________________
- १५, १२१] पञ्चदशः सर्गः ।
३७३ तदस्मिन्नप्रमत्तेन प्रहर्तुं स्वयमुत्थिते । योद्धव्यं स्वामिना नायमवज्ञाविषयो रिपुः ॥११७॥ इति मन्त्रिगिरं कृत्वा हृदये दयितामिव । बभूव संमुखं शत्रोः सजीकृतशरासनः ।।११८।। पादरक्षसमूहेन परिवारितकुञ्जरो। तावभीयतुरन्योन्यमनन्यसमविक्रमी ।।११९।। उभावुभयमायोद्धं निषिध्य बलमुद्यतम् । दादेकाकिनावेव प्रारंभाते महाहवम् ।।१२०॥ शिलीमुखशतैश्छन्नास्तयोस्तिर्यग्विसर्पिभिः।
अदृश्यन्त दिगाभोगाः पतदुल्कोत्करा इव ॥१२१॥ श्रूयते आकर्ण्यते । श्रु श्रवणे कर्मणि लिट् । जातिः ॥११६।। तदिति । तदस्मिन् तदेतस्मिन् पृथिवीपाले । प्रहर्तुं प्रहरणाय । स्वयं स्वस्मिन । उपस्थिते आयाते सति । अप्रमत्तेन प्रमादरहितेन । स्वामिना स्वया । योद्धव्यं युद्धं कर्तव्यम् । अयम् एषः। रिपुः शत्रुः। अवज्ञाविषयः अवज्ञाया उदासीनस्य विषयो गोचरः । न भवति ॥११७।। इतीति । इति एवम् । मन्त्रिगिरं मन्त्रिणां सचिवानां गिरं वाणीम् । दयितामिव वनितामिव । हृदये चित्ते । कृत्वा विधाय। सज्जीकृतशरासनः सज्जीकृतं संनद्धीकृतं शरासनं चापं येन सः । शत्रो: रिपोः । संमुखः अभिमुखः । बभूव भवति स्म। लिट् ॥११८।। पादेति । पादरक्षसमूहेन पादानां गजपादानां रक्षाणां रक्षकाणां भटानां समहेन निकरेण । परिवारितकुञ्जरौ परिवारितो परिवृतौ गजो ययोस्तो । अनन्यसमविक्रमः अनन्यसमः अन्यसमान रहितो असाधारणेति विक्रमः पराक्रमो' ययोस्तो। तो पद्मनाभपथिवीपालो । अन्योन्यं परस्परम । अभीयतः अभिजग्मतुः ॥११९॥ उमाविति । उभौ द्वौ भपालो। आयोधम आसमन्ताद योधनाय । उद्यतम उद्यक्तम । उभयं द्वयम् । बलं सेनाम। निषिध्य निवार्य। दति गात् । एकाकिनावेव असहायावेव । 'एकादाकिंश्चासहाये' इति आकिन्-प्रत्ययः । महाहवं महायुद्धम् । प्रारेभाते उपचक्रमाते । रभि राभस्ये लिट् । प्रथमपुरुषद्विवचनम् ॥१२०॥ शिलीमुखेति । तियग्विसपिभिः तिर्यग्ररूपेण गच्छद्भिः। तयोः भूपयोः। शिलोमुखशतैः शिलीमुखानां बाणानां शतैरनेकैः । छन्नाः व्याप्ताः । दिगाभोगाः दिशां ककुभामाभोगाः समूहाः । पतदुल्कोत्करा इव पतन् उल्कानामुत्करः समूहो येषां त इव ।
कपटोंका घर है-पूरा चार सौ बीस है, ऐसा सुना जाता है-॥११६॥ यह स्वयं आपके ऊपर प्रहार करनेके लिए-आपसे लड़नेके लिए उपस्थित हुआ है। अतः इसके साथ आपको बड़ी सावधानीसे युद्ध करना चाहिए ? यह शत्रु उपेक्षा करने योग्य नहीं है ।।११७॥ इस प्रकारको मन्त्रियोंकी वाणीको, जो प्रियाके समान प्यारी थी, हृदयमें रखकर, एवं धनुषको सजाकर पद्मनाभ शत्रुके सामने जा पहुँचा ॥११८॥ असाधारण पराक्रमको धारण करनेवाले वे दोनों आमने-सामने आ गये। दोनों हाथियोंपर सवार थे, और दोनोंके हाथियोंके पैरोंके पास बहुतसे रक्षक खड़े हुए थे ॥११९॥ यों दोनोंकी सेनाएं युद्ध करनेके लिए तैयार थीं, पर उन्हें रोककर दोनों राजोंने-जिन्हें अपने पराक्रमपर गर्व था- अकेले ही घोर संग्राम शुरू कर दिया ॥१२०॥ दोनोंके तिरछी गतिसे फैलनेवाले सैकडों बाणोंने सारी दिशाओंके मध्यभागको भर दिया। उस समय वह ऐसा दष्टिगोचर हो रहा था मानो गिरती हई उल्काओंके समहसे घिर
१. अ पादरक्षा। २. = औदासीन्यस्य । ३. टोकायां पद्यमिदं पूर्व व्याख्यातं तदनन्तरं तदस्मिनित्यादि ( ११७)। ४. = अन्येन समोऽन्यसमो नान्यसमोऽनन्यसमोऽसाधारण इत्यर्थः । ५. श पराक्रमः शक्तिः । ६. श एकाकिनामेवासहायानामेव । ७. = येषु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org