SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभचरितम् [१५, १२२ - तच्छस्त्रकौशलालोकविनिश्चलविलोचनम् । भुवि भूमिभुजां सैन्यं तस्थौ दिवि दिवौकसाम् ॥१२२।। चलनैर्वलनैः स्थानैवल्गनैमर्मवञ्चनः । तयोरभूद्धनुर्युद्धं हप्तदोर्दण्डचण्डयोः॥१२३।। यान्यानमुश्चतारातिनिष्ठितशरः शरान् । रोपैरर्धागतानेव पद्मनाभो लुलाव तान् ॥१२४।। शिलोमुखैरजय्योऽयं धनुर्वेदविशारदः । इति मत्वाक्षिपत्प्रासान्स प्रयासविवर्जितः ।।१२५।। खण्डयामास तानधेचन्द्रेश्चन्द्रोज्ज्वलाननः । गुरुः सुवर्णनाभस्य सुवर्णाचलनिश्चलः ॥१२६॥ अदृश्यन्त अवेक्ष्यन्त' । दृy प्रेक्षणे कर्मणि लङ । उपमा [उत्प्रेक्षा] ॥१२१॥ तदिति । तच्छस्त्रकोशलालोकविनिश्चलविलोचनं तयोः पद्मनाभपृथिवीपालयोः शास्त्राणां बाणानां कौशलस्य' प्रौढत्वस्य आलोके वीक्षणे निश्चले निष्पन्दे विलोचने नयने यस्य तत् । भूमिभुजां भूपानाम् । सैन्यं सेना। भुवि भूमो । तस्थौ तिष्ठति स्म । लिट् । दिवौकसां देवानाम् । सैन्यम् । दिवि गगने । तस्थौ । दीपकम् ॥१२२।। चलनैरिति । दृप्तदोदण्डचण्डयोः दृप्ताभ्यां गविताभ्यां दोर्दण्डाभ्यां भुजदण्डाभ्यां चण्डयोबलिष्ठयोः । तयोः भूपयोः । चलनैः स्थानान्तरंगमनैः । वलनैः पर्यटनैः । स्थानः स्थितिक्रियाभिः । वलनैः [ वल्गनैः 1 लङ्कनक्रियाभिः । मर्मवञ्चनैः मर्मणो मर्मस्थानस्य वञ्चनैः प्रतारणः । धनुयुद्धं चापयुद्धम् । अभूत् अभवत् । लुङ। जातिः ॥१२३।। यानिति । अनिष्ठितशराः अनिष्ठिता अक्षयाः शरा बाणा यस्य सः। अरातिः शत्रुः । यात् यान् कांस्कान् । शरान बाणान् । अमुञ्चत अमुचत् । लङ । अर्धगतानेव अर्धगतपर्यन्तम् आगतानेव । तान शरान् । पद्मनाभः पद्मनाभभूपतिः। रोपैः बाणः । लुलाव छिनत्ति स्म ॥१२४ । शिलीमुखैरिति । धनुर्वेदविशारद: धनुर्वेदे धनुविधायां विशारदो निपुणः । अयं पद्मनाभः । शिलीमुखैः शरैः । अजय्यः जेतुमशक्यः । 'क्षय्यजय्यौ शक्तौ' इति साधुः। इति एवं मत्वा प्रयासविजितः प्रयासेन श्रमेण विजितो रहितः। स पृथिवीपालः । प्रासान् कुन्तान् । अक्षिपत् प्रेरितवान् । क्षिप प्रेरणे लङ् ॥१२५।। खण्डयामासेति । चन्द्रोज्ज्वलाननः चन्द्रवदुज्ज्वलं भासमानमाननं मुखं यस्य सः । सुवर्णाचलनिश्चलः सुवर्गाचल इव महामेरुवद् निश्चलो निष्कम्पः । सुवर्णनाभस्य युवराजस्य । गुरुः पिता पद्यनाभः । तान् कुन्तान् । अर्धचन्द्रः अर्धचन्द्राकारबाणः । खण्डयामास खण्डयति स्म । खडुङ मन्थे णिजन्ताल्लिट् । उपमा ।।१२६।। गया हो ॥१२१॥ उनके शस्त्रकौशलको देखकर पृथ्वीपर गजाओंका सैन्य और आकाश में देवोंका वृन्द अपलक दृष्टि होकर खड़ा था ॥१२२॥ सगर्व भुजबलसे युक्त और क्रुद्ध दोनों राजाओंका धनुयुद्ध हुआ, जो, स्थान बदलने, मुड़ने, एक स्थानपर खड़े रहने, लाँघने और मर्म स्थल की सुरक्षाके लिए एक-दूसरेको छकानेकी दृष्टिसे दर्शनीय था ॥१२३॥ पृथिवीपालके बाण जहाँ तक पहुंचना चाहिए वहाँ तक नहीं पहुंच रहे थे; क्योंकि वह जिन बाणोंको छोड़ता था वे आधे मार्ग तक ज्यों ही पहुँचते थे त्यों ही पद्मनाभ उन्हें अपने बाणोंसे काट डालता था ॥१२४॥ 'यह पद्मनाभ धनुर्विद्यामें प्रवीण है, अतः बाणोंसे जीतने योग्य नहीं है।' यह सोचकर पृथिवीपालने उसके ऊपर भाले फेकना शुरू कर दिया। इससे वह उस प्रयाससे मुक्त हो गया, जो प्रत्यञ्चा खोंचने में करना पड़ रहा था ॥१२५॥ सुवर्णनाभके पिता पद्मनाभने, जो सुमेरु १. आ आवेक्ष्यन्त । २. आ दृशिर् । ३. आ लिट् । ४. आ 'उपमा' इति नोपलभ्यते। ५. = नैपुज्यस्य । ६. श ग्रामान्तरग । ७. = अर्धमार्गपर्यन्तम् । ८. = चिक्षेप । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy