________________
३६९
- १५, १०१]
पञ्चदशः सर्गः कृत्स्नमायासितं दृष्ट्वा सामन्तकुलमाकुलम् । सुवर्णनाभोऽभिमुखीबभूव रिपुषस्मरः ॥९७॥ तं वाहितरथं वीक्ष्य धमपालो ज्वलन्क्रुधा । विव्याधेति वचोबाणरधिक्षेपविषोक्षितैः ॥१८॥ अपसर्प प्रयाहीतः किं पुरो धृष्ट तिष्ठसि ।। भवद्विधे न मदाहुः प्रहर्तुमयमिच्छति ॥९९।। ननमिच्छति नो जेतुं भवतैव भवत्पिता। त्वन्मतेनान्यथा कस्मात्करोत्यसमविग्रहम् ॥१००।। कस्त्वं भीमरथः को वा कियन्मात्रः स ते पिता। संभूय मेऽग्रतः सर्वे यदि शक्नुथ तिष्ठथ ॥१०१॥
राजकं राज्ञां समूहः । संचुकोच स्थगति स्म । कुच संकोचने लिट् । श्लेषोपमा ॥९६॥ कृत्स्नमिति । आयासितं संजातप्रयासम् । 'सञ्जातं तारकादिभ्य इतः' इति इत-प्रत्ययः । आकुलं व्याकुलत्वयुतम् । कृत्स्नं सकलम् । सामन्तकुलं सामन्तानां राज्ञां कुलं निवहम् । दृष्ट्वा विलोक्य । रिपुघस्मरः रिपूणां शत्रूणां घस्मरो विनाशकः । 'मक्षको घस्मरोऽद्मरः' इति । तस्य । सुवर्णनाभो युवराजः । अभिमुखीबभूव संमुखो भवति स्म। प्रागनभिमुख इदानीमभिमुखो बभूवेति तथोक्तः ।।९७॥ तमिति । क्रुधा कोपेन । ज्वलन् प्रज्वलन् । धर्मपालः पृथिवीपालपत्रः । वाहितरथं वाहित आरूढो रथो येन तम : तं सूवर्णनाभम् । वीक्ष्य दृष्टवा । अधिक्षेपविषोक्षितैः अधिक्षेप एव तिरस्कार एव विषं तेन उक्षितैः संसिक्तः । वचोबाणर्वचांस्येव बाणास्तैः। इति वक्ष्यमाणप्रकारेण । विव्याध विध्यते स्म । व्यधोष भयचलनयोः ( व्यध ताडने ) लिट् ॥९८॥ अपेति । धृष्ट भो धूर्त ! अपसर्प अपसर। इत एतस्मात्प्रदेशात् । प्रयाहि गच्छ। या प्रापणे लेट् । पुरः अग्रे। किं किं निमित्तम् । तिष्ठसि वर्तसे । अयम् एषः । मबाहुः मम बाहुर्भुजः। भवद्विधे भवतस्तव विधे सदशे । प्रहर्तुं प्रहरणाय । नेच्छति न वाञ्छति । इषु इच्छायां लट् । 'यमामिषोशिशच्छः' इति च्छादेशः ॥९९॥ नूनमिति। भवतैव त्वयैव । भवत्पिता भवतस्तव पिता. जनकः । नः अस्मान् । जेतुं जयनाय । इच्छति वाञ्छति । नूनं निश्चयम् । अन्यथा नो चेत् । असमविग्रहम् असमेन समान (ता) रहितेन, बलिनेत्यर्थः । विग्रहं संग्रामम् । त्वन्मतेन तवानुमतेन । कस्मात् कारणात् । करोति विदधाति । लट् । अनुमितिः ॥१००। क इति । त्वं भवान् । कः कियान् । भीमरथः को वा कियान् । सः। ते तव । पिता जनकः। कियन्मात्रः कियत्प्रमाणः । यदि शवनुथ समर्था भवन्ति चेत् । सर्वे यूयम् । संभूय मिलित्वा । मे मम। अग्रतः अग्रे। तिष्ठथ अ
म् ।
__13
है ॥६६॥ समस्त सामन्तोंका समूह थक कर चूर हो गया और घबरा गया, यह देखकर शत्रुओंका संहार करनेवाला सुवर्णनाभ सामने आया ।।१७। अपने रथको आगे बढ़वानेवाले सुवर्णनाभको देखकर धर्मपाल क्रोधसे जल उठा, और आक्षेपके विषसे सिञ्चित वचन-बाणोंसे उसे वींधनेको उद्यत हो गया-1॥९८।। अरे ढीठ ! जा, यहाँसे भाग, सामने क्यों खड़ा हुआ है ? मेरा बाहु तुझ सरीखे (क्षुद्र) व्यक्तिपर प्रहार नहीं करना चाहता ॥९९।। जान पड़ता है तेरा बाप पद्मनाभ तेरे बूतेपर ही हमें जीतना चाहता है। अन्यथा वह तेरो सलाहसे अपनेसे बड़ोंके साथ युद्ध क्यों करता? ॥१००॥ मेरे सामने तू कौन होता है ? भोमरथ कौन होता है ? और वह तेरा बाप भी मेरे आगे क्या है ? यदि तुम
१. =श्रान्तमित्यर्थः । २. आ इतन् । ३. =प्रापितः । ४. आ सिक्तः । ५. आ व्यदिष । ६. 'धष्टस्तु वियातो धृष्णुधृष्णजौ' अभिधान०। ७. = लोट् । ८. = निश्चितम् । ९. श अतुल्येनेत्यर्थः । १०. = तवानमत्या। ११. आ भवतश्चेति । १२. आ श तिष्ठत । १३. श 'आध्वम' इति नास्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org