SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् [१५, ८४ ककुष्पर्यन्तविश्रान्ततद्वाणभयविह्वलम् । नूनं व्योम तदा ह्यासीन्मुक्तमूर्तिपरिग्रहम् ।।८४॥ वीराभिलाषात्सर्पन्ती समीपमुभयोर्मुहुः । गतागतपरिक्लेशं न जयश्रीरजीगणत् ।।५।। मन्त्रेणेव ततः शत्रोः शकुना मूर्ध्नि ताडितः । मूच्छा भीमरथो भीमभुजंगम इवागमत् ।।८६।। क्षणं प्रतीक्षते यावत्क्षात्रधर्माश्रयादरिः । उत्तस्थौ दशनैस्तावत्स दशन्दशनच्छदम् ।।८।। लिट ॥५२॥ चिरमिति । अप्राप्तखण्डितैः अप्राप्तैरनालग्नः खण्डितैश्छिन्नः। शरैः बाणः। चिरं बहकालपर्यन्तम् । अक्षतदेही अक्षतौ अबाधितौ देही ययोस्तौ। महावीरौ महाविक्रान्ती। विस्मितामरवीक्षिती विस्मितैराश्चर्ययुक्तरमरैर्देवैर्वीक्षितौ दृष्टी। तो महारथभीमरथौ । युयुधाते युध्यते स्म । युधि संप्रहारे लिट् ॥३॥ ककुबिति । ककुप्पर्यन्तविश्रान्ततद्बाणभयविह्वलं ककुभां दशदिशां पर्यन्तेऽवसाने विश्रान्तैः पतितैस्तयोमहारथभीमरथयोर्बाणः शरैर्जातेन भयेन विह्वलं मूच्छितम् । व्योम गगनम् । तदाद्या [ तदा हि ततः प्रभृति । मुक्तदेहपरिग्रहं मुक्तस्त्यक्तो देहस्य शरीरस्य परिग्रहो यस्य तत् । आसीत् अभूत् । लङ । नूनं निश्चयोऽयम् । अनुमितिः ॥८४॥ वीरेति । वीराभिलाषात् वीरस्य शूरस्याभिलाषाद् वाञ्छायाः सकाशात् । उभयोः महारथभीमरथयोः । समीपम् अन्तिकम् । मुहुः६ पश्चात् । सर्पन्ती गच्छन्तो। जयश्री: जयलक्ष्मीः । गतागतपरिक्लेशं गतागताभ्यां गमनागमनाभ्यां जातं परिक्लेशं थमम् । नाजीगणत संख्यां न करोति स्म । गण संख्याने लुङ् ॥८५॥ मन्त्रेणेति । ततः पश्चात् । मन्त्रेणेव मन्त्रप्रयोगेणेव । शत्रोः रिपोः । शङ्कना शङ्कनामायुधेन । मूनि मस्तके । ताडितः प्रहारितः । भीमरथः भीमरथराजः । भीमभुजङ्गम इव भीमो भयङ्करः स चासो भुजङ्गमश्च सर्पश्च तथोक्तः स इव । मूच्छी विह्वलं । अगमत् अगच्छत् । लुङ् । उपमा ॥८६॥ क्षणमिति । अरिः महारथः । क्षात्रधर्माश्रयात् क्षात्रस्य क्षत्रसंबन्धस्य धर्मस्य स्वभावस्याश्रयादाश्रयणात् । यावत् यावत्पर्यन्तम् । क्षणं स्वकल्पकालपर्यन्तम् । प्रतीक्षते'' विलोकते। [ तावत् ] तावदेव । दशनः दन्तैः। दशनच्छदम् ओष्ठम् । दशन् पोडयन् । सः भीमरथः । उत्तस्थौ उत्तिष्ठति स्म । लिट । आश्चर्यसे देख रहे थे ॥८३॥ इसके पश्चात् दोनोंका युद्ध और भी उग्र हो गया। दोनोंके बाण दिशाओंके अन्त तक पहुंचने लगे, जिससे उस समय आकाश भी भयभीत हो गया। मानो इसीलिए उसने मूर्तिका परिग्रह छोड़ दिया--आमूर्तिक हो गया ।।८४॥ दोनोंकी बराबरीकी जोड़ी थी, अतः कभी एक की विजय होती थी तो कभी दूसरेकी। दोनोंमें जो भी वीर निकलेगा, उसे पानेकी अभिलाषासे विजयलक्ष्मी बार-बार दोनोंके पास आ-जा रही थी उसने जाने-आनेके बहुत भारी क्लेशकी कोई पर्वाह नहीं की। वीरवरके वरणकी कामना जो थी ॥८५॥ जिस प्रकार मन्त्रसे कीलित सर्प, चाहे कितना ही भयङ्कर क्यों न हो, मूच्छित हो जाता है। इसी प्रकार महारथके बाणको नोक सिरमें धंस जानेसे भीमरथ-जो जहरीले काले नागकी भाँति भयङ्कर था-मूर्छित हो गया ॥८६॥ भीमरथके बेहोश हो जानेपर महारथने क्षत्रिय धर्मका पालन करनेके लिए प्रहार बन्द कर दिया, और थोड़ी देर तक १. अ वीरोऽभि २. आ इ क्षत्रधर्मी ।। ३. आ भवानि परिग्रहो ; श भवः परिग्रहों । ४. = येन । ५. = उत्प्रेक्षा । ६. = पुनः पुनः । ७. =न गणयामास । ८. = ताडनं प्रापितः । ९. = विह्वलताम् । १०. -क्षत्रसंबन्धिनः । ११. प्रतिपालयति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy