________________
३६४
चन्द्रप्रभचरितम्
[१५,७४
स क्रुद्धेन सुभीमेन स्फुरदर्पमहाविषः । ताक्ष्येणाशीविष इव निर्विषीकृत्य तर्जितः ।।७४।। रथस्थेन समुत्तस्थे भग्ने केतौ सुकेतुना । पुरः प्रदर्शितात्मीयमरुच्चञ्चलकेतुना ।।७।। तं महास्त्रैर्महासेनश्चकार शतशर्करम् । दुर्धरैःप्रलयाम्भोदो वचैरिव महीधरम् ।।६।। वीक्ष्य ताय॑मिव च्छिन्नपक्षं तं पतितं रणे। विरोचन इवासह्यधामाधावद्विरोचनः ।।७७।। तं गजस्थं गजारूढः सेनः सेनासमन्वितः । संमुखैर्विमुखं बाणैर्विदधे पुरुविक्रमः ।।७।।
लिट् । उपमा ॥७३॥ स इति । स्फुरदर्पमहविषः स्फुरन् प्रज्वलन् दर्प इव ( एव ) महत् पृथुलं विषं गरलं यस्य सः । सः केतुराजः। क्रुद्धेन कोपितेन । भीमेन पद्मनाभस्य सेनान्या । रूपकम् । तार्येण गरुडेन । आशीविष इव सर्पवत । निविषीकृत्य सामर्थ्यरहितं कृत्वा । जित: त्यक्तः । उपमा ॥७४॥ रथेति । केतो केतुराजे। भग्ने' भङ्गं याते सति । पुरः अग्रे। प्रशितात्मीयमरुच्चञ्चलत्केतुना प्रदर्शिताः प्रकाशिता आत्मीयाः स्वकीया मरुता वायुना चञ्चलाः कम्पमाना: केतवः पताका यस्य तेन । रथस्थेन रथे आस्थितेन । सुकेतुना सुकेतुराजेन । समत्तस्थे समत्थीयते स्म ॥७५॥ तमिति । प्रलयाम्भोदः प्रलयस्य प्रलयकालस्याम्भोदो मेघः । दुर्धरैः दुर्वारः । वज्रः अशनिभिः । महीधरमिव पर्वतमिव । महासेनः महासेनराजः । महास्त्रैः महाशस्त्रः । तं सुकेतुम् । शतशर्करं शतखण्डं शतचूर्ण वा। चकार करोति स्म । उपमा ।।७६॥ वीक्ष्येति । छिन्नपक्षं छिन्नो भिन्नः पक्षः पतत्रं यस्य तम् । तायमिव गरुडमिव । रणे संग्रामे । पतितं च्युतम् । तं सुकेतुम् । वीक्ष्य दृष्ट्वा। विरोचन इव सूर्य इव । असह्यधामा असह्य सोढुमशक्यं धाम तेजो यस्य सः । विरोचन: विरोचनराजः । अधावत वेगेनागच्छत । स गती लड़। उपमा ॥७७॥ तमिति । गजारूढः गजं करिणमारूढः । पुरु मः पुरुमहान् विक्रमः पराक्रमो यस्य सः । सेनः पद्मनाभपक्षसेनराजः । सेनासमन्वित सेनया समन्वितं सहितम् । गजस्थं गजारूढम् । तं विरोचनराजम् । संमुखैः अभिमुखैः । बाणैः शरैः। विमुखं
ग्रह सरीखा केतु नामक राजा सभी प्रतिपक्षी लोगोंको भयभीत करता हुआ लड़नेके लिए खड़ा हो गया ॥७३॥ जहरीले नागको भांति केतुका घमण्ड रूपी तीव्र विष बढ़ता जा रहा था, पर भीमने गरुड़की तरह क्रुद्ध होकर विष उतार दिया और उसे निर्जीव-सा कर दिया ॥७४॥ केतुके पराजित हो जानेपर सुकेतु सामने आया, वह रथपर सवार था और उसके द्वारा प्रदर्शित झण्डा हवासे लहरा रहा था ॥७५॥ उसे महासेनने अपने बड़े-बड़े अस्त्रोंसे सौ ढूंक कर डाला। जिस तरह प्रलयकालीन मेघ दुर्वार वज्रोंको बरसाकर पहाड़को सौ ढूंक कर देता है-चूर-चूर कर देता है ।।७६।। कटे पंखोंवाले गरुडकी भांति उस सुकेतुको रणमें गिरा हुआ देखकर सूर्यकी तरह असह्य तेजको धारण करनेवाला विरोचन बड़े वेगसे सामने आया। ७७।। वह हाथीपर सवार • था, अतः अत्यन्त पराक्रमी सेन राजाने भी-जिसके साथ सेना भी थी-हाथीपर चढ़कर उसे
१. म दुर्धरप्रलयाम्भोद । २. इ सेनः सेना। ३. अ गुरुविक्रमः । ४. श 'सद्धेन.' इत्यादि पद्यस्य व्याख्या नोपलभ्यते। ५. = कुपितेन । ६. = पराजिते । ७. = रथारूढेन । ८.एष टीका पाठः, प्रतिषु तु "समन्वितः' इत्येव दृश्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org