SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् [१५, १०२ - नीचोचितां समाकर्ण्य तदीयामिति भारतीम् । जगाद युवराडित्थं धनुर्ध्यामास्पृशन्मुहुः ॥१०२।। किमेभिरधमालापैर्मातुश्चापलसूचनैः। अस्ति कोऽप्यभिमानश्चेड्ढौकस्वालं विलम्बनः॥१०३।। गदितु युज्यतेऽस्माकं न भवद्भाषितं वचः।। तुलयन्ति महान्तो हि नात्मानमधमैः समम् ।।१०४॥ स्वरेव दुर्नयैः पापाः पच्यन्ते येन दुर्जनाः । विभाषमाणान्सुजनस्तेन तानवमन्यते ॥१०॥ इत्यालापर्युवेशस्य मानवानपमानितः । अलक्ष्यमोक्षसंधानान् स रोषादमुचच्छरान् ।।१०६।। "आक्षेपः ॥१०१।। नीचेति । नीचोचितां नीचस्य निकृष्टस्योचितां विहिताम् । तदीयां धर्मपालसंबन्धाम् । इति एवम् । भारती वचनम् । समाकर्ण्य श्रुत्वा । धनु| धनुषश्चापस्य ज्यां मौर्वीम् । आस्पृशन् झङ्कार कुर्वन् । युवराट् सुवर्णनाभः । मुहुः पश्चात् । जगाद अब्रवीत् । गद व्यक्तायां वाचि लिट् ॥१०२॥ किमिति । मातुः जनन्याः । चापलसूचनैः चापलस्य चञ्चलस्य सूचनैर्दशयमानः । एभिः एतैः। अधमालाप: अधर्मनिकृष्टरालापर्वचनैः । किं कि प्रयोजनम् । कोऽपि कश्चिदपि । अभिमान: गर्वः । अस्ति चेत् वर्तते चेत् । ढोकस्व आगच्छ। लोट । विलम्बनः कालक्षेपैः । अलं पर्याप्तम् ॥१०३।। गदितुमिति । भवद्भाषितं भवता त्वया भाषितमुक्तम् । वचः वचनम् । अस्माकम् । गदितुं वक्तुम् । न युज्यते न प्रयुज्यते । महान्तः महापुरुषाः । अधमैः नीचैः । समं सह। आत्मानं स्वम् । न तुलयन्ति'' नोपमयन्ति। तुलान् इति सुब्धातुः । अर्थान्तरन्यासः ॥१०४॥ स्वैरिति । येन कारणेन । पापाः'धूर्ताः । दुर्जनाः खलाः । स्वैः स्वकीयैः । दुर्नयः दुर्नीतिभिरेव । पच्यन्ते दह्यन्ते । डुपचोष् पाके कर्मणि लट् । तेन कारणेन । विभाषमाणान् विरुद्धं जल्पतः । तान् दुर्जनान् । सुजनः सत्पुरुषः। अवमन्यते उदासीनं करोति । १०५।। इतीति । युवेशस्य सुवर्णनाभस्य । इति एवं प्रकारैः। आलापै वचनैः । अपमानितः भङ्गितः। मानवान् अभिमानवान् । स धर्मपालः । अलक्ष्यमोक्षसंधानान अलक्ष्ये लक्षयितुमयोग्ये मोक्षो मोचनं संघानं स्वीकरणं च येषां तान्'४ । शरान बाणान् । सब मिलकर के भी मेरे आगे टिक सकते हो तो ठहरो ( अभी मजा चखाते हैं ) ॥१०१॥ नीच पुरुषके योग्य उसके इन वचनोंको सुनकर युवराज सुवर्णनाभ अपने धनुषकी डोरीका बार-बार स्पर्श करता हुआ यों बोला-॥१०२।। मा की चपलताको सूचित करनेवाले इन नीच मनुष्यों के योग्य वचनोंसे क्या लाभ ? यदि शक्तिका अभिमान है तो आओ, अब विलम्ब न करो॥१०३।। आपने जो वचन कहे हैं, वे हमारे कहने योग्य नहीं हैं। क्योंकि महान् पुरुष अपनेको नीचोंजैसा नहीं बनाना चाहते ।।१०४।। चूंकि पापी दुर्जन लोग अपनी ही दुर्नीतिसे जला करते हैं, इसलिए यद्वा तद्वा बोलनेवाले उन लोगोंकी सज्जन लोग उपेक्षा कर दिया करते हैं ॥१०॥ युवराज सुवर्णनाभके इन वचनोंसे अपमानित होकर अहंकारी धर्मपालने रोषपूर्वक दनादन बाण मारना शुरूकर दिया। वह इतनी शोघ्रतासे बाण बरसा रहा था, कि दर्शकोंको उनके १. आ इ क ख ग घ म मामृशन् । २. अ सह । ३. इवमान्यते । ४. = धर्मपालसंबन्धिनीम । ५. आ आमशन् । ६. = चपलतायाः । ७. श दर्शमानैः। ८. श लेट् । ९. श 'सह' इति नास्ति । १०. -न समीकुर्वन्ति । ११. = पापिनः। १२. = अवजानाति समुपेक्षते वा। १३. = अवज्ञातः । १४. श त एषां तान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy