SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ३७३ चन्द्रप्रमचरितम् [१५, ११२परंतपस्तडिद्वक्त्रं चित्राङ्गः सिंहविक्रमम् । विजिग्ये वरुणं कण्ठश्चन्द्रकीति सुकुण्डलः ॥११२।। अन्येऽपि रिपुपक्षस्था राजानो ये डुढौकिरे। ते पद्मनाभसामन्तैः कृता भग्नमनोरथाः ॥११३।। अत्रान्तरे क्रुधाधावत्स्वयमेव महाबलः। पृथिवीपालभूपालः करालीकृतलोचनः ।।११४॥ तमसाधारणैश्चिह्नः प्रत्यभिज्ञाय मन्त्रिणः । पद्मनाभमिति स्थित्वा कर्णमूले व्यजिशपन् ।।११।। देव कोऽप्ययमत्यन्तममानुषबलः खलः। . श्रूयते पृथिवीपालः समस्तकपटालयः ॥११६।। परमिति । परंतपः राजा। तडिद्वक्त्रं तडिद्वक्त्रराजम् । चित्राङ्गः चित्राङ्गनामा राजा । सिंहविक्रमनामानम् । कण्ठः कण्ठसंज्ञः । चन्द्रकीर्ति चन्द्रकीर्तिनामानम् । सुकुण्डल: सुकुण्डलाख्यः। विजिग्ये जयति स्म । जि जिं अभिभव लिट् । 'जे लिंट सनि' इति कवर्गादेशः । यथासंख्यालङ्कारः ॥११२॥ अन्य इति । रिपुपक्षस्थाः रिपोः शत्रो: पक्षस्थाः सहाये तिष्ठन्तः । अन्येऽपि शेषा अपि ये केचित् । राजानः भूपाः । डुढौकिरे' युयुधिरे। लिट् । ते सर्वे । पद्मनाभसामन्तैः पद्मनाभपक्षस्थभूपैः । भग्नमनोरथा: भग्नोऽवदितो मनोरथो जयाभिलाषो येषां ते। कृताः विहिताः ॥११३॥ अत्रेति । अत्रान्तरे अत्रावसरे । महाबल: महद् बलं शौर्य यस्य सः । करालीकृतलोचनः करालीकृते भयंकर विहिते लोचने नयने यस्य सः । पृथिवीपालभूपालः पृथिवीपालभूपः। स्वयमेव असहाय एव । क्रुधा कोपेन । अधावत् शीघ्रमगच्छत् । जातिः ॥११४॥ तमिति। मन्त्रिणः सचिवाः। असाधारणैः असामान्यैः । चिह्नः पताकादिचिह्नः। तं पृथिवीपालम् । प्रत्यभिज्ञाय विज्ञाय । कर्णमूले तस्य श्रोत्रसमीपे । स्थित्वा आसित्वा । पद्मनाभं" पद्मनाभभूपतिम् । इति वक्ष्यमाणप्रकारेण । व्यजिज्ञपन् विज्ञापयन्ति स्म'' ॥११५॥ देवेति । देव भो स्वामिन् । अत्यन्तम् अधिकम् । अमानुषबल: अमानुषं देवसंबन्धं बलं सामर्थ्य यस्य सः। खलः धूर्तः । कोपी कोपवान् । अयम् एषः । समस्तकपटालयः समस्तानां सर्वेषां कपटानां व्याजानामालयो निलय इति । पृथिवीपालः पृथिवोपालनृपः । विजयसे उस समय उसकी आँखोंसे हर्षाश्रु प्रवाहित हो रहे थे। ॥१११॥ परन्तपने तडिद्वक्रको, चित्रांगदने सिंहविक्रमको, कण्ठने वरुणको और सुकुण्डल राजाने राजा-चन्द्रकीर्तिको जीत लिया ॥११२॥ शत्रुपक्षके और भी जो राजे लड़नेके लिए सामने आये, पद्मनामके सामन्तोंने उनकी आशाओंपर पानी फेर दिया-उन्हें पराजित कर दिया और उनके मनोरथको भग्न कर दिया ॥११३॥ इस अवसरपर महाबली पृथिवीपाल स्वयं लड़नेके लिए दौड़ता हुआ आया। उसकी आँखें क्रोधके कारण बड़ी भयंकर दिख रही थीं ॥११४॥ असाधारण चिह्नोंसे उसे पहचान" कर-मन्त्रियोंने पद्मनाभके निकट जाकर उसके कानमें यों निवेदन किया-॥११५॥ हे राजन् ! यह पृथिवीपाल बड़ा क्रोधी है, अत्यधिक दैवबलसे सम्पन्न है, धूर्त है और सभी प्रकारके १. अ कन्तुश्च। २. क ख ग घ सकुण्डलः । ३. क ख ग घ म स्तूयते । ४. = परंतपनामा । ५. टीकाकृता पूर्व 'तडिद्वक्त्रं' ततः 'परंतपः' पदं व्याख्यातम् । ६. =संयुगे समायाताः । ७. = भयंकरे विहिते। ८. = त्वरितमायातः । ९. आ विज्ञाय इति नास्ति । १०. आ 'पद्मनाभं' इति नास्ति । ११.श तस्य व्यजिज्ञपत् विज्ञापयति स्म । १२. = दिव्यं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy