________________
- १५, ७३] पञ्चदशः सर्गः
३६३ परस्परास्त्रसंघट्टप्रोच्छलद्भुतभुक्छिखम् । तीदणरोपपरिक्षेपखण्डितान्योन्यकेतनम् ।।६९।। प्रध्वनद्धनुरारावरोषितक्षीबकुञ्जरम् । प्रहारविगलद्रक्तधारारचितदुर्दिनम् ॥७०।। रन्ध्र प्राप्यार्धचन्द्रण ततो भीमस्य भासुरम् । किरीटं पातयामास सचिह्न शशिशेखरः ।।७१॥ भीमेनापि हतः शक्त्या क्रोधादरिरुरःस्थले। निपपात वमन्ननं सह स्वामिजयाशया ॥७२।। पुरः पतितमालोक्य तं प्रतापमिव प्रभोः।
केतुः केतुरिवोत्तस्थौ त्रासयन्नखिलं जनम् ।।७३।। संघट्टनरूपम् । रणं ( रणः ) संग्रामः । बभूव भवति स्म। लिट् ॥६८॥ परस्परेति । परस्परास्त्रसंघट्टप्रोच्छल
धुतभुशिखं परस्परस्यान्योन्यस्य अस्त्राणां संघट्टनेन' स्पर्द्धन प्रोच्छलन्ती उद्गच्छन्ती हुतभुजो अग्नेः शिखा. ज्वाला यस्मिन् तत् । तीक्ष्णरोपपरिक्षेपखण्डितान्योन्यकेतनं तीक्ष्णरोपाणां बाणानां परिक्षेपेण विकिरणेन खण्डितानि छिन्नानि अन्योन्यस्य केतकानि ध्वजानि यस्मिन् (तत् ) ॥६९॥ प्रध्वनदिति । प्रध्वनधनुरारावरोषितक्षीबकुञ्जरं प्रध्वनतां ध्वनि कुर्वतां धनुषां चापानामारावेण शब्देन रोषिताः कोपिताः क्षीबा मत्ताः कुञ्जरा गजा यस्मिन् तत् । प्रहारविगलद्रक्तधारान्तरितदुर्दिनं प्रहारेण प्रहरणेन विगलन्त्या प्रस्रवन्त्या रक्तस्यासृजो धारया प्रवाहेणान्तरितं व्यवहितं दुदिनं मेघच्छन्नदिनं यस्मिन् तत् । त्रिभिः कुलकम् (विशेषकम्) ॥७०॥ रन्ध्रमिति । तत: पश्चात् । शशिशेखरः चन्द्रशेखरः । रन्धं समयम् । प्राप्य लब्ध्वा । अर्धचन्द्रेण अर्धचन्द्राकारेण बाणेन । भीमस्य पद्मनाभसेनापतेः। भासुरं देदीप्यमानम् । किरीटं मकुटम् । सचिह्न ध्वजसहितम् । 'ध्वज: पताका केतुश्च चिह्नयद्वैजयन्त्यपि। पातयामास अपनिनाय। पत्ल गतो णिजन्ताल्लिट ॥७१॥ भीमेनेति । भीमेनापि पद्मनाभस्य सेनापतिनापि । क्रोधात् कोपात् । उरःस्थले वक्षःस्थले । शक्त्या शक्त्यायुधेन । हतः हिंसितः । अरिः शत्रुः । स्वामिजयाशया स्वामिनोविभोर्जयस्य विजयस्याशया वाञ्छया। सह साकम् । अस्रं रक्तम् । वमन् उद्गिरन् । निपपात पतति स्म । लिट् । सहोक्तिः ॥७२॥ पुर इति । प्रभोः स्वामिनः । प्रतापमिव सामर्थ्य मिव । पुरः अग्रे। पतितं तं चन्द्रशेखरम् । आलोक्य वीक्ष्य । केतुरिव धूमकेतुवत् । केतुः केतुराजः । निखिलं सकलम् । जनं लोकम् । त्रासयन् तर्जयन् । उत्तस्थी उत्तिष्ठति स्म । छिड़ गया। दोनोंके आकाशव्यापी बाणोंके गिरनेसे देव लोग वहाँसे बहुत दूर हट गये ॥६॥ परस्परके अस्त्रोंके टकरानेसे अग्निकी ज्वाला निकल पड़ी। तीखे बाणोंके प्रहारसे दोनोंने एक दूसरेके झण्डे काट डाले ॥६९॥ दोनोंके धनुषोंके शब्द सुनकर मदोन्मत्त हाथी क्रुद्ध हो उठे, और अस्त्रोंके प्रहारसे रुधिरकी धारा बहने लगी, उसने वर्षाकालीन दिनकोजिसमें खूब मेघ घुमड़ रहे हों-मात कर दिया ॥७०॥ चन्द्रशेखरने अवसर पाकर अर्धचन्द्राकार बाणसे भीमका चिह्न सहित देदीप्यमान मुकुट गिरा दिया ॥७१॥ भीमने भी क्रुद्ध होकर चन्द्रशेखरके सीनेपर शक्ति नामक आयुधका प्रहार किया, जिससे उसके मुखसे खून आने लगा, और फिर वह अपने स्वामीकी विजयकी आशाके साथ नीचे गिर गया ॥७२॥ राजा पृथिवीपालके प्रतापके समान प्रतीत होनेवाले चन्द्रशेखरको सामने गिरा हआ देखकर केत
१. म वमन्नस्त्रं । २. = संवर्षणेन । ३. = ध्वजाः । ४. एष टोकाश्रयः पाठः, प्रतिषु तु रचितदुर्दिनम् इत्येव दृश्यते । ५. = येन । ६. श चन्द्रिणा। ७. आ ध्वजसहितं यथा। ८. श उपमा । ९. एष टीकाश्रयः पाठः प्रतिषु तु 'अखिलं' इति समुपलभ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org