________________
३६५
-१५, ८३j
पञ्चदशः सर्गः धनुर्महारथेनाथ दुधुवे धैर्यशालिना । स्वपक्षव्यसनालोकसमुद्दीपितचेतसा ।६।। नग्नश्रावितनामासौ बद्धभ्रुकुटिभीषणः । ववर्ष शरधाराभिरभि शत्रुपताकिनीम् । ८०॥ क्वासौ भीमरथो यस्य बलेन किल जेष्यति । पद्मनाभो नटत्करकबन्धामरिवाहिनीम् ॥८॥ गर्वगद्गदमित्युक्त्वा चिह्नोदेशेन संमुखम् । धावन्प्रत्यवतस्थेऽरिः शरैर्भीमरथेन सः॥२॥ चिरमततदेही तो शरैरप्राप्तखण्डितैः ।
युयुधाते महावीरौ विस्मितामरवीक्षितौ ॥३॥ पराङ्मुखम् । विदधे चक्रे । लिट् ॥७८॥ धनुरिति । अथ विरोचनवैमुख्यानन्तरम् । स्वपक्षव्यसनालोकसमुद्दीपितचेतसा स्वस्य आत्मनः पक्षस्य व्यसनस्य आलोकेन वीक्षणेनोद्दीपितं कोपितं चेतश्चित्तं यस्य तेन । धैर्यशालिना धैर्येण धीरत्वेन शालिना संपन्नेन । महारथेन महारथराजेन । धनुः चापं । दुधुवे धूयते स्म । धू कम्पने कर्मणि लिट् ॥७९॥ नग्नेति । नग्नश्रावितनामा नग्नैः स्तुतिपाठकः श्रावितमाकणितं ( श्रुतिविषयतां नीतं ) नाम यस्य सः । बद्धभ्रुकुटिभीषणः बद्धया रचितया भ्रुकुटया भ्रूभङ्गेन भीषणो भयङ्करः । असो महारथः। शत्रुपताकिनी रिपुसेनाम् । अभि अभिमुखम् । शरधाराभिः शराणां बाणानां धाराभिः प्रवाहैः । ववर्ष वर्षति स्म । वृष( पू ) सेचने लिट् ॥८०॥ क्वेति । यस्य राज्ञा । बलेन सहायेन । पद्मनाभभूपः। नटस्क्रूरकबन्धां नटन् नृत्यन् क्रूरो निष्ठुरः कबन्धः शवो यस्यां ताम् । अरिवाहिनीम् अरेः शत्रोर्वाहिनी सेनाम् । जेष्यति परिभविष्यति किल । असौ एषः। भीमरथः भीमरथनामा । क्व कुत्र वर्तते ? ॥८१।। गर्वेति । गर्वगद्गदं गर्वेणाहङ्कारेण गद्गदोऽव्यक्तवचनं यस्मिन्कर्मणि तत् । इति एवम् । उक्त्वा निगद्य । चिह्नोद्देशेन चिह्नन लक्षणेन उद्देशेन वचनेन । संमुखम् अभिमुखम् । धावन् वेगेनागच्छन् । सः । अरिः शत्रः । भीमरथेन भीमरथराजेन । शरैः बाणः। प्रत्यवतस्थे निरुध्यते स्म । ष्ठा गतिनिवृत्तौ कर्मणि
सम्मुख बाणोंसे विमुख कर दिया ॥७८॥ विरोचनके पराङ्मुख होते ही महारथने-जो धैर्यसे विभूषित था और जिसे अपने पक्षपर आये हुए सङ्कटको देखकर क्रोध उत्पन्न हो गया थाधनुष उठा लिया, और उसे हिलाना शुरू कर दिया ॥७९।। लोगोंने उसका नाम स्तुति पाठकोंसे सुना। भ्रकुटि टेढ़ी कर लेनेसे वह बड़ा भयङ्कर दिख रहा था। उसने शत्रु सेनापर बाण बरसाना प्रारम्भ किया ।।८०॥ 'पद्मनाभ, जिसके बलसे शत्रुओंकी सेनाको-जिसमें धड़ नाच रहे हैं-जीतेगा वह भीमरथ कहां है ?' |८१॥ गर्वसे गद्गद होकर यों कहते ही महारथ भीमरथके चिह्नको लक्ष्यकर उसकी ओर दौड़ा, पर भीमरथने अपने बाणोंसे उसे बीच ही में रोक दिया ॥८२॥ वे दोनों ही बड़े वीर थे, और थे धनुर्विद्यामें प्रवीण । दोनों एक दूसरेके ऊपर बाण बरसा रहे थे, किन्तु बीच में ही काट दिये जानेसे, वे किसीको भी नहीं लग पाते थे। अतः दोनों बहुत देर तक लड़ते रहे, पर घायल नहीं हुए। देव लोग भी उन्हें
१. आ °विमुखान । २. श व्यसनस्यास्वर्धनपत्तेरालोकेन । ३. = चापः । ४. श दुदुवे दूयते स्म । ५. दून । ६. श स्था।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org