________________
१५,१३१]
पञ्चदशः सर्गः
។
स चक्राणि विचिक्षेप क्षेपेण रहितो रुषा । तानि सौवर्णमालश्च चूर्णयामास मुद्गरैः || १२७॥ शक्ति शक्तित्रयाक्रान्तविष्टपो विससर्ज सः । गदाभिघातैस्तां वन्ध्यां व्यधाद्रत्नपुराधिपः ॥ १२८॥ परशुं वाहयामास कृत्वासन्नं स दन्तिनम् | वनकेलिवरेणासौं वज्रमुष्ट्या कणीकृतः । १२९|| ततो मुमुक्षतः शङ्कु तस्य सोमप्रभाप्रियः । चञ्चचक्रेण चिच्छेद कदलीकन्दवच्छिरः ॥१३०॥ विद्रुते विद्विषां सैन्ये विलोक्य पतनं प्रभोः । रणं संशोधयामास वनकेलिशिरः स्पृशन् || १३१||
3
E
९
स इति । क्षेपेण कालविलम्बेन । रहितः विरहितः । स पृथिवीपालः । रुषा कोपेन । चक्राणि चक्रायुधानि । विचिक्षेप क्षिपति स्म । सौवर्णमाल: सुवर्णमालाया अपत्यं * पद्मनाभश्च । मुद्गरैः अयोदण्डैः । चूर्णयामास विषयामास ( ? ) | लिट् ॥ १२७ ॥ शक्तिमिति । शक्तित्रयाक्रान्तविष्टप: शक्तीनां प्रभुशक्त्यादीनां त्रयेणाक्रान्तं व्याप्तं विष्टपं जगद् यस्य सः । सः पृथिवीपालः । शक्ति शक्त्यायुधम् । विससर्ज चिक्षेप । सृज विसर्गे लिट् । रत्नपुराधिपः रत्न पुरस्याधिप पद्यनाभः । गदाभिघातैः दण्डाघातैः । तां शक्तिम् । वन्ध्यां निष्फलाम् । व्यधात् अकरोत् । डुधान् धारणे च लुङ् । । १२८ । परशुमिति । सः पृथिवीपालः । दन्तिनं गजम् । आसन्नं समीपम् । कृत्वा विधाय । परशुं वाहयामास आनयामास । वहि प्रापणे णिजन्ताल्लिट् । असौ परशुः । वनकेलिवरेण वनकेलिगजस्य वरेण प्रभुणा पद्मनाभेन । वज्रमुष्ट्या' वज्रमुष्ट्यायुधेन । कणीकृतः चूर्णीकृतः ॥ १२९ ॥ तत इति । ततः पश्चात् । शङ्कु शल्यायुधम् । मुमुक्षतः मोक्तुमिच्छो: । तस्य पृथिवीपालस्य । शिरः मस्तकम् । सोमप्रभाप्रियः सोमप्रभाया देव्याः प्रियो दयितः पद्मनाभः । चञ्चच्चक्रेण चञ्चता प्रज्वलता चक्रेण चक्रायुधेन । कदलोकन्दवत् कदल्या रम्भायाः कन्दवद् मूलवत् । चिच्छेद छिनत्ति स्म । छिन, ' विदारणे लिट् ॥१३०॥ विद्रुत इति । प्रभो स्वामिनः । पतनं मरणम् । विलोक्य वीक्ष्य । विद्विषां शत्रूणाम् । सैन्ये सेनायाम् । विद्रुते पलायिते सति । वनकेलिशिरः वनकेलिंगजस्य शिरोमस्तकम् । स्पृशन् आस्फालयन् । पर्वत के समान निष्क्रम्प था और जिसका चेहरा पूर्णचन्द्रके समान निर्मल था, अर्धचन्द्राकार बाणोंसे पृथिवीपालके भालोंको काट डाला - ॥ १२६ ॥ फिर पृथिवीपालने क्रुद्ध होकर शीघ्र ही चक्र फेकना शुरू कर दिया, जिन्हें सुवर्णमाला के पुत्र पद्मनाभने मुद्गरोंसे चूर-चूर कर डाला ॥ १२७॥ फिर पृथिवीपालने - जिसकी प्रभु, मन्त्र और उत्साह इन तीन शक्तियोंकी चर्चा सारे संसार में होती थी— शक्ति नामक आयुध चलाना शुरू कर दिया, किन्तु उसे भी रत्नपुरके स्वामो पद्मनाभने गदाके प्रहारसे निष्फल कर दिया ।। १२८ ॥ पृथिवीपालने अपने हाथीको पासमें ले जा करके पद्मनाभके ऊपर परशुका प्रहार किया, जिसे वनकेलि नामक हाथी के स्वामी - पद्मनाभने वज्रमुष्टि नामक अस्त्रसे चूर-चूरकर डाला || १२९|| इसके उपरान्त पृथिवीपाल शंकु नामक अस्त्र छोड़ना ही चाहता था, पर सोमप्रभा के पति पद्मनाभने सिरको अपने चमकदार चक्र से केलेकी जड़की तरह काट डाला ॥ १३० ॥ अपने स्वामी पृथिवीपालका पतन देखकर शत्रुओं की सेना भाग गयी । फिर पद्मनाभने वनकेलिका सिर थपथपाते हुए युद्धभूमिका संशोधन - निरीक्षण
३७५
२. अ क ख ग घ
१. क ख ग घ मनसुराधिपः । केलिधरेणासौ, इनवकेलिवरेणासौ । ३. श 'विरहित:' इति नोपलभ्यते । ४. पुमान् । ५. = येन । ६. आ रत्नसुराधिपः रत्नसुरस्याधिपः । ७. आ आनयति स्म । ८ आ 'वज्रमुष्टघा' इति पदं नास्ति । ९. आ छिदिर् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org