।।१३२।। अथ केनचिदानीय सेवकेन कृतं पुरः। पश्यन्निति शिरः शत्रोनिर्वेदमगमन्नृपः ।।१३३।। धिक्कष्टमीदृशं कर्म करोति कथमीरितः । लदम्या कुलटया लोकः क्षणरक्तविरक्तया ॥१३४।। विपत्संपदि जागर्ति जरा जागर्ति यौवने । मृत्युरायुषि जागर्ति वियोगः प्रियसंगमे ॥१३५।।
पद्मनाभः । रणं संग्रामम् । [ सं ] शोधयामास शोधयति स्म'। शुधि शौचे लिट् ॥१३१॥ युद्धेति । यद्ध मनि युद्धस्य मूनि अग्रे । शवीभूतान् विगतप्राणान् । बन्धून् बान्धवान् । इन्धनोकृतसायकाः इन्धनोकृताः काष्ठीकृताः सायका येषां ते । बान्धवाः । उच्चित्य राशीकृत्य । संग्कारं दहनम् । प्रापयामासुः यापयन्ति स्म । आप्लू व्याप्तौ लिट् ॥१३२।। अथेति । अथ दहनानन्तरम् । केनचित् एकेन । सेवकेन भत्येन । आनीय आदाय । पुर अग्रे। कृतं विहितम् । रिपोः पृथिवीपालस्य । शिर: मस्तकम् । पश्यन् वीक्षमाणः । नपः पद्मनाभः । इति वक्ष्यमाणप्रकारेण । निर्वेदं वैराग्यम् । अगमत् गच्छति । गम्ल गतौ लुङ्॥१३३॥ धिगिति । क्षणरक्तविरक्तयाँ क्षणमल्पकालं रक्तः प्रीतो विरक्तो विगतप्रीतिर्यस्याः तया । कुलटया पुंश्चल्या। लक्षया संपदा। ईरितः प्रेरितः । लोकः जनः । ईदृशम् एतादृशम् । कष्टं कृच्छम् । कर्म व्यापारम् । कथं केन प्रकारेण । करोति विदधाति । लट् । धिक् ॥१३४।। विपदिति । संपदि संपत्तौ । विपत् विपत्तिः । जागति प्राप्नोति, संपद विपदवसाना-इत्यर्थः । यौवने सति तारुण्ये सति । जरा वार्धक्यम । जागति प्राप्नोति । आयुषि सति । मृत्युः मरणम् । जागर्ति । प्रियसङ्गमे प्रियाणां मित्राणां सङ्गमे सति । विगमः
किया ॥१३१॥ युद्धभूमिके अगले भागमें मारे गये बन्धुओंको खोजकर उनके बन्धु-बान्धवोंने बाणोंकी चिता तैयार करके उनका अग्नि संस्कार किया ॥१३२॥ इसके बाद किसी सेवकने पृथिवीपालका कटा हुआ सिर लाकर राजा पद्मनाभके आगे रख दिया, जिसे देखते-देखते उसे इस प्रकार वैराग्य उत्पन्न हो गया-॥१३३॥ लक्ष्मी पूरी वेश्या है जो क्षणभर ही राग दिखलाकर विरक्त हो जाती है । इसी लक्ष्मो रूपी कुलटासे प्रेरित होकर लोग कैसे ऐसे खोटे-खोटे कर्म कर डालते हैं ? ओह धिक्कार है ! ऐसी बातोंके बारे में सोचते ही खेद होने लगता है ॥१३४॥ सम्पत्ति होनेपर विपत्ति उस ( सम्पत्ति ) का स्थान पानेके लिए जागरूक रहती है, यौवन आनेपर बुढ़ापा उसे नष्ट करनेकी ताकमें रहता है, आयु या जीवन प्राप्त होनेपर मृत्यु उसे घातनेके लिए सावधान रहती है और इष्ट समागम होनेपर उसका वियोग जागरण करता है। सम्पत्तिके बादमें विपत्ति, यौवनके बादमें बुढ़ापा, जीवनके बादमें मरण और प्रियके समागमके
१. आ बोधयामास बोधयति स्म । बुधि धातोलिट् । २. आ""यातान् । ३. = यैः । ४. श उच्छित्य । =बन्धननविष्य । ५. आ दूरोकृत्य । ६. =दाहसंस्कारम् । ७. =क्षणं स्वल्पकालं रक्ता पश्चादिरक्ता तया ८. एष टोकाश्रयः पाठः प्रतिषु तु 'लक्ष्मीकुलटया' इति समुपलभ्यते । ९. आ श दिक् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org