________________
पञ्चदशः सर्गः क्रोधस्तदङ्गे यापूर्व मनाक्सुप्त इव स्थितः । गाढारातिप्रहारेण स प्रबुद्धः 'क्षणादभूत् ॥८८।। स रोषाद्विगुणोत्साहो दन्तिना प्रेयं दन्तिनम्। प्रतीच्छन्सुरसूनौघं जीवग्राहं तमग्रहीत् ।।८९॥ ततः पितुर्ग्रहामर्षात्समुत्तेजितसारथिः। रथी सूर्यरथोऽधायद्धीरध्वनि धुनन्धनुः ॥१०॥ समापतन्त मालोक्य पितुः श्रान्तस्य संमुखम् । महीरथस्तमाह्वास्त दत्त्वा स्वरथमन्तरा ॥११॥ प्रहृत्य च चिरं चश्चञ्चारुचामीकरच्छवी।
निचखान तदीयोरःस्थलस्थाले शिलीमुखम् ॥९२।। समाहितः ॥८७॥5 क्रोध इति । तदङ्ग तस्य भीमरथस्याङ्ग शरीरे । पूर्व प्राक् । मनाक् ईषत् । सुप्त इव । स्थितः आसितः । यः क्रोधः कोपः । गाढारातिप्रहारेण गाढेन दृढेनारातः शत्रोः प्रहारेण ताडनेन । सः क्रोधः । क्षणात् शीघ्रात् । प्रबुद्धः' जागरितः। अभूत् । लुङ् ॥८८॥ स इति । रोषाद्विगुणोत्साहः रोषेण कोपेन द्विगुणो द्विगुणयुक्तः उत्साहो वीररसो यस्य सः । सः भीमरथः। दन्तिना गजेन । दन्तिनं गजम् । प्रेर्य प्रेरयित्वा। सुरसूनौघं सुरैर्देवैः कृतं सूनीघं पुष्पवृष्टिम् । प्रतीक्षन् अङ्गोकुर्वन् । तं महारथम् । जीवग्राहंगृहीतपुरुषम् । अग्रहीत् । ग्रह उपादाने लुङ् । 'कृञ् ग्रहोऽकृतजोवात्' इति णम्-प्रत्ययः ।।८९।। तत इति । ततः पश्चात् । पितुः जनकस्य । ग्रहामर्षात् ग्रहाद् ग्रहणाज्जाताद् अमर्षात् कोपात् । समुत्तेजितसारथिः समुत्तेजितः प्रेरितः सारथिः सूतो येन सः । रथो रथयुक्तः । सूर्यरथः सूर्यस्य रथनामा महारथपुत्रः । धीरध्वनि धीरो गम्भीरो ध्वनिर्यथा तथा। धनुः चापम् । धुनन् कम्पयन् । अधावत् शीघ्रमगच्छत् । जातिः ॥९०॥ समेति । श्रान्तस्य आयासं गतस्य । पितुः जनकस्य । संमुखम् अभिमुखम् । समापतन्तम् आगच्छन्तम् । तं सूर्यरथम् । ॐ समालोक्य [आलोक्य ] वीक्ष्य । महीरथः महीरथराजः । स्वरथं निजस्यन्दनम। अन्तरा भीमरथसूर्य रथयोर्मध्ये। दत्वा नीत्वा आहास्त आह्वयति स्म । ढेङ् ( ब ) स्पर्खयां लङ् ॥९१॥ प्रहृत्येति चिरं बहुवेलापर्यन्तम् । प्रहृत्य युद्धं कृत्वा । उसकी प्रतीक्षा करता रहा । इतनेमें हो वह होठ चबाता हुआ उठ बैठा ॥८७॥ उसके शरीरमें जो क्रोध पहले सोया हआ-सा पड़ा था, वह शत्रके तीव्र प्रहारसे शीघ्र ही जाग उठा ॥८८|| क्रोधके कारण भीमरथका उत्साह दूना हो गया। फिर उसने अपने हाथीसे महारथके हाथीको पीछे हटवा दिया। यह देखकर देवोंने पुष्पवृष्टि की । बस, फिर क्या था, उसने पुष्पवृष्टि स्वीकार करते हुए महारथको जीतेजी ही पकड़ लिया ॥८९॥ इसके बाद पिताके पकड़े जानेपर सूर्य रथने-जो रथपर सवार था-अपने सारथीको रथ हांकनेकी आज्ञा दी, और धनुषकी ध्वनि करता हुआ, बड़े वेगसे आगे बढ़ा ॥९०॥ अपने पिताको पस्त देखकर सूर्यरथ उसकी सहायताके लिए चला जा रहा था, पर उसके रास्तेमें रथ खड़ा करके महीरथने उसे अपने साथ युद्ध करनेके लिए ललकारा ॥६१॥ बहुत देर तक प्रहार करके महीरथने सूर्यरथके चमचमाते हुए
१. इ संप्रबुद्धः । २. म सुरसेनौघं । ३. आ इ पितृग्रहामर्षात् । ४. म ध्वनद्धनुः । ५. क ख ग घ म समायान्तं समा। ६. अ स्थलस्थाने। ७. आ प्रतो स्वस्तिकान्तगता व्याख्या नास्ति । ८. शीघ्रम् । ९. = उबद्धः । १०. = द्विगुणितः। ११. =जीवितमेव । १२. जग्राह । १३. श गृहि । १४. श 'समुत्तेजितसारथिः' इति नास्ति । १५. = रथारूढ इत्यर्थः । १६. = सूर्य रथनामा । १७. श समिति । १८. = विलोक्य । १९. आ स्वस्तिकान्तर्गता व्याख्या नोपलभ्यते । २०, श 'हेड स्पर्धायां' इति नास्ति केवलं 'लुङ्' इत्यस्ति नतु लङ् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org