________________
३६८
चन्द्रप्रमचरितम्
सप्रहारं तमादाय सारथिर्ववले बले । सुरमुक्तानि पुष्पाणि पेतुर्माहीरथे रथे ॥१३॥ ततः कलकलारावबधिरोकृतदिङ्मुखम् । डुढौके धर्मपालेन पृथिवीपालसूनुना ॥१४॥ वपुः कोपारुणं बिभ्रद्धृतदिव्यशरासनः । सवर्षशरधाराभिर्धनः सांध्य इवाबभौ ॥१५॥ संभूयाभिमुखीभूतं बलिनस्तस्य राजकम् । शरवर्घनस्येव संचुकोच गवां कुलम् ॥१६॥
चञ्चच्चामीकरच्छवी चञ्चतो देदीप्यमानस्य चारोमनोहरस्य चामीकरस्येव सुवर्णस्येव छविः कान्तिर्यस्य तस्मिन् । तदीयोर:स्थलस्थाले तदीयस्य सूर्यरथसंबन्धस्य उरसो वक्षसः स्थलमेव प्रदेश एव स्थालं भाजनं तस्मिन् । शिलीमुखं बाणम । निचखान चिक्षेप । खना अवदारणे लिट् । रूपकम् ॥९२।। सेति । सारथिः क्षत्ता । सप्रहारं क्षतेन युक्तम् । तं सूर्यरथम् । आदाय उद्धृत्य । वले सेनायाम् । वावले (ववले ) पुनराजगाम । वलि संवरणे लिट् । सूरमक्तानि सूरैर्देवैर्मक्तानि वर्षितानि पुष्पाणि कुसमानि । माहीरथे महीरथसंबन्धे । रथे स्यन्दने । पेतुः पतन्ति स्म । पत्लु गतौ लिट् ॥९३॥ तत इति। ततः पश्चात् । पृथिवीपालसूनुना पृथिवीपालस्य सूनुना कुमारेण । धर्मपालेन धर्मपालनामयुतेन । कलकलारावबधिरीकृतदिङ्मुखं कलकलेन कलकलरूपेण आरावेण शब्देन बधिरोकृतमेडीकृतं दिशां मुखं यस्मिन् कर्मणि तत् । डुढोके रुरुधे । ढोकृञ् गतौ कर्मणि लिट् । जातिः ॥९४।। वपुरिति । कोपारुणं कोपेन रोषेणारुणं लोहितवर्णयुतम् । वपुः शरीरम् । बिभ्रत् धरन् । धृतदिव्यशरासन: धृतं दिव्यं दिव्यरूपं शरासनं धनुर्येन सः । सः धर्मपालः । शरधाराभिः शराणां बाणानां धाराभिः पक्तिभिः, जलधाराभिश्च । 'शरं वनं घनं तोयं नीरं जीवनमविषम् सेचयन् । सान्ध्यः सन्ध्यायां भवः । घन इव मेघ इव । आबभौ भातिस्म । भा दीप्ती लिट् । उपमा । ९५।। संभूयेति । घनस्य मेघस्य । शराणां जलानाम् । वर्षेः । गवां धेननाम् । कुलं यूथमिव । बलिनः पराक्रमयुतस्य । तस्य धर्मपालस्य । शरवर्षेः शराणां बाणानां वर्षेः । संभूय मिलित्वा । अभिमुखीभूतं संमुखमायातम् ।
स्वर्णके समान कान्ति धारण करनेवाले वक्षस्थलरूपी थालमें एक बाण ठोक दिया ॥९२।। घायल हुए सूर्यरथको लेकर सारथी उसकी सेनामें चला गया, और इधर महीरथके रथपर देवोंने पुष्प वृष्टि की ॥६३॥ इसके उपरान्त 'कल-कल' शब्दसे सारी दिशाओंको बहरा बनाता हुआ, पृथिवीपालका पुत्र धर्मपाल सामने आया ॥६४॥ जिस प्रकार इन्द्रधनुषको धारण करनेवाला संध्याकालीन लाल मेघ जल बरसाकर सुशोभित होता है। उसी प्रकार क्रोधके कारण लाल शरीर वाला, सुन्दर धनुषको धारण करनेवाला और बाणोंकी बरसा करनेवाला धर्मपाल सुशोभित हो रहा था ॥९॥ राजाओंका सङ्घटित वर्ग बलवान् धर्मपालका मुकाबला करनेके लिए सामने आया, किन्तु उसकी बाण वर्षाके सामने टिक न सका, चुपकेसे भाग गया। जैसे मेघसे जल गिरनेपर गायोंका झुण्ड सिकुड़कर इधर-उधर भाग जाता
१. अ मरमुक्तानि । २. = तत्संबन्धिनः । ३. आ अवधारणे । ४. = वृष्टानि । श 'वर्षितानि' इति पदं नास्ति । ५. = महीरथसंबन्धिनि । ६. 'शरं वनं कुशं नीरं तोयं जीवनमविषम' इति धनञ्जयः । ७. =विकिरन, पक्षे सिञ्चन् । ८. = उत्प्रेक्षा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org